अष्टमं मण्डलम् - सूक्तम् 23

30 ऋचः

ऋषिः: विश्वमना वैयश्वः देवता: अग्निः छन्दः: उष्णिक्

सूक्तम् 8.23 - सम्पूर्णम्

1 / 30
ऋक्: 8.23.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (30)
8.23.1
ईळि᳚ष्वा॒ हि प्र᳚ती॒व्यं१॒᳚ यज᳚स्व जा॒तवे᳚दसम् ।
च॒रि॒ष्णुधू᳚म॒मगृ᳚भीतशोचिषम् ॥
▶ पदपाठः (Word-by-word)
ईळि᳚ष्व । हि । प्र॒ती॒व्य᳚म् । यज᳚स्व । जा॒त॑वे᳚दसम् ।
च॒रि॒ष्णु॑धू᳚मम् । अगृ᳚भीत॑शोचिषम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रतीव्यं शत्रुषु प्रतिगमनशीलमग्निं हिरवधारणे अग्निमेव ईळिष्व स्तुतिभिः स्तोत्रं कुरु । किंच चरिष्णुधूमं सर्वतश्चरणशीलधूमजालं अगृभीतशोचि- षं रक्षोभिरगृत्द्यमाणदीप्तिं जातवेदसं जातप्रज्ञं यद्वा जातानि भूतानि वेत्तीति जातवेदाः तमग्निं यजस्व हविर्भिः पूजय ॥ १ ॥

8.23.2
दा॒मानं᳚ विश्वचर्षणे॒॑ग्निं वि᳚श्वमनो गि॒रा ।
उ॒त स्तु᳚षे॒ विष्प᳚र्धसो॒ रथा᳚नाम् ॥
▶ पदपाठः (Word-by-word)
दा॒मान᳚म् । वि॒श्व॒॑च॒र्ष॒णे॒ । अ॒ग्निम् । वि॒श्व॒॑म॒नः॒ । गि॒रा ।
उ॒त । स्तु॒षे॒ । वि॑स्प᳚र्धसः । रथा᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे विश्वचर्षणे विश्वस्य सर्वस्यार्थस्य ज्ञानेन द्रष्टः विश्वमनः सर्वेषु स्थावरजंगमात्मकेष्वेकंमनोयस्य सः एतन्नामक हे ऋषे विस्पर्धसोविग- तमात्सर्यस्य यजमानस्य रथानां रथादीनां दामानं दातारमेवंविधमग्निं गिरा स्तुतिलक्षणया वाचा स्तुषे स्तोत्रं कुरु ॥ २ ॥

8.23.3
येषा᳚माबा॒ध ऋ॒ग्मिय᳚ इ॒षः पृ॒क्षश्च᳚ नि॒ग्रभे᳚ ।
उ॒प॒विदा॒ वह्नि᳚र्विन्दते॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
येषा᳚म् । आ॒॑बा॒धः । ऋ॒ग्मियः᳚ । इ॒षः । पृ॒क्षः । च॒ । नि॒॑ग्रभे᳚ ।
उ॒प॒॑विदा᳚ । वह्निः᳚ । वि॒न्द॒ते॒ । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आबाधः श्त्रूणामाभिमुख्येन बाधकः ऋग्मियऋग्भिरर्चनीयः अग्निर्येषामयजमानानां इषोन्नानि पृक्षः अन्नादिरसांश्च निग्रभे निगृह्णीते ग्रहेर्लटि छा- न्दसोविकरणस्यलुक् लोपस्तआत्मनेपदेष्वितितलोपः हृग्रहोर्भश्छंदसीतिभकारः । निगृत्द्यच वह्निर्हविषां वोढा सएवाग्निः उपविदा उपवेदनेन ए- ते हवींषि देवार्थं नप्रयच्छन्तीत्येतत् ज्ञानेन तेषामेव वसु धनं विंदते लभते ॥ ३ ॥

