ऋ॒भु॒मन्ता᳚ वृषणा॒ वाज᳚वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग᳚च्छथो॒ हव᳚म् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ॥
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ॥
पदपाठः (Word-by-word)
ऋ॒भु॒॑मन्ता᳚ । वृ॒ष॒णा॒ । वाज᳚॑वन्ता । म॒रुत्व᳚न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव᳚म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ ऋभुमंता ऋभुसहितौ वृषणा कामानां वर्षितारौ वाजवन्ता वाजयुक्तौ मरुत्वन्तौच स्तोतुराह्वानं गच्छतम् । ऋभुमन्ता वाजवन्तेति ज्येष्ठकनिष्ठाभ्यां व्यपदेशः । सिद्धमन्यत् ॥ १५ ॥