अष्टमं मण्डलम् - सूक्तम् 67

21 ऋचः

ऋषिः: मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनद्धाः देवता: आदित्याः छन्दः: गायत्री

सूक्तम् 8.67 - सम्पूर्णम्

1 / 21
ऋक्: 8.67.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (21)
8.67.1
त्यान्नु क्ष॒त्रिया{4}॒ अव᳚ आदि॒त्यान्या᳚चिषामहे ।
सु॒मृ॒ळी॒का{4} अ॒भिष्ट᳚ये ॥
▶ पदपाठः (Word-by-word)
त्यान् । नु । क्ष॒त्रिया᳚न् । अवः᳚ । आ॒दि॒त्यान् । या॒चि॒षा॒म॒हे॒ ।
सु॒॑मृ॒ळी॒कान् । अ॒भिष्ट᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यान् तानादित्यान् क्षत्रियान् जात्या क्षत्रियान् अवोरक्षणं याचिषामहे याचामहे । कीदृशान्सुमृळीकान् सुष्ठु सुखयितॄन् किमर्थं अभिष्टये अभिगम- नाय अभिमतायवा । मत्स्यपक्षे जालनिर्गमनं प्रार्थितम् । इतरपक्षेभिमतमिति विवेकः ॥ १ ॥

8.67.2
मि॒त्रो नो॒ अत्यं᳚ह॒तिं वरु᳚णः पर्षदर्य॒मा ।
आ॒दि॒त्यासो॒ यथा᳚ वि॒दुः ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । नः॒ । अति᳚ । अं॒ह॒तिम् । वरु᳚णः । प॒र्ष॒त् । अ॒र्य॒मा ।
आ॒दि॒त्यासः᳚ । यथा᳚ । वि॒दुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रवरुणार्यमादित्यानोस्मानंहतिं अतिपर्षत् अतिनयन्तु ते यथा विदुः येनप्रकारेण दुःसहं जानन्ति तथातिपर्षदिति । इतरपक्षेहतिं पापमतिपर्ष- दिति ॥ २ ॥

8.67.3
तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒᳚ वरू᳚थ॒मस्ति᳚ दा॒शुषे᳚ ।
आ॒दि॒त्याना᳚मरं॒कृते᳚ ॥
▶ पदपाठः (Word-by-word)
तेषा᳚म् । हि । चि॒त्रम् । उ॒क्थ्य᳚म् । वरू᳚थम् । अस्ति᳚ । दा॒शुषे᳚ ।
आ॒दि॒त्याना᳚म् । अ॒र॒म्॑कृते᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेषामादित्यानां हिखलु चित्रं चायनीयमुक्थ्यं स्तुत्यं वरूथं धनमस्ति दाशुषे हविर्दात्रे अरकृते अलंकर्त्रे पर्याप्तकारिणे यजमानाय दातव्यं धनम- स्तीति ॥ ३ ॥

8.67.4
महि᳚ वो मह॒तामवो॒ वरु᳚ण॒ मित्रार्य᳚मन् ।
अवां॒स्या वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
महि᳚ । वः॒ । म॒ह॒ताम् । अवः᳚ । वरु᳚ण । मित्र᳚ । अर्य᳚मन् ।
अवां᳚सि । आ । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वरुणादयो महतां वः अवोरक्षणं महि महत् हविर्दात्रे करणीयमस्ति अतोवांसि रक्षणान्यावृणीमहे ॥ ४ ॥

8.67.5
जी॒वान्नो᳚ अ॒भि धे᳚त॒नादि᳚त्यासः पु॒रा हथा᳚त् ।
कद्ध᳚ स्थ हवनश्रुतः ॥
▶ पदपाठः (Word-by-word)
जी॒वान् । नः॒ । अ॒भि । धे॒त॒न॒ । आदि᳚त्यासः । पु॒रा । हथा᳚त् ।
कत् । ह॒ । स्थ॒ । ह॒व॒न॒॑श्रु॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यासः आदित्याः नोस्मान् जीवान् इदानीं जीवतः सतो अभिधेतन अभिधावत अभिधावनं कुरुत पुरा हथात् हननात् मृतेः पूर्वम् । कद्ध क्वनु स्थ भवथ । हे हवनश्रुतः आह्वानश्रोतारः आह्वानं श्रुत्वा शीघ्रमागच्छतेति ॥ ५ ॥