8.23.4
उद᳚स्य शो॒चिर᳚स्थाद्दीदि॒युषो॒ व्य१॒᳚जर᳚म् ।
तपु᳚र्जम्भस्य सु॒द्युतो᳚ गण॒श्रियः᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । दी॒दि॒युषः᳚ । वि । अ॒जर᳚म् ।
तपुः᳚॑जम्भस्य । सु॒॑द्युतः᳚ । ग॒ण॒॑श्रियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दीदियुषः दीदितिर्दीप्तिकर्मा संदीप्यमानस्य तपुर्जंभस्य तापयितृदंष्ट्र्स्य सुद्युतः शोभनदीप्तेर्गणश्रियःहविरादानार्थं यजमानगणं श्रयति तस्य अस्य- एतादृशस्याग्नेरजरं जरारहितं पुनःपुनर्मथ्यमानत्वान्नूतनं हविर्भिर्वर्धमानत्वादभिनवं वा शोचिस्तेजः व्युदस्थात् विशेषेण उद्गतमभूत् ॥ ४ ॥

8.23.5
उदु᳚ तिष्ठ स्वध्वर॒ स्तवा᳚नो दे॒व्या कृ॒पा ।
अ॒भि॒ख्या भा॒सा बृ᳚ह॒ता शु᳚शु॒क्वनि᳚ः ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । ति॒ष्ठ॒ । सु॒॑अ॒ध्व॒र॒ । स्तवा᳚नः । दे॒व्या । कृ॒पा ।
अ॒भि॒॑ख्या । भा॒सा । बृ॒ह॒ता । शु॒शु॒क्वनिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वध्वर शोभनयज्ञ हे अग्ने अभिख्या अभिमुखं गच्छत्याभितः प्रसिद्धयावा बृहता बृहत्या भासा दीध्या शुशुक्वनिःशुचदीप्तौ दीपनशीलस्त्वं स्तवानः स्तोतृभिः स्तूयमानः सन् देव्या द्योतमानया कृपा ज्वालया उत्तिष्ठ तमःपरिहारार्थमुद्गच्छ । उ प्रसिद्धौ ॥ ५ ॥

8.23.6
अग्ने᳚ या॒हि सु᳚श॒स्तिभि᳚र्ह॒व्या जुह्वा᳚न आनु॒षक् ।
यथा᳚ दू॒तो ब॒भूथ᳚ हव्य॒वाह᳚नः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । या॒हि । सु॒श॒स्ति॑भिः᳚ । ह॒व्या । जुह्वा᳚नः । आ॒नु॒षक् ।
यथा᳚ । दू॒तः । ब॒भूथ᳚ । ह॒व्य॒॑वाह᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने आनुषक् अनुषक्तं यथाभवति तथा हव्या हव्यानि हवनयोग्यान्यन्नानि जुह्वानः जुह्वन् देवेभ्यःप्रयच्छन् त्वं सुशस्तिभिः शोभनैः स्तोत्रैःसह याहि देवानां हविःप्रदानार्थं गच्छ । अस्य हविःप्रदातृत्वं कथमित्याशंक्याह-यथा त्वं हव्यवाहनः हविषां वोढा देवानां दूतोबभूथ भवसि तथा जुह्वानइत्यन्वयः ॥ ६ ॥

8.23.7
अ॒ग्निं वः᳚ पू॒र्व्यं हु᳚वे॒ होता᳚रं चर्षणी॒नाम् ।
तम॒या वा॒चा गृ᳚णे॒ तमु᳚ वः स्तुषे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । वः॒ । पू॒र्व्यम् । हु॒वे॒ । होता᳚रम् । च॒र्ष॒णी॒नाम् ।
तम् । अ॒या । वा॒चा । गृ॒णे॒ । तम् । ऊं॒ इति᳚ । वः॒ । स्तु॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चर्षणीनां मनुष्याणां होतारं होमनिष्पादकं पुर्व्यं पुरातनं वः यष्टृत्वेन युष्मत्संबंधिनमग्निं हुवे आह्वयामि । आहूयच तमग्निं अया अनया सूक्तरूप- या वाचा गिरा गृणे शंसामि । किञ्ज वोयुष्मदर्थं तमु तमेवाग्निं स्तुषे स्तौमि ॥ ७ ॥

