अष्टमं मण्डलम् - सूक्तम् 80

10 ऋचः

ऋषिः: एकद्यूर्नौधसः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 8.80 - सम्पूर्णम्

1 / 10
ऋक्: 8.80.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
8.80.1
न॒ह्य१॒᳚न्यं ब॒ळाक᳚रं मर्डि॒तारं᳚ शतक्रतो ।
त्वं न᳚ इन्द्र मृळय ॥
▶ पदपाठः (Word-by-word)
न॒हि । अ॒न्यम् । ब॒ळा । अक᳚रम् । म॒र्डि॒तार᳚म् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो त्वत्तोन्यं मर्डितारं सुखयितारं बळा बट् तन्नह्यकरं नकरोमि तस्मात् हे इन्द्र त्वं नोस्मान्मृळय ॥ १ ॥

8.80.2
यो न॒ः शश्व᳚त्पु॒रावि॒थामृ᳚ध्रो॒ वाज᳚सातये ।
स त्वं न᳚ इन्द्र मृळय ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । शश्व᳚त् । पु॒रा । आवि᳚थ । अमृ᳚ध्रः । वाज᳚॑सातये ।
सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यस्त्वं अमृधः शत्रुभिरहिंसितः सन् पुरा पूर्वस्मिन्काले शश्वत् बहुवारं नोस्मान् आविथ रक्षितवानसि । सत्वं नोस्मान्वाजसातये अन्नदानार्थं यद्वा अन्नसंसजनार्थं मृळय सुखय ॥ २ ॥

8.80.3
किम॒ङ्ग र᳚ध्र॒चोद᳚नः सुन्वा॒नस्या᳚वि॒तेद᳚सि ।
कु॒वित्स्वि᳚न्द्र ण॒ः शकः᳚ ॥
▶ पदपाठः (Word-by-word)
किम् । अ॒ङ्ग । र॒ध्र॒॑चोद᳚नः । सु॒न्वा॒नस्य᳚ । अ॒वि॒ता । इत् । अ॒सि॒ ।
कु॒वित् । सु । इ॒न्द्र॒ । नः॒ । शकः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंग हे इन्द्र त्वं रध्रचोदनः रध्रं राधकं चोदयतीति रध्रचोदनः तादृशस्त्वं सुन्वानस्यावितेदसि रक्षक एव भवसि । अतोनोस्माकं कुविद्वहु सु सुष्ठु शकः अशकःशक्तोभव बहुधनं कुर्वित्यर्थः अस्मान्वा बहुकुर्विति ॥ ३ ॥

8.80.4
इन्द्र॒ प्र णो॒ रथ᳚मव प॒श्चाच्चि॒त्सन्त᳚मद्रिवः ।
पु॒रस्ता᳚देनं मे कृधि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । प्र । नः॒ । रथ᳚म् । अ॒व॒ । प॒श्चात् । चि॒त् । सन्त᳚म् । अ॒द्रि॒॑वः॒ ।
पु॒रस्ता᳚त् । ए॒न॒म् । मे॒ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोरथं प्राव प्ररक्ष । कीदृशं रथं पश्चाच्चित्सन्तं चिदप्यर्थे अस्मत्समानरथानां पश्चाद्भूतमप्येनं मे रथं हे अद्रिवो वज्रवन्निन्द्र पुरस्ताद्वर्तमानं कुधि कुरु ॥ ४ ॥

8.80.5
हन्तो॒ नु किमा᳚ससे प्रथ॒मं नो॒ रथं᳚ कृधि ।
उ॒प॒मं वा᳚ज॒यु श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
हन्तो॒ इति᳚ । नु । किम् । आ॒स॒से॒ । प्र॒थ॒मम् । नः॒ । रथ᳚म् । कृ॒धि॒ ।
उ॒प॒॑मम् । वा॒ज॒॑यु । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हन्तेत्येतदादि मुख्यकृदामन्त्रितेन समानं हन्तेन्द्र नु इदानीं किं त्वं तूष्णीमाससे । तत्र किं करोमीति चेत् उच्यते-नः रथं प्रथमं सर्वेषां मुख्यं कृधि कुरु वाजयु अस्माकमन्नमिच्छच्छ्र्वोन्नं हविर्लक्षणं उपमं अन्तिकनामैतत् तवान्तिकभूतं वर्ततइतिशेषः । यस्मादेवं तस्माद्रयं अस्मदीयं प्रथमं कृधीति ॥ ५ ॥

8.80.6
अवा᳚ नो वाज॒युं रथं᳚ सु॒करं᳚ ते॒ किमित्परि᳚ ।
अ॒स्मान्त्सु जि॒ग्युष᳚स्कृधि ॥
▶ पदपाठः (Word-by-word)
अव᳚ । नः॒ । वा॒ज॒॑युम् । रथ᳚म् । सु॒॑कर᳚म् । ते॒ । किम् । इत् । परि᳚ ।
अ॒स्मान् । सु । जि॒ग्युषः᳚ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोवाजयुं अन्नेच्छुं रथं अव रक्ष । संग्रामे ते तव किमित् किमपि सर्वकर्तव्यजातं परि परितः सुकरं सुखेन कर्तव्यम् । तव कर्तुमशक्यं नकिं- चिदस्ति । यस्मादेवं तस्मात् अस्मान् सुजिग्युषः सुष्ठु जेतॄन् कृधि कुरु संग्रामे ॥ ६ ॥

