अ॒ग्निनेन्द्रे᳚ण॒ वरु᳚णेन॒ विष्णु᳚नादि॒त्यै रु॒द्रैर्वसु᳚भिः सचा॒भुवा᳚ ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ॥
अ॒ग्निना᳚ । इन्द्रे᳚ण । वरु᳚णेन । विष्णु᳚ना । आ॒दि॒त्यैः । रु॒द्रैः । वसु᳚॑भिः । स॒चा॒॑भुवा᳚ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । सोम᳚म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विना अश्विनौ अग्निना इन्द्रेण वरुणेन विष्णुना आदित्यैरुद्रैर्वसुभिश्च सचाभुवा सहभूतौ उषसा सूर्येणच सजोषसा संगतौ युवां सोमं पिबतम् ॥ १ ॥
विश्वा᳚भिर्धी॒भिर्भुव᳚नेन वाजिना दि॒वा पृ᳚थि॒व्याद्रि᳚भिः सचा॒भुवा᳚ ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ॥
विश्वा᳚भिः । धी॒भिः । भुव᳚नेन । वा॒जि॒ना॒ । दि॒वा । पृ॒थि॒व्या । अद्रि᳚॑भिः । स॒चा॒॑भुवा᳚ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । सोम᳚म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥
हे वाजिना बलिनावश्विनौ विश्वाभिः सर्वाभिर्धीभिः प्रज्ञाभिः भुवनेनाखिलेन भूतजातेनच दिवा द्युलोकेनच पृथिव्याचाद्रिभिश्च सचाभुवा सहभू- तौ उषसा सूर्येणच संगतौ युवां सोमं पिबतम् ॥ २ ॥
विश्वै᳚र्दे॒वैस्त्रि॒भिरे᳚काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु᳚भिः सचा॒भुवा᳚ ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ॥
विश्वैः᳚ । दे॒वैः । त्रि॒॑भिः । ए॒का॒द॒शैः । इ॒ह । अ॒त्॑भिः । म॒रुत्॑भिः᳚ । भृगु᳚॑भिः । स॒चा॒॑भुवा᳚ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । सोम᳚म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ विश्वैर्देवैः त्रिभिः एकादशैः त्रयस्त्रिंशैः इहयज्ञे अद्धिः मरुद्धिः भृगुभिश्च सचाभुवा सहभूतौ उषसा सूर्येणच संगतौ युवां सोमं पिबतम् ॥ ३ ॥
जु॒षेथां᳚ य॒ज्ञं बोध᳚तं॒ हव᳚स्य मे॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव᳚ गच्छतम् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ॥
जु॒षेथा᳚म् । य॒ज्ञम् । बोध᳚तम् । हव᳚स्य । मे॒ । विश्वा᳚ । इ॒ह । दे॒वौ॒ । सव᳚ना । अव᳚ । ग॒च्छ॒त॒म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ । इष᳚म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ देवौ यज्ञं जुषेथां सेवेथाम् । मे मम हवस्य हवं बोधतं जानीतम् । इहयज्ञे विश्वा सवना सर्वाणि सवनानि अवगच्छतं प्राप्नुतम् । इयं अन्नं आवोह्ळं प्रापयतम् ॥ ४ ॥
स्तोमं᳚ जुषेथां युव॒शेव᳚ क॒न्यनां॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव᳚ गच्छतम् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ॥
स्तोम᳚म् । जु॒षे॒था॒म् । यु॒व॒शा॑इ᳚व । क॒न्यना᳚म् । विश्वा᳚ । इ॒ह । दे॒वौ॒ । सव᳚ना । अव᳚ । ग॒च्छ॒त॒म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ । इष᳚म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ देवौ युवां इहास्मिन्यज्ञे स्तोमं जुषेथां सेवेथाम् । युवशेव यथा युवानौ कन्यनां कन्यानामाह्वानं सेवेते तद्वदित्यर्थः । इहयज्ञे विश्वानि सवनान्यवगच्छत प्राप्नुतम् । सिद्धमन्यत् ॥ ५ ॥