8.23.8
य॒ज्ञेभि॒रद्भु᳚तक्रतुं॒ यं कृ॒पा सू॒दय᳚न्त॒ इत् ।
मि॒त्रं न जने॒ सुधि᳚तमृ॒ताव᳚नि ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञेभिः᳚ । अद्भु᳚त॑क्रतुम् । यम् । कृ॒पा । सू॒दय᳚न्ते । इत् ।
मि॒त्रम् । न । जने᳚ । सु॑धि᳚तम् । ऋ॒त॑व᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्भुतक्रतुं बहुविधप्रज्ञं यद्वा चित्रकर्माणं मित्रंन यजमानानां मित्रमिव स्थितं सुधितं हविर्भिःसंतर्पितं यमग्निं ऋतवनि यज्ञवति जने यजमाने कृपा स्वसामर्थ्येन यज्ञेभिर्यज्ञैः सूदयन्ते इत् सूदिः क्षरणकर्मा अध्वर्य्वादयः कामान् क्षारयन्त्येव यजमानस्य कामान्प्रापयन्तीत्यर्थः । तमग्निमुपासेवध्व- मित्युत्तरत्रसंबंधः ॥ ८ ॥

8.23.9 समानपद
ऋ॒तावा᳚नमृतायवो य॒ज्ञस्य॒ साध᳚नं गि॒रा ।
उपो᳚ एनं जुजुषु॒र्नम᳚सस्प॒दे ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑वा᳚नम् । ऋ॒त॒॑य॒वः॒ । य॒ज्ञस्य᳚ । साध᳚नम् । गि॒रा ।
उषः᳚ । ए॒न॒म् । जु॒जु॒षुः॒ । नम᳚सः । प॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतायवः यज्ञकामाः हे यजमानाः ऋतावानं यज्ञवन्तं यज्ञस्यसाधनं साधनभूतमेनमग्निं नमसोहविषः पदे स्थाने यज्ञांगेवा गिरा स्तुतिलक्षणया वाचा उपोजुजुषुः उपासेवधवम् । तिङांतिङोभवन्तीति मध्यमपुरुषस्य प्रथमपुरुषादेशः ॥ ९ ॥

8.23.10 समानपद
अच्छा᳚ नो॒ अङ्गि᳚रस्तमं य॒ज्ञासो᳚ यन्तु सं॒यतः᳚ ।
होता॒ यो अस्ति᳚ वि॒क्ष्वा य॒शस्त᳚मः ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । नः॒ । अङ्गि᳚रः॑तमम् । य॒ज्ञासः᳚ । य॒न्तु॒ । स॒म्॑यतः᳚ ।
होता᳚ । यः । अस्ति᳚ । वि॒क्षु । आ । य॒शः॑त᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

संयतः स्रुगादिभिः नियताः नोस्माकं यज्ञासोयज्ञाः अंगिरस्तमं अंगिरसां विशिष्टं अग्निमच्छाभिमुख्येन च यन्तु गच्छंतु । योग्निः विक्षु मनुष्येषु होता होमनिष्पादकःसन् आ सर्वतः यशस्तमः लुप्तमत्वर्थीयः यशस्वितमोस्ति भवति तमग्निं यन्त्वित्यन्वयः ॥ १० ॥

8.23.11
अग्ने॒ तव॒ त्ये अ᳚ज॒रेन्धा᳚नासो बृ॒हद्भाः ।
अश्वा᳚ इव॒ वृष᳚णस्तविषी॒यवः᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । तव᳚ । त्ये । अ॒ज॒र॒ । इन्धा᳚नासः । बृ॒हत् । भाः ।
अश्वाः᳚॑इव । वृष᳚णः । त॒वि॒षी॒॑यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अजर जरारहित हे अग्ने इन्धानासइन्धाना दीप्यमानाबृहत् बृहन्तोमहान्तः त्ये ते सर्वगतास्तव त्वदीयाभाः भासोरश्मयोवृषणः कामानांवर्षितारः सन्तः तविषीयवः बलमाचरन्तोभवन्ति । तत्रदृष्टान्तः-अश्वाइव यथा वृषणः रेतसःसेक्तारोश्वा बलमाचरन्तोभवन्ति तद्वत् ॥ ११ ॥

