श्रवणम्

8.35.24
स्वाहा᳚कृतस्य तृम्पतं सु॒तस्य᳚ देवा॒वन्ध᳚सः ।
आ या᳚तमश्वि॒ना ग᳚तमव॒स्युर्वा᳚म॒हं हु᳚वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
स्वाहा᳚॑कृतस्य । तृ॒म्प॒त॒म् । सु॒तस्य᳚ । दे॒वौ॒ । अन्ध᳚सः ।
आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना᳚नि । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ देवौ युवां सुतस्याभिषुतस्य स्वाहाकृतस्य हुतस्यान्धसः सोमस्य तृम्पतं तृप्यतम् । सिद्धमन्यत् ॥ २४ ॥

अवितासीति सप्तर्चं षष्ठं सूक्तं आत्रेयस्य श्यावाश्वस्यार्षम् । अत्रेयमनुक्रमणिका-अवितासिसप्तशाक्वरंमहापंक्त्यन्तमिति । षट्पञ्चशदक्षरा शक्वरी छन्दः श्यावाश्वेति सप्तमी महापङ्तिरिति लक्षणसद्धावात् दशरात्रे । पञ्चमेहनि मरुत्वतीये इदंसूक्तम् । सूत्रितच्च-अवितासीत्थाहीति ।