8.67.6
यद्व᳚ः श्रा॒न्ताय᳚ सुन्व॒ते वरू᳚थ॒मस्ति॒ यच्छ॒र्दिः ।
तेना᳚ नो॒ अधि᳚ वोचत ॥
▶ पदपाठः (Word-by-word)
यत् । वः॒ । श्रा॒न्ताय᳚ । सु॒न्व॒ते । वरू᳚थम् । अस्ति᳚ । यत् । छ॒र्दिः ।
तेन᳚ । नः॒ । अधि᳚ । वो॒च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रान्ताय कर्मणः सुन्वतेभिषुण्वतेयजमानाय् दातव्यं यद्वरूथं वरणीयं धनं वोयुष्माकं अस्ति यच्च छर्दिः सुखवासयोग्यं गृहमस्ति तेन द्वयेनास्मान्प्री- णयित्वा नोस्मानधिवोचत अधिवचनं कुरुत ॥ ६ ॥

8.67.7
अस्ति᳚ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना᳚गसः ।
आदि᳚त्या॒ अद्भु᳚तैनसः ॥
▶ पदपाठः (Word-by-word)
अस्ति᳚ । दे॒वाः॒ । अं॒होः । उ॒रु । अस्ति᳚ । रत्न᳚म् । अना᳚गसः ।
आदि᳚त्याः । अद्भु᳚त॑एनसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः अहोः हन्तुः पापशीलस्य उर्वस्ति महत्पापमस्ति अनागसः अपापस्य रत्नं रमणीयं सुकृतं श्रेयोस्ति ततो हे आदित्या अद्भुतैनसः अभूतपा- पाः अतोस्मदभिमतं कुरुतेति भावः ॥ ७ ॥

8.67.8
मा न॒ः सेतु᳚ः सिषेद॒यं म॒हे वृ᳚णक्तु न॒स्परि᳚ ।
इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । सेतुः᳚ । सि॒से॒त् । अ॒यम् । म॒हे । वृ॒ण॒क्तु॒ । नः॒ । परि᳚ ।
इन्द्रः᳚ । इत् । हि । श्रु॒तः । व॒शी ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः नोस्मान् सेतुः बन्धको जालो मासिषेत् माबध्नातु । नोस्मान् महे महते कर्मणे परिवृणक्तु परिवर्जयतु जालात् । कः इन्द्रइत् इन्द्रएव श्रुतो विश्रुतः वशी सर्वस्य वशीकर्ता सपरिवृणक्तु ॥ ८ ॥

8.67.9
मा नो᳚ मृ॒चा रि᳚पू॒णां वृ᳚जि॒नाना᳚मविष्यवः ।
देवा᳚ अ॒भि प्र मृ᳚क्षत ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । मृ॒चा । रि॒पू॒णाम् । वृ॒जि॒नाना᳚म् । अ॒वि॒ष्य॒वः॒ ।
देवाः᳚ । अ॒भि । प्र । मृ॒क्ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अविष्यवो रक्षितुमिच्छन्तो देवाः नोस्मान् वृजिनानां हिंसकानां रिपूणां मृचा मृचिर्हिंसाकर्मा । यत् क्षुरेण मर्चयता सुपेशसेत्यादिषु तथा दृष्ट- त्वात् । हिंसकेन जालेन माभि प्रमृक्षत अभिमर्शन मुपरिजालस्य प्रेरणं माकुरुत । यद्वा मृचाजालेन प्राप्ताबाधा नोस्माकं माभवतु । हे देवाः यूयं च प्रिमार्जयत परिहरत ॥ ९ ॥ आधाने पवमानेष्टिषु उतत्वामदित इत्यनुवाक्या सूत्रितञ्च-उतत्वामदितेमहिमहीमूषुमातरमिति । आदित्येपशौ वपायाअनुवाक्येयमेव । सूत्रितच-उतत्वामदितेमह्यनेहोनउरुव्रजेइति ।