8.23.12
स त्वं न᳚ ऊर्जां पते र॒यिं रा᳚स्व सु॒वीर्य᳚म् ।
प्राव᳚ नस्तो॒के तन᳚ये स॒मत्स्वा ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । ऊ॒र्जा॒म् । प॒ते॒ । र॒यिम् । रा॒स्व॒ । सु॒॑वीर्य᳚म् ।
प्र । अ॒व॒ । नः॒ । तो॒के । तन᳚ये । स॒मत्॑सु᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्जामन्नानां पते स्वामिन् हे अग्ने सतथाविधस्त्वं नोस्मभ्यं सुवीर्यं शोभनवीर्योपेतं रयिं धनं रास्व देहि । नोस्माकं तोके पुत्रे तनये तनोति विस्ता- रयति पुत्रमिति तनयः पौत्रः तस्मिन्वर्तमानं धनं समत्सु संग्रामेषुच यत् रक्षितव्यं धनं तच्च प्राव प्रकर्षेण रक्ष । अनेन पुत्रपौत्रप्रार्थनं करोति ॥ १२ ॥

8.23.13
यद्वा उ᳚ वि॒श्पति᳚ः शि॒तः सुप्री᳚तो॒ मनु᳚षो वि॒शि ।
विश्वेद॒ग्निः प्रति॒ रक्षां᳚सि सेधति ॥
▶ पदपाठः (Word-by-word)
यत् । वै । ऊं॒ इति᳚ । वि॒श्पतिः᳚ । शि॒तः । सु॑प्री᳚तः । मनु᳚षः । वि॒शि ।
विश्वा᳚ । इत् । अ॒ग्निः । प्रति᳚ । रक्षां᳚सि । से॒ध॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्पतिः विशां पालयिता शितः हविर्भिस्तीक्ष्णीकृतः सोग्णिः सुप्रीतः सुष्ठु प्रीतःसन् मनुषोमनुष्यस्य विशि निवेशने गृहे यद्वै यदा खलु वर्तते तदा- नीमग्निः विश्वेत् विश्वान्येव तस्यबाधकानि रक्षांसि प्रतिषेधति हिनस्ति । षिधुगत्यां भौवादिकः उ प्रसिद्धौ ॥ १३ ॥

8.23.14
श्रु॒ष्ट्य᳚ग्ने॒ नव᳚स्य मे॒ स्तोम᳚स्य वीर विश्पते ।
नि मा॒यिन॒स्तपु᳚षा र॒क्षसो᳚ दह ॥
▶ पदपाठः (Word-by-word)
श्रु॒ष्टी । अ॒ग्ने॒ । नव᳚स्य । मे॒ । स्तोम᳚स्य । वी॒र॒ । वि॒श्प॒ते॒ ।
नि । मा॒यिनः᳚ । तपु᳚षा । र॒क्षसः᳚ । द॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वीर शत्रूणां विनाशयितः वीर्यवन् विश्पते विशां पालयितः हे अग्ने नवस्य इदानीं क्रियमाणत्वान्नूतनं मे मदीयं स्तोमस्य स्तोत्रशस्त्रादिकं श्रुष्टी श्रुत्वा मायिनोमायाविनोरक्षसः कर्मविघ्नकारिणोराक्षसान् तपुषा तापकेन तेजसा निदह नितरां भस्मीकुरु । श्रुष्टी स्नात्व्यादयश्चेति निपातितःवका- रलोपश्छान्दसः ॥ १४ ॥

8.23.15
न तस्य᳚ मा॒यया᳚ च॒न रि॒पुरी᳚शीत॒ मर्त्य᳚ः ।
यो अ॒ग्नये᳚ द॒दाश᳚ ह॒व्यदा᳚तिभिः ॥
▶ पदपाठः (Word-by-word)
न । तस्य᳚ । मा॒यया᳚ । च॒न । रि॒पुः । ई॒शी॒त॒ । मर्त्यः᳚ ।
यः । अ॒ग्नये᳚ । द॒दाश᳚ । ह॒व्यदा᳚ति॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्त्योमनुष्योरिपुः शत्रुः चनेति निपातसमुदायोप्यर्थे माययाचन माययापि तस्य जनस्य नेशीत ईश्वरोनभवति । योजनः हव्यदातिभिः हविषां दा- तृभिः ऋत्विग्भिरग्नये ददाश हवींषि प्रयच्छति । तस्य रिपर्नास्तीत्यर्थः ॥ १५ ॥