गिरो᳚ जुषेथामध्व॒रं जु᳚षेथां॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव᳚ गच्छतम् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ॥
गिरः᳚ । जु॒षे॒था॒म् । अ॒ध्व॒रम् । जु॒षे॒था॒म् । विश्वा᳚ । इ॒ह । दे॒वौ॒ । सव᳚ना । अव᳚ । ग॒च्छ॒त॒म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ । इष᳚म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥
हे देवौ अश्विनौ अस्माकं गिरः स्तुतीः जुषेथां सेवेथाम् । तथा अध्वरं यज्ञच्च जुषेथाम् । इहयज्ञे विश्वा विश्वानि सवनानि अवगच्छतं प्राप्नुतम् ॥ ६ ॥
हा॒रि॒द्र॒वेव᳚ पतथो॒ वनेदुप॒ सोमं᳚ सु॒तं म᳚हि॒षेवाव᳚ गच्छथः ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ त्रिर्व॒र्तिर्या᳚तमश्विना ॥
हा॒रि॒द्र॒वा॑इ᳚व । प॒त॒थः॒ । वना᳚ । इत् । उप᳚ । सोम᳚म् । सु॒तम् । म॒हि॒षा॑इ᳚व । अव᳚ । ग॒च्छ॒थः॒ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विना अश्विनौ युवां सुतमभिषुतं सोममुपपतथः हारिद्रवेव यथा हारिद्रवौ पक्षिणौ वना वनान्युदकानिवा वनमित्युदकनामसुपाठात् उपपत- तः तद्वदित्यर्थः । महिंषाविव यथा पिपासितौ महिषावुदकान्युपगच्छतः । तथा सुतं सोममवगच्छथः । उषसा सूर्येणच संगतौ त्रिर्वर्तिस्त्रिमार्गं या- तंच ॥ ७ ॥
हं॒सावि᳚व पतथो अध्व॒गावि᳚व॒ सोमं᳚ सु॒तं म᳚हि॒षेवाव᳚ गच्छथः ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ त्रिर्व॒र्तिर्या᳚तमश्विना ॥
हं॒सौ॑इ᳚व । प॒त॒थः॒ । अ॒ध्व॒गौ॑इ᳚व । सोम᳚म् । सु॒तम् । म॒हि॒षा॑इ᳚व । अव᳚ । ग॒च्छ॒थः॒ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ युवां हंसाविव यथा हंसौ अध्वगाविव यथाच पथिकाउदकं गच्छतस्तथा वेगेन सुतं पतथोगच्छथः । सिद्धमन्यत् ॥ ८ ॥
श्ये॒नावि᳚व पतथो ह॒व्यदा᳚तये॒ सोमं᳚ सु॒तं म᳚हि॒षेवाव᳚ गच्छथः ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ त्रिर्व॒र्तिर्या᳚तमश्विना ॥
श्ये॒नौ॑इ᳚व । प॒त॒थः॒ । ह॒व्य॑दा᳚तये । सोम᳚म् । सु॒तम् । म॒हि॒षा॑इ᳚व । अव᳚ । ग॒च्छ॒थः॒ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ य्रुवां श्येनाविव यथाश्येनौ गगनंगच्छतस्तथा वेगेन सुतं सोमं हव्यदातये यजमानार्थं पतथोगच्छथः । सिद्धमन्यत् ॥ ९ ॥
पिब᳚तं च तृप्णु॒तं चा च᳚ गच्छतं प्र॒जां च᳚ ध॒त्तं द्रवि᳚णं च धत्तम् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ॥
पिब᳚तम् । च॒ । तृ॒प्णु॒तम् । च॒ । आ । च॒ । ग॒च्छ॒त॒म् । प्र॒॑जाम् । च॒ । ध॒त्तम् । द्रवि᳚णम् । च॒ । ध॒त्त॒म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । ऊर्ज᳚म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ युवां सोमं पिबतञ्च तृप्णुतञ्च तृप्यतंच पानार्थं तुप्त्यर्थं चागच्छतं सोमंपीत्वा तृप्तौसंतौ युवां अस्मभ्यं प्रजाञ्च धत्तं धारयतं द्रविणं धनञ्च धत्तम् उषसासूर्येणच संगतौ नोस्मभ्यं ऊर्जं बलंच धत्तम् ॥ १० ॥