8.67.10
उ॒त त्वाम᳚दिते मह्य॒हं दे॒व्युप᳚ ब्रुवे ।
सु॒मृ॒ळी॒काम॒भिष्ट᳚ये ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्वाम् । अ॒दि॒ते॒ । म॒हि॒ । अ॒हम् । दे॒वि॒ । उप᳚ । ब्रु॒वे॒ ।
सु॒॑मृ॒ळी॒काम् । अ॒भिष्ट᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच हे महि महति अदिते देवमातः देवि त्वा त्वां अहं मत्स्यपक्षे मत्स्यप्रमुखोहमुपब्रुवे उपेत्यस्तौमि । कीदृशीं सुमृळीकां सुष्ठु सुखयित्रीं किमर्थमभिष्टयेभिमताय ॥ १० ॥

8.67.11
पर्षि᳚ दी॒ने ग᳚भी॒र आ{4} उग्र᳚पुत्रे॒ जिघां᳚सतः ।
माकि᳚स्तो॒कस्य᳚ नो रिषत् ॥
▶ पदपाठः (Word-by-word)
पर्षि᳚ । दी॒ने । ग॒भी॒रे । आ । उग्र᳚॑पुत्रे । जिघां᳚सतः ।
माकिः᳚ । तो॒कस्य᳚ । नः॒ । रि॒ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अदिते आपर्षि सर्वतः पालयसि दीने क्षीणे गभीरे उदके उदकनामैतत् गंभीरं गहनमिति तन्नामसुपाठात् उग्रपुत्रे उद्गूर्णाः पुत्राः यस्मिन् तत्तस्मिन् उदके जिघांसतो हिंसतः जालं तोकस्य नोस्माकं तनयस्य तनयं माकीरिषत् मैवहिंसां करोतु ॥ ११ ॥ आदित्यस्य पशावनेहोनइति पुरोडाशस्यानुवाक्या । सूत्रितंञ्च-अनेहोनउरुव्रजेदितिर्ह्यजनिष्टेति ।

8.67.12
अ॒ने॒हो न᳚ उरुव्रज॒ उरू᳚चि॒ वि प्रस᳚र्तवे ।
कृ॒धि तो॒काय᳚ जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ने॒हः । नः॒ । उ॒रु॒॑व्र॒जे॒ । उरू᳚चि । वि । प्र॑स᳚र्तवे ।
कृ॒धि । तो॒काय᳚ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनेहोऽपापान्नोस्मान् उरुव्रजे विस्तीर्णगमने दूरं इयमदितिर्भूरिरूपा गताभवति अतिविस्तृतत्वात् । अथवा उरुगमने धीरे हे उरूचि उरुत्वं विप्रसर्तवे अभिसरणाय कृधि कुरु । कस्मै नोकाय पुत्राय मत्स्याय जीवसे तस्य जीवनाय यथाजीवनेनापत्यान्रक्षितुं तथा उरु त्वंकुर्विति ॥ १२ ॥

8.67.13
ये मू॒र्धानः᳚ क्षिती॒नामद᳚ब्धास॒ः स्वय᳚शसः ।
व्र॒ता रक्ष᳚न्ते अ॒द्रुहः᳚ ॥
▶ पदपाठः (Word-by-word)
ये । मू॒र्धानः᳚ । क्षि॒ती॒नाम् । अद᳚ब्धासः । स्व॑य᳚शसः ।
व्र॒ता । रक्ष᳚न्ते । अ॒द्रुहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मूर्धानः सर्वेषा मूर्धस्थानीया उच्छ्रिताः क्षितीनां मनुष्याणां अदब्धासः अहिंसकाः स्वयशसः स्वायत्तकीर्तयः व्रता व्रतान्यस्मदीयानि कर्माणि रक्षंते पालयन्ते अद्रुहः अद्रोग्धारः सन्तः ॥ १३ ॥

