श्रवणम्

8.80.10
अवी᳚वृधद्वो अमृता॒ अम᳚न्दीदेक॒द्यूर्दे᳚वा उ॒त याश्च᳚ देवीः ।
तस्मा᳚ उ॒ राधः᳚ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
अवी᳚वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम᳚न्दीत् । ए॒क॒॑द्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ ।
तस्मै᳚ । ऊं॒ इति᳚ । राधः᳚ । कृ॒णु॒त॒ । प्र॒॑श॒स्तम् । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयं वैश्वदेवी । हे देवाः हे अमृता अमरण वोयुष्मानयमवीवृधत् वर्धयति स्तुत्या । अमंदीत् तर्पयति सोमेन । एकद्यूः ऋषिरहम् । उतापिच हे देवीर्देव्यो याश्च यूयं स्थोयुष्मानपि अवीवृधदमन्दीच्च तस्मै राधो धनं प्रशस्तं प्रवृद्धं कृणुत कुरुत । उइति पूरणः एवकारार्थोवा । प्रातः प्रातरेव मक्षु क्षिप्रं धियावसुः कर्मधनइन्द्रो जगम्यादागच्छतु । इन्द्रस्य देवरतामित्वादाधिक्यद्योतनाय पुनरभिधानम् ॥ १० ॥

नवमेनुवाके त्रयोदशसूक्तानि । तत्रातूनइन्द्रेति नवर्चं प्रथमं सूक्तं कण्वपुत्रस्य कुसीदिनआर्षं गायत्रमैन्द्रम् । तथाचानुक्रम्यते-आतूनोनवकुसी- दीकाण्वइति । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतदादिके द्वे सूक्ते । तथैव पंचमारण्यके सूत्रितंच शौनकेन-आतूनइन्द्रक्षुमंतमिति सूक्ते सूददोहाइति । द्वितीये पर्याये मैत्रावरुणशस्त्रे आद्यस्तृचः स्तोत्रियः । सूत्रितंच-आतूनइन्द्रक्षुमन्तमाप्रद्रवपरावतइति ।