जय᳚तं च॒ प्र स्तु᳚तं च॒ प्र चा᳚वतं प्र॒जां च᳚ ध॒त्तं द्रवि᳚णं च धत्तम् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ॥
जय᳚तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । प्र । च॒ । अ॒व॒त॒म् । प्र॒॑जाम् । च॒ । ध॒त्तम् । द्रवि᳚णम् । च॒ । ध॒त्त॒म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । ऊर्ज᳚म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ युवां जयतं शत्रूंश्च जयतम् प्रस्तुतं स्तोतॄंश्च प्रचावतमस्मांश्च प्ररक्षतम् । अन्यत्सिद्धम् ॥ ११ ॥
ह॒तं च॒ शत्रू॒न्यत᳚तं च मि॒त्रिणः᳚ प्र॒जां च᳚ ध॒त्तं द्रवि᳚णं च धत्तम् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ॥
ह॒तम् । च॒ । शत्रू᳚न् । यत᳚तम् । च॒ । मि॒त्रिणः᳚ । प्र॒॑जाम् । च॒ । ध॒त्तम् । द्रवि᳚णम् । च॒ । ध॒त्त॒म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । ऊर्ज᳚म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ युवां शत्रूंश्च हतम् अपिच यततं मित्रिणोमैत्रीयुक्तांश्च गच्छतम् । सिद्धमन्यत् ॥ १२ ॥
मि॒त्रावरु᳚णवन्ता उ॒त धर्म᳚वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग᳚च्छथो॒ हव᳚म् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ॥
मि॒त्रावरु᳚ण॑वन्तौ । उ॒त । धर्म᳚॑वन्ता । म॒रुत्व᳚न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव᳚म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
उतापिच हे अश्विनौ युवां मित्रावरुणवन्तौ मित्रावरुणयुक्तौ धर्मवन्ता धर्मयुक्तौ उतापिच मरुत्वन्ता मरुद्धिर्युक्तौच जरितुः स्तोतुर्हवमाह्वानं गच्छथः आगच्छतम् । उषसासूर्येण चादित्यैश्च सजोषसा संगतौ यातं गच्छतम् ॥ १३ ॥
अङ्गि᳚रस्वन्ता उ॒त विष्णु᳚वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग᳚च्छथो॒ हव᳚म् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ॥
अङ्गि᳚रस्वन्तौ । उ॒त । विष्णु᳚॑वन्ता । म॒रुत्व᳚न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव᳚म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
उतापिच हे अश्विनौ युवां अङ्गिरोभिर्युक्तौ विष्णुवन्ता विष्णुनाच सहितौ मरुत्वन्ता मरुद्धिश्चसहितौ मे जरितुःस्तोतुराह्वानं गच्छतम् ॥ १४ ॥
ऋ॒भु॒मन्ता᳚ वृषणा॒ वाज᳚वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग᳚च्छथो॒ हव᳚म् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ॥
ऋ॒भु॒॑मन्ता᳚ । वृ॒ष॒णा॒ । वाज᳚॑वन्ता । म॒रुत्व᳚न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव᳚म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ ऋभुमंता ऋभुसहितौ वृषणा कामानां वर्षितारौ वाजवन्ता वाजयुक्तौ मरुत्वन्तौच स्तोतुराह्वानं गच्छतम् । ऋभुमन्ता वाजवन्तेति ज्येष्ठकनिष्ठाभ्यां व्यपदेशः । सिद्धमन्यत् ॥ १५ ॥