8.23.16
व्य᳚श्वस्त्वा वसु॒विद᳚मुक्ष॒ण्युर᳚प्रीणा॒दृषि᳚ः ।
म॒हो रा॒ये तमु᳚ त्वा॒ समि᳚धीमहि ॥
▶ पदपाठः (Word-by-word)
वि॑अ᳚श्वः । त्वा॒ । व॒सु॒॑विद᳚म् । उ॒क्ष॒ण्युः । अ॒प्री॒णा॒त् । ऋषिः᳚ ।
म॒हः । रा॒ये । तम् । ऊं॒ इति᳚ । त्वा॒ । सम् । इ॒धी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्षण्युः धनानांसेक्तारमात्मनइच्छन् यद्वा वृष्टिसेक्तारमिच्छन् व्यश्वऋषिः एतन्नामकोममपिता वसुविदं वसूनां धनानां लंभकं त्वा त्वामप्रीणात् धनादिप्राप्त्यर्थं हविर्भिःअतोषयत् । तथा वयमपि महोमहते राये धनाय तमु तथाविधमेव त्वा त्वां समिधीमहि सम्यगाज्यादिहविर्भिर्दीपयेम ॥ १६ ॥

8.23.17
उ॒शना᳚ का॒व्यस्त्वा॒ नि होता᳚रमसादयत् ।
आ॒य॒जिं त्वा॒ मन᳚वे जा॒तवे᳚दसम् ॥
▶ पदपाठः (Word-by-word)
उ॒शना᳚ । का॒व्यः । त्वा॒ । नि । होता᳚रम् । अ॒सा॒द॒य॒त् ।
आ॒॑य॒जिम् । त्वा॒ । मन᳚वे । जा॒त॑वे᳚दसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने काव्यः कविपुत्रउशना एतन्नामकऋषिः मनवे राज्ञे तस्य गृहइत्यर्थः आयजिं आभिमुख्येन यष्टारं जातवेदसं जातप्रज्ञं त्वा त्वां पुनस्त्वाशब्द- आदरार्थः त्वामेव होतारं होमनिष्पादकं न्यसादयत् नितरामुपावेशयत् ॥ १७ ॥

8.23.18
विश्वे॒ हि त्वा᳚ स॒जोष᳚सो दे॒वासो᳚ दू॒तमक्र᳚त ।
श्रु॒ष्टी दे᳚व प्रथ॒मो य॒ज्ञियो᳚ भुवः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । हि । त्वा॒ । स॒॑जोष᳚सः । दे॒वासः᳚ । दू॒तम् । अक्र᳚त ।
श्रु॒ष्टी । दे॒व॒ । प्र॒थ॒मः । य॒ज्ञियः᳚ । भु॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विश्वे सर्वे देवासोदेवाः सजोषसः संगताःसंतः अस्माकं हवींष्यानयतीति विचार्य हिरवधारणे त्वामेव दूतं हविषां वोढारं दूतमक्रताकार्षुः । ततः देव द्योतमान हे अग्ने प्रथमः देवानांमुख्यभूतस्त्वं श्रुष्टी श्रुष्टीति क्षिप्रनाम क्षिप्रं यज्ञियोदेवानां हविर्दातृत्वेन यज्ञार्होभुवोभूयाः ॥ १८ ॥

8.23.19
इ॒मं घा᳚ वी॒रो अ॒मृतं᳚ दू॒तं कृ᳚ण्वीत॒ मर्त्य᳚ः ।
पा॒व॒कं कृ॒ष्णव᳚र्तनिं॒ विहा᳚यसम् ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । घ॒ । वी॒रः । अ॒मृत᳚म् । दू॒तम् । कृ॒ण्वी॒त॒ । मर्त्यः᳚ ।
पा॒व॒कम् । कृ॒ष्ण॑व᳚र्तनिम् । वि॑हा᳚यसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया यजमानश्चाग्निं देवानां दूतमकार्षीदित्याह वीरःकर्मणिसमर्थःमर्त्योमनुष्योयजमानःअमृतं मरणधर्मरहितं पावकं पापानांशॊधकं कृष्णवर्तनिं वर्तनिर्मार्गं कृष्णमार्गं विहायसं विहायाइति महन्नाम गुणैस्तेजोधिकत्वेनवा महान्तमिमं घ इममेवाग्निं दूतं देवानां वोदृत्वेन द्तं कृण्वीत अकार्षीत् ॥ १९ ॥