8.80.7
इन्द्र॒ दृह्य᳚स्व॒ पूर᳚सि भ॒द्रा त᳚ एति निष्कृ॒तम् ।
इ॒यं धीरृ॒त्विया᳚वती ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । दृह्य᳚स्व । पूः । अ॒सि॒ । भ॒द्रा । ते॒ । ए॒ति॒ । निः॒॑कृ॒तम् ।
इ॒यम् । धीः । ऋ॒त्विय᳚॑वती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं दृह्यस्व दृढोभव संग्रामे त्वं पूरसि पूरयसि यथा पुरमविचलितं तद्वत्त्वमसि । अथवास्मदीये यज्ञे दृढोभव त्वं पुनरन्ययज्ञं जिगमिषुर्माभूः त्वं पूः पूरकः कामानामसि । किमत्र विद्यतइति चेत् उच्यते-निष्कृतं निष्कर्तारं ते त्वां भद्रा कल्याणी इयं धीः स्तुतिः क्रिया वा ऋत्वियावती ऋतुशब्दः कालोपलक्षकः स्वकालोपेता सती एति गच्छति । यद्वा ते निष्कृतं स्थानमेति ॥ ७ ॥

8.80.8
मा सी᳚मव॒द्य आ भा᳚गु॒र्वी काष्ठा᳚ हि॒तं धन᳚म् ।
अ॒पावृ᳚क्ता अर॒त्नयः᳚ ॥
▶ पदपाठः (Word-by-word)
मा । सी॒म् । अ॒व॒द्ये । आ । भा॒क् । उ॒र्वी । काष्ठा᳚ । हि॒तम् । धन᳚म् ।
अ॒प॒॑आवृ᳚क्ताः । अ॒र॒त्नयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मास्मान् सीं सर्वतोऽवधे निन्दा आभाग् माभजतु प्राप्नोतु न कुतश्चित् । पापरहितान्कुर्वित्यर्थः । किंचोर्वी काष्ठा बह्वंतरालआज्यंतः आज्यंतोपि काष्ठोच्यते कान्त्वा स्थितोभवतीति यास्कः । तत्र हितं निहितं शत्रुसंबन्धि धनं अस्माकं भवत्वित्यर्थः । अरत्नयः अरममाणाःशत्रवः अपावृक्ताः सन्त्वितिशेषः ॥ ८ ॥

8.80.9
तु॒रीयं॒ नाम᳚ य॒ज्ञियं᳚ य॒दा कर॒स्तदु᳚श्मसि ।
आदित्पति᳚र्न ओहसे ॥
▶ पदपाठः (Word-by-word)
तु॒रीय᳚म् । नाम᳚ । य॒ज्ञिय᳚म् । य॒दा । करः᳚ । तत् । उ॒श्म॒सि॒ ।
आत् । इत् । पतिः᳚ । नः॒ । ओ॒ह॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं यज्ञियं यज्ञसंबन्धिनं तुरीयं चतुर्थं नाम यदा करः करोषि तदुश्मसि कामयामहे आदिदनंतरमेव नामकामानन्तरमेव पतिः पालकः त्वं नोस्मानोहसे वहसि प्रापयसि । नक्षत्रनाम गुह्यंनाम प्रकाशं नामेति त्रीणि नामानि । सोमयाजीति तुरीयं नाम तच्चयज्ञियं ॥ ९ ॥

8.80.10
अवी᳚वृधद्वो अमृता॒ अम᳚न्दीदेक॒द्यूर्दे᳚वा उ॒त याश्च᳚ देवीः ।
तस्मा᳚ उ॒ राधः᳚ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
अवी᳚वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम᳚न्दीत् । ए॒क॒॑द्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ ।
तस्मै᳚ । ऊं॒ इति᳚ । राधः᳚ । कृ॒णु॒त॒ । प्र॒॑श॒स्तम् । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयं वैश्वदेवी । हे देवाः हे अमृता अमरण वोयुष्मानयमवीवृधत् वर्धयति स्तुत्या । अमंदीत् तर्पयति सोमेन । एकद्यूः ऋषिरहम् । उतापिच हे देवीर्देव्यो याश्च यूयं स्थोयुष्मानपि अवीवृधदमन्दीच्च तस्मै राधो धनं प्रशस्तं प्रवृद्धं कृणुत कुरुत । उइति पूरणः एवकारार्थोवा । प्रातः प्रातरेव मक्षु क्षिप्रं धियावसुः कर्मधनइन्द्रो जगम्यादागच्छतु । इन्द्रस्य देवरतामित्वादाधिक्यद्योतनाय पुनरभिधानम् ॥ १० ॥

नवमेनुवाके त्रयोदशसूक्तानि । तत्रातूनइन्द्रेति नवर्चं प्रथमं सूक्तं कण्वपुत्रस्य कुसीदिनआर्षं गायत्रमैन्द्रम् । तथाचानुक्रम्यते-आतूनोनवकुसी- दीकाण्वइति । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतदादिके द्वे सूक्ते । तथैव पंचमारण्यके सूत्रितंच शौनकेन-आतूनइन्द्रक्षुमंतमिति सूक्ते सूददोहाइति । द्वितीये पर्याये मैत्रावरुणशस्त्रे आद्यस्तृचः स्तोत्रियः । सूत्रितंच-आतूनइन्द्रक्षुमन्तमाप्रद्रवपरावतइति ।