अष्टमं मण्डलम् - सूक्तम् 103

14 ऋचः

ऋषिः: सोभरिः काण्वः देवता: अग्निः छन्दः: बृहती

सूक्तम् 8.103 - सम्पूर्णम्

1 / 14
ऋक्: 8.103.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
8.103.1
अद᳚र्शि गातु॒वित्त᳚मो॒ यस्मि᳚न्व्र॒तान्या᳚द॒धुः ।
उपो॒ षु जा॒तमार्य᳚स्य॒ वर्ध᳚नम॒ग्निं न᳚क्षन्त नो॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
अद᳚र्शि । गा॒तु॒वित्॑त᳚मः । यस्मि᳚न् । व्र॒तानि᳚ । आ॒॑द॒धुः ।
उपो॒ इति᳚ । सु । जा॒तम् । आर्य᳚स्य । वर्ध᳚नम् । अ॒ग्निम् । न॒क्ष॒न्त॒ । नः॒ । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्नग्नौ व्रतानि कर्माणि आदधुः यजमानाः आदधन् गातुवित्तमोतिशयेन मार्गाणां ज्ञाता सोग्निरदर्शि प्रादुरभूत् । किंच सुजातं सम्यक् प्रादुर्भूतं अस्यार्यस्य उत्तमवर्णस्य वर्धनं वर्धयितारमग्निं नोस्माकं गिरः स्तुतिरूपावाचः उपोनक्षन्त उपगच्छन्त्येव । नक्षगतावितिधातुः ॥ १ ॥

8.103.2
प्र दैवो᳚दासो अ॒ग्निर्दे॒वा{4} अच्छा॒ न म॒ज्मना᳚ ।
अनु᳚ मा॒तरं᳚ पृथि॒वीं वि वा᳚वृते त॒स्थौ नाक᳚स्य॒ सान᳚वि ॥
▶ पदपाठः (Word-by-word)
प्र । दैवः᳚॑दासः । अ॒ग्निः । दे॒वान् । अच्छ᳚ । न । म॒ज्मना᳚ ।
अनु᳚ । मा॒तर᳚म् । पृ॒थि॒वीम् । वि । व॒वृ॒ते॒ । त॒स्थौ । नाक᳚स्य । सान᳚वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैवोदासः दिवोदासेनाहूयमानोग्निः मातरम् । सर्वस्य लोकस्य धारकत्वात् पृथिवी माता । तां पृथिवीमच्छ प्रति देवान् तस्य दिवोदासस्य यज्ञे देवान् अनु प्रति हविर्वोढुं नप्रविववृते यस्मादेनमग्निं दिवोदासो मज्मना बलेनाजुहाव तस्मादयमग्निः नाकस्य स्वर्गस्य सानवि समुच्छ्रिते देशे स्वायतनएव तस्थावतिष्ठत् ॥ २ ॥

8.103.3
यस्मा॒द्रेज᳚न्त कृ॒ष्टय᳚श्च॒र्कृत्या᳚नि कृण्व॒तः ।
स॒ह॒स्र॒सां मे॒धसा᳚ताविव॒ त्मना॒ग्निं धी॒भिः स᳚पर्यत ॥
▶ पदपाठः (Word-by-word)
यस्मा᳚त् । रेज᳚न्त । कृ॒ष्टयः᳚ । च॒र्कृत्या᳚नि । कृ॒ण्व॒तः ।
स॒ह॒स्र॒॑साम् । मे॒धसा᳚तौ॑इव । त्मना᳚ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मात्कारणात् चर्कृत्यानि कर्तव्यानि कर्माणि कृण्वतः कुर्वाणान् मनुष्यान् कृष्टयः इतरेमनुष्या रेजन्त कंपन्ते तस्मादिदानीं हे जना यूयं सहस्रसां गवां धनानांच सहस्रस्य दातारमग्निं मेधसातौ यज्ञे धीभिः कर्तव्यैः कर्मभिः त्मना आत्मनैव सपर्यत परिचरत ॥ ३ ॥

8.103.4
प्र यं रा॒ये निनी᳚षसि॒ मर्तो॒ यस्ते᳚ वसो॒ दाश᳚त् ।
स वी॒रं ध᳚त्ते अग्न उक्थशं॒सिनं॒ त्मना᳚ सहस्रपो॒षिण᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । यम् । रा॒ये । निनी᳚षसि । मर्तः᳚ । यः । ते॒ । व॒सो॒ इति᳚ । दाश᳚त् ।
सः । वी॒रम् । ध॒त्ते॒ । अ॒ग्ने॒ । उ॒क्थ॒॑शं॒सिन᳚म् । त्मना᳚ । स॒ह॒स्र॒॑पो॒षिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो वासकाग्ने यं तव स्तोतारं राये धनार्थं प्रनिनीषसि प्रनेतुमिच्छसि । यश्चमर्तोमनुष्यस्ते तुभ्यं दाशत् हवींषि प्रयच्छति समनुष्यः उक्थशंसिनं उक्थानां शंसितारं त्मना आत्मनैव सहस्रपोषिणं वीरं पुत्रं धारयति ॥ ४ ॥

