श्रवणम्

8.35.2
विश्वा᳚भिर्धी॒भिर्भुव᳚नेन वाजिना दि॒वा पृ᳚थि॒व्याद्रि᳚भिः सचा॒भुवा᳚ ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚भिः । धी॒भिः । भुव᳚नेन । वा॒जि॒ना॒ । दि॒वा । पृ॒थि॒व्या । अद्रि᳚॑भिः । स॒चा॒॑भुवा᳚ ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । सोम᳚म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिना बलिनावश्विनौ विश्वाभिः सर्वाभिर्धीभिः प्रज्ञाभिः भुवनेनाखिलेन भूतजातेनच दिवा द्युलोकेनच पृथिव्याचाद्रिभिश्च सचाभुवा सहभू- तौ उषसा सूर्येणच संगतौ युवां सोमं पिबतम् ॥ २ ॥