8.23.20 समानपद
तं हु᳚वेम य॒तस्रु᳚चः सु॒भासं᳚ शु॒क्रशो᳚चिषम् ।
वि॒शाम॒ग्निम॒जरं᳚ प्र॒त्नमीड्य᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । हु॒वे॒म॒ । य॒त॑स्रु᳚चः । सु॒॑भास᳚म् । शु॒क्र॑शो᳚चिषम् ।
वि॒शाम् । अ॒ग्निम् । अ॒जर᳚म् । प्र॒त्नम् । ईड्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यतस्रुचः गृहीतस्रुचः यद्वा तत्तत्स्थानेषु नियमितस्रुचोवयं सुभासं शोभनदीप्तिं शुक्रशोचिषं दीपनशीलतेजस्कं विशां स्वामिनं यद्वा वि- शामीड्यमित्यन्वयः मनुष्याणां स्तोतव्यं अजरं जरारहितं प्रत्नं पुरातनं तं तथाविधमग्निं हुवेम स्तोत्रस्त्रादिभिराह्वयामः ॥ २० ॥

8.23.21 समानपद
यो अ᳚स्मै ह॒व्यदा᳚तिभि॒राहु᳚तिं॒ मर्तो॑वि᳚धत् ।
भूरि॒ पोषं॒ स ध᳚त्ते वी॒रव॒द्यशः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । अ॒स्मै॒ । ह॒व्यदा᳚ति॑भिः । आ॑हु᳚तिम् । मर्तः᳚ । अवि᳚धत् ।
भूरि᳚ । पोष᳚म् । सः । ध॒त्ते॒ । वी॒र॑व᳚त् । यशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योमर्तोमनष्यः हव्यदातिभिर्हविर्दातृभिऋत्विग्भिरस्मै अग्नये आहुतिमविधत् विदधाते समनुष्यः भूरि बहु पोषं धनादिभिः पोषणं वीरवत् पुत्रपौ- त्रादुत्यक्तं यशः कीर्तिच धत्ते धारयति तस्मै धनादीनि प्रयच्छतीत्यर्थः ॥ २१ ॥

8.23.22 समानपद
प्र॒थ॒मं जा॒तवे᳚दसम॒ग्निं य॒ज्ञेषु᳚ पू॒र्व्यम् ।
प्रति॒ स्रुगे᳚ति॒ नम᳚सा ह॒विष्म᳚ती ॥
▶ पदपाठः (Word-by-word)
प्र॒थ॒मम् । जा॒त॑वे᳚दसम् । अ॒ग्निम् । य॒ज्ञेषु᳚ । पू॒र्व्यम् ।
प्रति᳚ । स्रुक् । ए॒ति॒ । नम᳚सा । ह॒विष्म᳚ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमं देवानां प्रधानभूतं जातवेदसं जातप्रज्ञं पूर्व्यं पुरातनं एतादृशमग्निं यज्ञेषु अग्निष्टोमादियज्ञेषु हविष्मती सोमादिहविर्युक्तास्रुक् नमसा स्तोत्रेण नमस्कारेणवा सह प्रत्येति अग्निं प्रतिगच्छति ॥ २२ ॥

8.23.23
आभि᳚र्विधेमा॒ग्नये॒ ज्येष्ठा᳚भिर्व्यश्व॒वत् ।
मंहि᳚ष्ठाभिर्म॒तिभि᳚ः शु॒क्रशो᳚चिषे ॥
▶ पदपाठः (Word-by-word)
आभिः᳚ । वि॒धे॒म॒ । अ॒ग्नये᳚ । ज्येष्ठा᳚भिः । व्य॒श्व॒॑वत् ।
मंहि᳚ष्ठाभिः । म॒ति॑भिः᳚ । शु॒क्र॑शो᳚चिषे ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वमनोनामकावयं ज्येष्ठाभिः प्रशस्यतमाभिः मंहिष्ठाभिः पूज्यतमाभिः आभिः मतिभिः सूक्तरूपाभिः स्तुतिभिः सुक्रशोचिषे ज्वालातेजसेऽग्नये विधेम परिचरेम वयमिह व्यश्ववत् यथाव्यश्वोस्माकं पिताग्निं स्तुतिभिः पर्यचरत् तद्वद्वयमपि परिचरेम ॥ २३ ॥