8.103.5
स दृ॒ळ्हे चि᳚द॒भि तृ᳚णत्ति॒ वाज॒मर्व᳚ता॒ स ध᳚त्ते॒ अक्षि᳚ति॒ श्रवः᳚ ।
त्वे दे᳚व॒त्रा सदा᳚ पुरूवसो॒ विश्वा᳚ वा॒मानि᳚ धीमहि ॥
▶ पदपाठः (Word-by-word)
सः । दृ॒ळ्हे । चि॒त् । अ॒भि । तृ॒ण॒त्ति॒ । वाज᳚म् । अर्व᳚ता । सः । ध॒त्ते॒ । अक्षि᳚ति । श्रवः᳚ ।
त्वे इति᳚ । दे॒व॒॑त्रा । सदा᳚ । पु॒रु॒व॒सो॒ इति᳚ पुरु॑वसो । विश्वा᳚ । वा॒मानि᳚ । धी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरूवसो बहुधनाग्ने यस्तुभ्यं हवींषि प्रयच्छति सयजमानो दृह्ळेचित् दृढेपि शत्रुपुरे स्थितं वाजमन्नं अर्वताश्वेन अभितृणत्ति हिनस्ति । यथा सयजमानः अक्षिति अक्षीणं श्रवोन्नं धत्ते धारयति । तथाचसति तुभ्यं हविषां प्रदातारो वयमपि देवत्रा देवे त्वयि स्थिता विश्वासर्वा सर्वाणि वामानि वननीयानि धनानि सदा सर्वदा धीमहि धारयामः ॥ ५ ॥

8.103.6
यो विश्वा॒ दय᳚ते॒ वसु॒ होता᳚ म॒न्द्रो जना᳚नाम् ।
मधो॒र्न पात्रा᳚ प्रथ॒मान्य᳚स्मै॒ प्र स्तोमा᳚ यन्त्य॒ग्नये᳚ ॥
▶ पदपाठः (Word-by-word)
यः । विश्वा᳚ । दय᳚ते । वसु᳚ । होता᳚ । म॒न्द्रः । जना᳚नाम् ।
मधोः᳚ । न । पात्रा᳚ । प्र॒थ॒मानि᳚ । अ॒स्मै॒ । प्र । स्तोमाः᳚ । य॒न्ति॒ । अ॒ग्नये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

होता देवानामाह्वाता मन्द्रो मोदमानोयोग्निः विश्वा सर्वाणि वसु वसूनि धनानि जनानां जनेभ्यो दयते प्रयच्छति तस्मा अस्मा अग्नये मधोर्न मदकरस्य सोमस्येव प्रथमानि मुख्यानि पात्रा पात्राणि स्तोमाः प्रयन्ति प्रगच्छन्ति ॥ ६ ॥

8.103.7
अश्वं॒ न गी॒र्भी र॒थ्यं᳚ सु॒दान᳚वो मर्मृ॒ज्यन्ते᳚ देव॒यवः᳚ ।
उ॒भे तो॒के तन᳚ये दस्म विश्पते॒ पर्षि॒ राधो᳚ म॒घोना᳚म् ॥
▶ पदपाठः (Word-by-word)
अश्व᳚म् । न । गीः॒॑भिः । र॒थ्य᳚म् । सु॒॑दान᳚वः । म॒र्मृ॒ज्यन्ते᳚ । दे॒व॒॑यवः᳚ ।
उ॒भे इति᳚ । तो॒के इति᳚ । तन᳚ये । द॒स्म॒ । वि॒श्प॒ते॒ । पर्षि᳚ । राधः᳚ । म॒घोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्म दर्शनीय विश्पते विशांपते अग्ने यं त्वां सुदानवः शोभनदानाः देवयवो देवानात्मनइच्छन्तो यजमानाः रथ्यं रथस्य वोढारं अश्वंन अश्वमिव गीर्भिः स्तुतिभिः मर्मृज्यन्ते परिचरन्ति । त्वमस्माकं यजमानानां तोके पुत्रे तनये पौत्रे चोभे उभयस्मिन् मघोनां धनवतां यो धनं पर्षि प्रयच्छ ॥ ७ ॥