ब्रह्म᳚ जिन्वतमु॒त जि᳚न्वतं॒ धियो᳚ ह॒तं रक्षां᳚सि॒ सेध᳚त॒ममी᳚वाः ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ सुन्व॒तो अ᳚श्विना ॥
ब्रह्म᳚ । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । धियः᳚ । ह॒तम् । रक्षां᳚सि । सेध᳚तम् । अमी᳚वाः ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । सोम᳚म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥
हे अश्विनौ युवां ब्रह्म ब्राह्मणं जिन्वतं प्रीणयतम् । उतापिच धियः कर्माणि जिन्वतम् । हतंच रक्षांसि । अमीवाः राक्षसांश्च सेधतम् । उषसा सूर्येणच संगतौ सुन्वतोयजमानस्य सोमं पिबतमित्यर्थः ॥ १६ ॥
क्ष॒त्रं जि᳚न्वतमु॒त जि᳚न्वतं॒ नॄन्ह॒तं रक्षां᳚सि॒ सेध᳚त॒ममी᳚वाः ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ सुन्व॒तो अ᳚श्विना ॥
क्ष॒त्रम् । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । नॄन् । ह॒तम् । रक्षां᳚सि । सेध᳚तम् । अमी᳚वाः ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । सोम᳚म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥
हे अश्विनौ युवां क्षत्रं क्षत्रियं जिन्वतं उतापिच नॄन् योद्धॄन जिन्वतम् । सिद्धमन्यत् ॥ १७ ॥
धे॒नूर्जि᳚न्वतमु॒त जि᳚न्वतं॒ विशो᳚ ह॒तं रक्षां᳚सि॒ सेध᳚त॒ममी᳚वाः ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ सुन्व॒तो अ᳚श्विना ॥
धे॒नूः । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । विशः᳚ । ह॒तम् । रक्षां᳚सि । सेध᳚तम् । अमी᳚वाः ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । सोम᳚म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥
हे अश्विनौ धेनूर्जिन्वतमुतापिच विशोवैश्यांश्च जिन्वतम् । सिद्धमन्यत् ॥ १८ ॥
अत्रे᳚रिव शृणुतं पू॒र्व्यस्तु᳚तिं श्या॒वाश्व᳚स्य सुन्व॒तो म᳚दच्युता ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चाश्वि᳚ना ति॒रोअ᳚ह्न्यम् ॥
अत्रेः᳚॑इव । शृ॒णु॒त॒म् । पू॒र्व्य॑स्तु᳚तिम् । श्या॒व॑अ᳚श्वस्य । सु॒न्व॒तः । म॒द॒॑च्यु॒ता॒ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । अश्वि᳚ना । ति॒रः॑अ᳚ह्न्यम् ॥
हे अश्विनौ मदच्युता शत्रूणां मदस्य च्यावयितारौ युवां सुन्वतः सोमाभिषवंकुर्वतः श्यावाश्वस्य ममपितामहस्यात्रेरिव पूर्व्यस्तुतिं मुख्यांस्तुतिं श्रृणुतं उषसा सूर्येणच संगतौ तिरो अह्व्यं सोमं पिबतं तिरोहिते पूर्वस्मिन्नहन्यपरेद्युः प्रातरश्विनोर्यागइति ॥ १९ ॥
सर्गा{4}᳚ इव सृजतं सुष्टु॒तीरुप᳚ श्या॒वाश्व᳚स्य सुन्व॒तो म᳚दच्युता ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चाश्वि᳚ना ति॒रोअ᳚ह्न्यम् ॥