8.67.14
ते न᳚ आ॒स्नो वृका᳚णा॒मादि᳚त्यासो मु॒मोच᳚त ।
स्ते॒नं ब॒द्धमि᳚वादिते ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । आ॒स्नः । वृका᳚णाम् । आदि᳚त्यासः । मु॒मोच᳚त ।
स्ते॒नम् । ब॒द्धम्॑इ᳚व । अ॒दि॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यासः आदित्यास्ते यूयं नोस्मान् वृकाणां हिंसकानां अदातॄणां वा आस्नः आस्यात्सकाशान्मुमोचत विमोचनं कुरुत स्तेनं बद्धमिव हे अदिते त्वंच मोचयास्मानिति ॥ १४ ॥

8.67.15
अपो॒ षु ण᳚ इ॒यं शरु॒रादि᳚त्या॒ अप᳚ दुर्म॒तिः ।
अ॒स्मदे॒त्वज᳚घ्नुषी ॥
▶ पदपाठः (Word-by-word)
अपो॒ इति᳚ । सु । नः॒ । इ॒यम् । शरुः᳚ । आदि᳚त्याः । अप᳚ । दुः॒॑म॒तिः ।
अ॒स्मत् । ए॒तु॒ । अज᳚घ्नुषी ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्या इयं शरारुर्हिंसिका प्रसितिः जालोइकप्रेरिता अजघ्नुषी अहिंसन्ती सती अस्मदस्मत्तः सु सुष्ठु अपोएतु अपगच्छत्वेव । तथा नोस्माकं दुर्मतिर्दुष्टामतिरप्यजघ्नुषी अस्मत्तोपगच्छतु ॥ १५ ॥

8.67.16
शश्व॒द्धि वः᳚ सुदानव॒ आदि᳚त्या ऊ॒तिभि᳚र्व॒यम् ।
पु॒रा नू॒नं बु᳚भु॒ज्महे᳚ ॥
▶ पदपाठः (Word-by-word)
शश्व᳚त् । हि । वः॒ । सु॒॑दा॒न॒वः॒ । आदि᳚त्याः । ऊ॒ति॑भिः᳚ । व॒यम् ।
पु॒रा । नू॒नम् । बु॒भु॒ज्महे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदानवः सुदानाः हे आदित्या वोयुष्माकं ऊतिभीरक्षाभिः वयं पुरा नूनमिदानीमपि शश्वत् सर्वदा बुभुज्महे यद्वा शश्वद्बहून् भोगान् बुभुज्महे ॥ १६ ॥

8.67.17
शश्व᳚न्तं॒ हि प्र᳚चेतसः प्रति॒यन्तं᳚ चि॒देन᳚सः ।
देवा᳚ः कृणु॒थ जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
शश्व᳚न्तम् । हि । प्र॒॑चे॒त॒सः॒ । प्र॒ति॒॑यन्त᳚म् । चि॒त् । एन᳚सः ।
देवाः᳚ । कृ॒णु॒थ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रचेतसः प्रकृष्टमाया हे देवाः शश्वन्तं बहुमपि प्रतियन्तं चित् प्रतिगच्छन्तमपि शत्रुं एनसः पापस्य कर्तारं अथवा एनसः पापकृतः व्यत्ययेन बहुवचनं पापकर्तारं जीवसेजीवनायास्माकं कृणुत कुरुत अस्मत्तो वियुक्तमिति शेषः ॥ १७ ॥