8.103.8
प्र मंहि᳚ष्ठाय गायत ऋ॒ताव्ने᳚ बृह॒ते शु॒क्रशो᳚चिषे ।
उप᳚स्तुतासो अ॒ग्नये᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । मंहि᳚ष्ठाय । गा॒य॒त॒ । ऋ॒त॑व्ने᳚ । बृ॒ह॒ते । शु॒क्र॑शो᳚चिषे ।
उप᳚॑स्तुतासः । अ॒ग्नये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये यूयं उपस्तुतासाः उपस्तोतारो मंहिष्ठाय दातृतमाय ऋतात्ने यज्ञवते सत्यवते वा बृहते महते शक्रशोचिषे दीप्ततेजसे अग्नये प्रगायत स्तोत्रं पठत ॥ ८ ॥

8.103.9 समानपद
आ वं᳚सते म॒घवा᳚ वी॒रव॒द्यश॒ः समि᳚द्धो द्यु॒म्न्याहु᳚तः ।
कु॒विन्नो᳚ अस्य सुम॒तिर्नवी᳚य॒स्यच्छा॒ वाजे᳚भिरा॒गम᳚त् ॥
▶ पदपाठः (Word-by-word)
आ । वं॒स॒ते॒ । म॒घ॑वा᳚ । वी॒र॑व᳚त् । यशः᳚ । सम्॑इ᳚द्धः । द्यु॒म्नी । आ॑हु᳚तः ।
कु॒वित् । नः॒ । अ॒स्य॒ । सु॒॑म॒तिः । नवी᳚यसी । अच्छ᳚ । वाजे᳚भिः । आ॒॑गम᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मधवा धनवान् द्युम्नी अन्नवान् यशस्वीवा । तथाचयास्कः-द्युम्नंद्योततेर्यशोवान्नंवेति । समिद्धः संदीप्तः वीरवत् पराक्रमोपेतः आहुतः ऋत्वि- गादिभिराहूतोग्निः यशोयशस्करं अन्नमावंसते यजमानेभ्यः आप्रयच्छति । अस्याग्नेः नवीयसी नवतरासुमतिः अनुग्नहबुद्धिः नोस्मान् अच्छ प्रति वाजेभिः अन्नैः सह कुवित् बहुवारं सलिलं कुविदिति बहुनामसुपाठात् आगमत् आगच्छतु ॥ ९ ॥

8.103.10
प्रेष्ठ᳚मु प्रि॒याणां᳚ स्तु॒ह्या᳚सा॒वाति᳚थिम् ।
अ॒ग्निं रथा᳚नां॒ यम᳚म् ॥
▶ पदपाठः (Word-by-word)
प्रेष्ठ᳚म् । ऊं॒ इति᳚ । प्रि॒याणा᳚म् । स्तु॒हि । आ॒सा॒व॒ । अति᳚थिम् ।
अ॒ग्निम् । रथा᳚नाम् । यम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आसाव स्तोतः प्रियाणां प्रेष्ठं प्रियतमं अतिथिं अभ्यागतं स्थानां यमं यन्तारं अग्निमेव स्तुहि ॥ १० ॥

8.103.11 समानपद
उदि᳚ता॒ यो निदि᳚ता॒ वेदि᳚ता॒ वस्वा य॒ज्ञियो᳚ व॒वर्त᳚ति ।
दु॒ष्टरा॒ यस्य᳚ प्रव॒णे नोर्मयो᳚ धि॒या वाजं॒ सिषा᳚सतः ॥
▶ पदपाठः (Word-by-word)
उत्॑इ᳚ता । यः । नि॑दि᳚ता । वेदि᳚ता । वसु᳚ । आ । य॒ज्ञियः᳚ । व॒वर्त᳚ति ।
दु॒स्तराः᳚ । यस्य᳚ । प्र॒व॒णे । न । ऊ॒र्मयः᳚ । धि॒या । वाज᳚म् । सिसा᳚सतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेदिता वेत्ता यज्ञियोयज्ञार्होग्निः उदिता उदितानि उद्गतानि निदिता निन्दितानि श्रुतानिच वसु वसुनि धनानि आववर्तति आवर्तयति । धिया कर्मणा वाजं संग्रामं सिषासतः संभक्तुमिच्छतः यस्याग्नेर्ज्वालाः प्रवणेनोर्मयः प्रवणाभिमुखाः समुद्रस्यतरंगाइव दुष्टराः तर्तुमश- क्याः तमग्निं हे स्तोतः स्तुहीत्यर्थः ॥ ११ ॥