सर्गा᳚न्॑इव । सृ॒ज॒त॒म् । सु॒॑स्तु॒तीः । उप᳚ । श्या॒व॑अ᳚श्वस्य । सु॒न्व॒तः । म॒द॒॑च्यु॒ता॒ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । अश्वि᳚ना । ति॒रः॑अ᳚ह्न्यम् ॥
हे अश्विनौ श्यावाश्वस्य मम सुष्टुतीःशोभनाः स्तुतीः सर्गानिव । आभरणानि वा हवींषि वा सर्गाः । तान्यथा तथात्मन्युपसृजतम् । सिद्धमन्यत् ॥ २० ॥
र॒श्मी{4}रि᳚व यच्छतमध्व॒रा{4} उप᳚ श्या॒वाश्व᳚स्य सुन्व॒तो म᳚दच्युता ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चाश्वि᳚ना ति॒रोअ᳚ह्न्यम् ॥
र॒श्मीन्॑इ᳚व । य॒च्छ॒त॒म् । अ॒ध्व॒रान् । उप᳚ । श्या॒व॑अ᳚श्वस्य । सु॒न्व॒तः । म॒द॒॑च्यु॒ता॒ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । अश्वि᳚ना । ति॒रः॑अ᳚ह्न्यम् ॥
हे अश्विनौ श्यावाश्वस्य मम अध्वरान् रश्मीनिव यथाश्वप्रग्रहांस्तद्वदुपयच्छतम् उपगच्छतम् । सिद्धमन्यत् ॥ २१ ॥
अ॒र्वाग्रथं॒ नि य᳚च्छतं॒ पिब᳚तं सो॒म्यं मधु᳚ ।
आ या᳚तमश्वि॒ना ग᳚तमव॒स्युर्वा᳚म॒हं हु᳚वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ॥
अ॒र्वाक् । रथ᳚म् । नि । य॒च्छ॒त॒म् । पिब᳚तम् । सो॒म्यम् । मधु᳚ ।
आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना᳚नि । दा॒शुषे᳚ ॥
हे अश्विनौ वां स्वीयं रथमर्वागस्मदभिमुखं नियच्छतं सोम्यं सोममयं मध्वमृतच्च पिबतम् यज्ञमायातञ्च । सोमं प्रत्यागतमागच्छतञ्च । अवस्युः रक्ष- णकामोहं श्यावाश्वो वां हुवे ह्वयामि । दाशुषे हविंषि प्रयच्छते मह्यं रत्नानि धत्तं धारयतम् ॥ २२ ॥
न॒मो॒वा॒के प्रस्थि᳚ते अध्व॒रे न᳚रा वि॒वक्ष᳚णस्य पी॒तये᳚ ।
आ या᳚तमश्वि॒ना ग᳚तमव॒स्युर्वा᳚म॒हं हु᳚वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ॥
न॒मः॒॑वा॒के । प्र॑स्थि᳚ते । अ॒ध्व॒रे । न॒रा॒ । वि॒वक्ष᳚णस्य । पी॒तये᳚ ।
आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना᳚नि । दा॒शुषे᳚ ॥
हे अश्विना नरा नेतारौ युवां विवक्षणस्य हवनशीलस्य मम प्रस्थिते नमोवाके । नमस्काराय प्रोच्यते सनमोवाकस्तस्मिन्नध्वरे यज्ञे । तथाच ब्राह्म- णम्-उभयं सहवा एतद्यज्ञे सूक्तवाकश्च ममोवाकश्चेति । पीतये सोमपानायायातम् । सिद्धमन्यत् ॥ २३ ॥
स्वाहा᳚कृतस्य तृम्पतं सु॒तस्य᳚ देवा॒वन्ध᳚सः ।
आ या᳚तमश्वि॒ना ग᳚तमव॒स्युर्वा᳚म॒हं हु᳚वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ॥
स्वाहा᳚॑कृतस्य । तृ॒म्प॒त॒म् । सु॒तस्य᳚ । दे॒वौ॒ । अन्ध᳚सः ।
आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना᳚नि । दा॒शुषे᳚ ॥
हे अश्विनौ देवौ युवां सुतस्याभिषुतस्य स्वाहाकृतस्य हुतस्यान्धसः सोमस्य तृम्पतं तृप्यतम् । सिद्धमन्यत् ॥ २४ ॥
अवितासीति सप्तर्चं षष्ठं सूक्तं आत्रेयस्य श्यावाश्वस्यार्षम् । अत्रेयमनुक्रमणिका-अवितासिसप्तशाक्वरंमहापंक्त्यन्तमिति । षट्पञ्चशदक्षरा शक्वरी छन्दः श्यावाश्वेति सप्तमी महापङ्तिरिति लक्षणसद्धावात् दशरात्रे । पञ्चमेहनि मरुत्वतीये इदंसूक्तम् । सूत्रितच्च-अवितासीत्थाहीति ।