गिरो᳚ जुषेथामध्व॒रं जु᳚षेथां॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव᳚ गच्छतम् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ॥
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ॥
पदपाठः (Word-by-word)
गिरः᳚ । जु॒षे॒था॒म् । अ॒ध्व॒रम् । जु॒षे॒था॒म् । विश्वा᳚ । इ॒ह । दे॒वौ॒ । सव᳚ना । अव᳚ । ग॒च्छ॒त॒म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ । इष᳚म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ । इष᳚म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे देवौ अश्विनौ अस्माकं गिरः स्तुतीः जुषेथां सेवेथाम् । तथा अध्वरं यज्ञच्च जुषेथाम् । इहयज्ञे विश्वा विश्वानि सवनानि अवगच्छतं प्राप्नुतम् ॥ ६ ॥