श्रवणम्

8.67.21
वि षु द्वेषो॒ व्यं᳚ह॒तिमादि᳚त्यासो॒ वि संहि᳚तम् ।
विष्व॒ग्वि वृ᳚हता॒ रपः᳚ ॥
▶ पदपाठः (Word-by-word)
वि । सु । द्वेषः᳚ । वि । अं॒ह॒तिम् । आदि᳚त्यासः । वि । सम्॑हि᳚तम् ।
विष्व᳚क् । वि । वृ॒ह॒त॒ । रपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यासः आदित्या द्वेषोद्वेष्टृन् सु सुष्ठु विवृहत उन्मूलयत नाशयतेत्यर्थः । तथा अंहतिं पातकं पापं विवृहत् हन्तेरंहचेत्यतिप्रत्ययः । तथा संहितं जालं विवृहत् तथा रपः पापं सर्वं विष्वक् विषूचीनं विवृहत् । रपो रिप्रं इतिपापनामनी भवतइतियास्कः ॥ २१ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवोये वेदार्थप्रकाशे ऋक्संहिता- भाष्ये षष्ठाष्टके चतर्थोध्यायः ॥ ४ ॥