मि॒त्रावरु᳚णवन्ता उ॒त धर्म᳚वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग᳚च्छथो॒ हव᳚म् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ॥
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ॥
पदपाठः (Word-by-word)
मि॒त्रावरु᳚ण॑वन्तौ । उ॒त । धर्म᳚॑वन्ता । म॒रुत्व᳚न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव᳚म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
सायणभाष्यम् (Sayana Commentary)
उतापिच हे अश्विनौ युवां मित्रावरुणवन्तौ मित्रावरुणयुक्तौ धर्मवन्ता धर्मयुक्तौ उतापिच मरुत्वन्ता मरुद्धिर्युक्तौच जरितुः स्तोतुर्हवमाह्वानं गच्छथः आगच्छतम् । उषसासूर्येण चादित्यैश्च सजोषसा संगतौ यातं गच्छतम् ॥ १३ ॥