8.67.18
तत्सु नो॒ नव्यं॒ सन्य᳚स॒ आदि᳚त्या॒ यन्मुमो᳚चति ।
ब॒न्धाद्ब॒द्धमि᳚वादिते ॥
▶ पदपाठः (Word-by-word)
तत् । सु । नः॒ । नव्य᳚म् । सन्य᳚से । आदि᳚त्याः । यत् । मुमो᳚चति ।
ब॒न्धात् । ब॒द्धम्॑इ᳚व । अ॒दि॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तद्बन्धकं नोस्माकं सु सुष्ठु नव्यं स्तुत्यं सन्यसे संभजनाय भवतु अस्माकं मोचनेन स्तुत्यं भवत्वित्यर्थः । हे आदित्या अदितेः पुत्राः हे अदिते त्वदनुग्रहाद्यन्मुमोचति मुचत्यस्मान् बन्धाद्बद्धमिव बन्धनसाधनंपूर्वं यत्प्रतिबन्धकत्वादासीत् तदेव युष्मदनुग्रहादस्मान्मुञ्चतु यद्वा युष्माकं यद्रक्षणमस्मान्मुचति तत् सु सुष्ठु स्तुत्यं संभजनाय भवत्विति योज्यम् ॥ १८ ॥

8.67.19
नास्माक᳚मस्ति॒ तत्तर॒ आदि᳚त्यासो अति॒ष्कदे᳚ ।
यू॒यम॒स्मभ्यं᳚ मृळत ॥
▶ पदपाठः (Word-by-word)
न । अ॒स्माक᳚म् । अ॒स्ति॒ । तत् । तरः᳚ । आदि᳚त्यासः । अ॒ति॒॑स्कदे᳚ ।
यू॒यम् । अ॒स्मभ्य᳚म् । मृ॒ळ॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यासः आदित्याः युष्मत्कर्तृकस्तत्तरोवेगोस्माकं नास्ति योवेगो बन्धकाज्जालादतिष्कदे अस्माकमतिस्कन्दनाय प्रभवति । अतो यूयमस्मभ्यं मृळत तत्तादृशंतरः कुरुतेत्यर्थः ॥ १९ ॥

8.67.20
मा नो᳚ हे॒तिर्वि॒वस्व᳚त॒ आदि᳚त्याः कृ॒त्रिमा॒ शरु᳚ः ।
पु॒रा नु ज॒रसो᳚ वधीत् ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । हे॒तिः । वि॒वस्व᳚तः । आदि᳚त्याः । कृ॒त्रिमा᳚ । शरुः᳚ ।
पु॒रा । नु । ज॒रसः᳚ । व॒धी॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्या नोस्मान्विवस्वतो विवस्वत्पुत्रस्य यमस्य । पुत्रे पितृशब्दः । तस्य हेतिरायुधभूता कृत्रिमा क्रियया निष्पन्ना शरुर्हिंसिका प्रसितिः पुरा पूर्वं नु इदानीं सर्वदेत्यर्थः जरसः इदानीं जीर्णान् मावधीत् माहिंस्यात् ॥ २० ॥

8.67.21
वि षु द्वेषो॒ व्यं᳚ह॒तिमादि᳚त्यासो॒ वि संहि᳚तम् ।
विष्व॒ग्वि वृ᳚हता॒ रपः᳚ ॥
▶ पदपाठः (Word-by-word)
वि । सु । द्वेषः᳚ । वि । अं॒ह॒तिम् । आदि᳚त्यासः । वि । सम्॑हि᳚तम् ।
विष्व᳚क् । वि । वृ॒ह॒त॒ । रपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यासः आदित्या द्वेषोद्वेष्टृन् सु सुष्ठु विवृहत उन्मूलयत नाशयतेत्यर्थः । तथा अंहतिं पातकं पापं विवृहत् हन्तेरंहचेत्यतिप्रत्ययः । तथा संहितं जालं विवृहत् तथा रपः पापं सर्वं विष्वक् विषूचीनं विवृहत् । रपो रिप्रं इतिपापनामनी भवतइतियास्कः ॥ २१ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवोये वेदार्थप्रकाशे ऋक्संहिता- भाष्ये षष्ठाष्टके चतर्थोध्यायः ॥ ४ ॥