8.103.12
मा नो᳚ हृणीता॒मति᳚थि॒र्वसु᳚र॒ग्निः पु᳚रुप्रश॒स्त ए॒षः ।
यः सु॒होता᳚ स्वध्व॒रः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । ह॒णी॒ता॒म् । अति᳚थिः । वसुः᳚ । अ॒ग्निः । पु॒रु॒॑प्र॒श॒स्तः । ए॒षः ।
यः । सु॒॑होता᳚ । सु॒॑अ॒ध्व॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसुर्वासकः अतिथिरतिथिवत्प्रियः पुरुप्रशस्तः बहुभिः स्तुतः सुहोता सुष्ठु देवानामाह्वाता स्वध्वरः सुयज्ञश्च योग्निः सएषोग्निः नोस्मभ्यं माहृणीतां केनापि नरुध्यताम् । केनाप्यनवरुद्धः सन् अग्निः अस्मभ्यमभीष्टं प्रयच्छत्वित्यर्थः ॥ १२ ॥

8.103.13
मो ते रि᳚ष॒न्ये अच्छो᳚क्तिभिर्व॒सो॑ग्ने॒ केभि᳚श्चि॒देवै᳚ः ।
की॒रिश्चि॒द्धि त्वामीट्टे᳚ दू॒त्या᳚य रा॒तह᳚व्यः स्वध्व॒रः ॥
▶ पदपाठः (Word-by-word)
मो इति᳚ । ते । रि॒ष॒न् । ये । अच्छो᳚क्ति॑भिः । व॒सो॒ इति᳚ । अग्ने᳚ । केभिः᳚ । चि॒त् । एवैः᳚ ।
की॒रिः । चि॒त् । हि । त्वाम् । ईट्टे᳚ । दू॒त्या᳚य । रा॒त॑ह᳚व्यः । सु॒॑अ॒ध्व॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो वासकाग्ने त्वां ये मनुष्याः अच्छोक्तिभिः अभिष्टुतिभिः केभिः कैः सुखकरैः एवैश्चित् अभिगमनैरपि ते स्तोतारो मोरिषन् मैव हिंसन्ताम् । रातहव्यो दत्तहविष्कः स्वध्वरः शोभनयज्ञः कीरिश्चित् स्तोतापि दूत्याय हविर्वहनदिलक्षणाय दूतकर्मणे त्वामीद्देहि स्तौतिखलु ॥ १३ ॥

8.103.14
आग्ने᳚ याहि म॒रुत्स᳚खा रु॒द्रेभि॒ः सोम᳚पीतये ।
सोभ᳚र्या॒ उप᳚ सुष्टु॒तिं मा॒दय᳚स्व॒ स्व᳚र्णरे ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग्ने॒ । या॒हि॒ । म॒रुत्॑स᳚खा । रु॒द्रेभिः᳚ । सोम᳚॑पीतये ।
सोभ᳚र्याः॒ । उप᳚ । सु॒॑स्तु॒तिम् । मा॒दय᳚स्व । स्वः᳚॑नरे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने मरुत्सखा मरुतांप्रियस्त्वं स्वर्नरे अस्माकं यजनलक्षणे कर्मणि सोमपीतये सोमपानाय रुद्रेभीरुद्रैः मरुद्भिः सह आयाहि आगच्छ । सोभर्याः सोभरेर्मम सुष्टुतिं शोभनां स्तुतिं चोपागच्छ । मादयस्व स्तुतिं श्रुत्वा सोमं पीत्वा आत्मानं मादयच ॥ १४ ॥

अथ पावमान्यं नवमं मण्डलं तत्र सप्तानुवाकाः तत्र प्रथमेनुवाके चतुर्विंशतिसंख्याकानि सूक्तानि । तत्र स्वादिष्ठयेति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते-स्वादिष्ठयादश मधुच्छन्दाइति । वैश्वामित्रोमधुच्छन्दाऋषिः प्राग्वत्सप्रीयपरिभाषया गायत्रीछन्दः । नवमंमण्डलं पावमानंसौम्यमिति वचनात् पवमानगुणविशिष्टः सोमोदेवता । ग्रावस्तोत्रे अर्बुदसूक्तं प्रागुत्तमाया इदमादिकं सर्वं पावमानं विकल्पेना- वपनीयम् । सूत्रितंच-प्रैतेवदन्त्वित्यर्बुदं प्रागुत्तमाया आवऋंजसे प्रवोग्रावाणइति सूक्तयोरन्तरोपरिष्टात् पुरस्ताद्वा पावमानीरोप्ययथार्थमावा- पग्रहणादिति । उपाकर्मणि मंडलादिग्रहणे आद्या । सूत्रं पूर्वमेवोदाहृतम् ।