श्रवणम्

8.35.11
जय᳚तं च॒ प्र स्तु᳚तं च॒ प्र चा᳚वतं प्र॒जां च᳚ ध॒त्तं द्रवि᳚णं च धत्तम् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ॥
▶ पदपाठः (Word-by-word)
जय᳚तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । प्र । च॒ । अ॒व॒त॒म् । प्र॒॑जाम् । च॒ । ध॒त्तम् । द्रवि᳚णम् । च॒ । ध॒त्त॒म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । ऊर्ज᳚म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवां जयतं शत्रूंश्च जयतम् प्रस्तुतं स्तोतॄंश्च प्रचावतमस्मांश्च प्ररक्षतम् । अन्यत्सिद्धम् ॥ ११ ॥