8.23.24
नू॒नम᳚र्च॒ विहा᳚यसे॒ स्तोमे᳚भिः स्थूरयूप॒वत् ।
ऋषे᳚ वैयश्व॒ दम्या᳚या॒ग्नये᳚ ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । अ॒र्च॒ । वि॑हा᳚यसे । स्तोमे᳚भिः । स्थू॒र॒यू॒प॒॑वत् ।
ऋषे᳚ । वै॒य॒श्व॒ । दम्या᳚य । अ॒ग्नये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वैयश्व व्यश्वस्यपुत्र हे विश्वमनोनामकऋषे विहायसे महते दम्याय दमे गृहे अरणीभिर्मथ्यमानत्वेन भवाय यद्वा यजमानगृहाणां बाधपरिहारेण् हितायाग्रये नूनं संप्रति स्तोमेभिः त्रिवृत्पच्चदशादिलक्षणैः स्तोमैः अर्च स्तुहि । तत्रदृष्टान्तः-स्थूरयूपवत् यथा स्थूरयूपोनामर्षिरेनमग्निमानर्च तद्वद- र्चेत्यर्थः ॥ २४ ॥

8.23.25
अति᳚थिं॒ मानु᳚षाणां सू॒नुं वन॒स्पती᳚नाम् ।
विप्रा᳚ अ॒ग्निमव᳚से प्र॒त्नमी᳚ळते ॥
▶ पदपाठः (Word-by-word)
अति᳚थिम् । मानु᳚षाणाम् । सू॒नुम् । वन॒स्पती᳚नाम् ।
विप्राः᳚ । अ॒ग्निम् । अव᳚से । प्र॒त्नम् । ई॒ळ॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रामेधाविनोयजमानाः मानुषाणां मनुष्याणां अतिथिं अतिथिवत्पूज्यं वनस्पतीनां सूनुं वनस्पतिरूपाभिर्वारणीभिः जायमानत्वेन तेषां सूनुं प्रत्नं पुरातनमेवंविधमग्निं अवसे कर्मरक्षणाय ईळते स्तुतिभिः स्तुवन्ति ॥ २५ ॥

8.23.26
म॒हो विश्वा{4}᳚ अ॒भि ष॒तो॒३॒᳚॑भि ह॒व्यानि॒ मानु᳚षा ।
अग्ने॒ नि ष᳚त्सि॒ नम॒साधि᳚ ब॒र्हिषि᳚ ॥
▶ पदपाठः (Word-by-word)
म॒हः । विश्वा᳚न् । अ॒भि । स॒तः । अ॒भि । ह॒व्यानि᳚ । मानु᳚षा ।
अग्ने᳚ । नि । स॒त्सि॒ । नम᳚सा । अधि᳚ । ब॒र्हिषि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने महः कर्मकर्तृत्वेन महतः विश्वान् सर्वान् सतः स्तोत्रकरणार्थं वर्तमानान् स्तोतृनभि अभितः त्वं नमसा स्तुत्यतया बर्हिष्यधि निषत्सि निषी- द । तथा मानुषा मानुषाणां मनुष्यसंबंधीनि हव्यानि हवींष्यभि अभितः तानि स्वीकर्तुं निषीद ॥ २६ ॥

8.23.27
वंस्वा᳚ नो॒ वार्या᳚ पु॒रु वंस्व᳚ रा॒यः पु᳚रु॒स्पृहः᳚ ।
सु॒वीर्य᳚स्य प्र॒जाव᳚तो॒ यश᳚स्वतः ॥
▶ पदपाठः (Word-by-word)
वंस्व᳚ । नः॒ । वार्या᳚ । पु॒रु । वंस्व᳚ । रा॒यः । पु॒रु॒॑स्पृहः᳚ ।
सु॒॑वीर्य᳚स्य । प्र॒जा॑व᳚तः । यश᳚स्वतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वार्याणि वरणीयानि पुरु पुरूणि बहूनि गवादीनि नोस्मभ्यं वंस्व प्रयच्छ । तथा पुरुस्पृहःपुरुभिर्बहुभिःस्पृहणीयं रायोधनं किं विशिष्टं सुवी- र्यस्य शोभनवीर्योपेतं प्रजावतः पुत्रपौत्रादिसहितं यशस्वतः कीर्तिमच्च धनं नोस्मभ्यं वंस्व प्रयच्छ ॥ २७ ॥

8.23.28
त्वं व᳚रो सु॒षाम्णे॑ग्ने॒ जना᳚य चोदय ।
सदा᳚ वसो रा॒तिं य᳚विष्ठ॒ शश्व᳚ते ॥
▶ पदपाठः (Word-by-word)
त्वम् । व॒रो॒ इति᳚ । सु॒॑षाम्णे᳚ । अग्ने᳚ । जना᳚य । चो॒द॒य॒ ।
सदा᳚ । व॒सो॒ इति᳚ । रा॒तिम् । य॒वि॒ष्ठ॒ । शश्व᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरो सर्वैर्वरणीय वसो शत्रूणां वासयितः यविष्ठ पुनःपुनर्जायमानत्वेन युवतम हे अग्ने त्वं सुषाम्णे सुसाम्ने सुषामादित्वात् षत्वं त्वत्प्रसादात् शोभ- नसामवते शश्वते बहवे जनाय प्रादुर्भूताय स्तोतृणां सदा सर्वदा रातिं धनादिकं चोदय प्रेरय ॥ २८ ॥

8.23.29
त्वं हि सु᳚प्र॒तूरसि॒ त्वं नो॒ गोम᳚ती॒रिषः᳚ ।
म॒हो रा॒यः सा॒तिम᳚ग्ने॒ अपा᳚ वृधि ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । सु॒॑प्र॒तूः । असि᳚ । त्वम् । नः॒ । गो॑म᳚तीः । इषः᳚ ।
म॒हः । रा॒यः । सा॒तिम् । अ॒ग्ने॒ । अप᳚ । वृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं हिरवधारणे त्वमेव सुप्रतूः स्तोतृणां धनादिकं सुष्ठु प्रदातासि प्रयच्छसीत्यर्थः । अतएव गोमतीः पश्चादियुक्तानि इषोन्नानि महोमहतो- रायोधनस्य मध्ये सातिं देयं धनं च नः स्तोतृणामस्माकं अपावृधि अपावृणु प्रयच्छेत्यर्थः ॥ २९ ॥

8.23.30
अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु᳚णा वह ।
ऋ॒तावा᳚ना स॒म्राजा᳚ पू॒तद᳚क्षसा ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । त्वम् । य॒शाः । अ॒सि॒ । आ । मि॒त्रावरु᳚णा । व॒ह॒ ।
ऋ॒त॑वा᳚ना । स॒म्॑राजा᳚ । पू॒त॑द᳚क्षसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं यशाःलुप्तमत्वर्थीयःदेवानां मध्ये यशस्वी असि भवसि अतएव त्वं ऋतावाना ऋतावानौ सत्यवन्तौ यज्ञवन्तौवा सम्राजा सम्राजौ सम्य- ग्राजमानौ पूतदक्षसा पूतदक्षसौ दक्षइतिबलनाम शुद्धबलौ मित्रावरुणौ अस्मिन्कर्मण्यावह आह्वय । प्रायेण कर्मण्यग्नेर्मित्रावरुणसहितत्वमस्तीति सूचयति ॥ ३० ॥

सखायआशिषामहीति त्रिंशदृचं चतुर्थं सूक्तं अत्रेयमनुक्रमणिका-सखायस्तृचोन्त्यः सौषाम्णस्य वरोर्दानस्तुतिः अन्त्यानुष्टुबिति । व्यश्वपुत्रोवैयश्व- नामऋषिः औष्णिहं हेत्युक्तत्वादेतदादीनि त्रीणिसूक्तानि उष्णिक्छंदस्कानि अनुक्तत्वादिन्द्रोदेवता अन्त्यासु तिसृषु सुषामाख्यस्य राज्ञः पुत्रस्य वरुनाम्नोराज्ञो दानं स्तूयते अतस्तास्तद्देवताकाः । महाव्रते निष्केवल्येऔष्णिहतृचाशीतावेतत्सूक्तम् तथैव पच्चमारण्यके शौनकेनस्तूयते-सखायआ- शिषामहियएकइद्विदयतइति । दशमेहनि मरुत्वतीयशस्त्रे सखायइतितिस्रऋचः सूत्र्यतेच-सखायआशिषामहीति तिस्रउष्णिहइति ।