अष्टमं मण्डलम् - सूक्तम् 3

24 ऋचः

ऋषिः: मेध्यातिथिः काण्वः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.3 - सम्पूर्णम्

1 / 24
ऋक्: 8.3.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (24)
8.3.1
पिबा᳚ सु॒तस्य᳚ र॒सिनो॒ मत्स्वा᳚ न इन्द्र॒ गोम᳚तः ।
आ॒पिर्नो᳚ बोधि सध॒माद्यो᳚ वृ॒धे॒३॒᳚॑स्मा{4} अ᳚वन्तु ते॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
पिब᳚ । सु॒तस्य᳚ । र॒सिनः᳚ । मत्स्व᳚ । नः॒ । इ॒न्द्र॒ । गो॑म᳚तः ।
आ॒पिः । नः॒ । बो॒धि॒ । स॒ध॒॑माद्यः᳚ । वृ॒धे । अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र रसिनोरसवतः गोमतोगोविकारैः पयः प्रभृतिभिः श्रयणद्रव्यैः युक्तस्य नोस्मदीयस्य सुत्स्याभिषुतस्य क्रियाग्रहणंकर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थ्यर्थेषष्ठी ईदृशं सोमं पिब पीत्वा च मत्स्व तृप्तोभव । अपिच सधमाद्यः सहमादयितव्यः सहितैरस्माभिस्तर्प- यितव्यस्त्वं आपिरापयिता बन्धुः सन् नोस्माकं वृधे वर्धनाय बोधि बुध्यस्व । ते त्वदीयाधियः बुद्धयः अनुग्रहात्मिकाः अस्मान् स्तोतॄन् अवन्तु रक्षन्तु ॥ १ ॥

8.3.2
भू॒याम᳚ ते सुम॒तौ वा॒जिनो᳚ व॒यं मा नः᳚ स्तर॒भिमा᳚तये ।
अ॒स्माञ्चि॒त्राभि᳚रवताद॒भिष्टि᳚भि॒रा नः᳚ सु॒म्नेषु᳚ यामय ॥
▶ पदपाठः (Word-by-word)
भू॒याम᳚ । ते॒ । सु॒॑म॒तौ । वा॒जिनः᳚ । व॒यम् । मा । नः॒ । स्तः॒ । अ॒भि॑मा᳚तये ।
अ॒स्मान् । चि॒त्राभिः᳚ । अ॒व॒ता॒त् । अ॒भिष्टि᳚॑भिः । आ । नः॒ । सु॒म्नेषु᳚ । य॒म॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव सुमतौ शोभनायां मतौ अनुग्रहबुद्धौ वाजिनोहविष्मन्तोवयं भूयाम वर्तमानाभवेम अभिमातये अभिमन्यतइत्यभिमातिः शत्रुः तस्मै तदर्थं नोस्मान् मा स्तः माहिंसीः स्तृङ् हिंसायाम् माङिलुङि छान्दसश्च्लेर्लुक् । अपितु अभिष्टिभिः अभ्येषणीयाभिः प्रार्थनी- याभिश्चित्राभिश्चायनीयाभिः बहुविधाभिर्वा त्वदीयाभिरूतिभिः अस्मानवतात् अव रक्ष । तथा नोस्मान् सुम्नेषु सुखेषु आयामय आयतान् कुरु सर्वदा सुखिनएव कुरु ॥ २ ॥

8.3.3
इ॒मा उ᳚ त्वा पुरूवसो॒ गिरो᳚ वर्धन्तु॒ या मम᳚ ।
पा॒व॒कव᳚र्णा॒ः शुच᳚यो विप॒श्चितो॒॑भि स्तोमै᳚रनूषत ॥
▶ पदपाठः (Word-by-word)
इ॒माः । ऊं॒ इति᳚ । त्वा॒ । पु॒रु॒व॒सो॒ इति᳚ पुरु॑वसो । गिरः᳚ । व॒र्ध॒न्तु॒ । याः । मम᳚ ।
पा॒व॒क॑व᳚र्णाः । शुच᳚यः । वि॒पः॒॑चितः᳚ । अ॒भि । स्तोमैः᳚ । अ॒नू॒ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरूवसो बहुधनेन्द्र मम मदीया याइमागिरः शस्त्ररूपावाचः त्वा त्वां वर्धन्तु वर्धयन्तु तथा पावकवर्णाः अग्निसमानतेजस्काः अतएव शुचयः शुद्धाः विपश्चितोविद्वांसः उद्गातारश्च स्तोमैः स्तोत्रैर्बहिष्पवमानादिभिः अभ्यनूषत त्वामभिष्टुवन्ति । नू स्तुतौ कुटादिः ॥ ३ ॥

8.3.4
अ॒यं स॒हस्र॒मृषि᳚भि॒ः सह᳚स्कृतः समु॒द्र इ᳚व पप्रथे ।
स॒त्यः सो अ᳚स्य महि॒मा गृ᳚णे॒ शवो᳚ य॒ज्ञेषु᳚ विप्र॒राज्ये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । स॒हस्र᳚म् । ऋषि᳚॑भिः । सहः᳚॑कृतः । स॒मु॒द्रः॑इ᳚व । प॒प्र॒थे॒ ।
स॒त्यः । सः । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शवः᳚ । य॒ज्ञेषु᳚ । वि॒प्र॒॑राज्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः सहस्रं सहस्रसंख्याकैः ऋषिभिरतीन्द्रियार्थदर्शिभिः स्तोतृभिः सहस्कृतः सहसा बलेनयुक्तः कृतः स्तुत्याहि देवताया बलं वर्धते । सच एवंभूतःसन् समुद्रइव उदधिरिव पप्रथे प्रथितोविस्तीर्णोबभूव अस्यचेन्द्रस्य सत्यःअवितथः सप्रसिद्धोमहिमा महत्वं शवोबलंच यज्ञेषु यागेषु विप्रराज्ये राज्ञः कर्म राज्यं विप्राणां स्तोतॄणां राज्ये स्तुतशस्त्रसंघे गृणे स्तूयते ॥ ४ ॥ चातुर्विशिकेहनि निष्केवल्ये इन्द्रमिद्देवतातयइति रैवतसामप्रगाथः शंसनीयः पृष्ठ्येहनि निष्केवल्ये त्वयं प्रगाथः सूत्र्यतेहि-इन्द्रमि- द्देवतातयइतीतरेषां पृष्ठ्यएकैकमन्वहमिति ।

8.3.5
इन्द्र॒मिद्दे॒वता᳚तय॒ इन्द्रं᳚ प्रय॒त्य᳚ध्व॒रे ।
इन्द्रं᳚ समी॒के व॒निनो᳚ हवामह॒ इन्द्रं॒ धन᳚स्य सा॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । इत् । दे॒व॑ता᳚तये । इन्द्र᳚म् । प्र॒॑य॒ति । अ॒ध्व॒रे ।
इन्द्र᳚म् । स॒म्॑ई॒के । व॒निनः᳚ । ह॒वा॒म॒हे॒ । इन्द्र᳚म् । धन᳚स्य । सा॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवतातये देवैः स्तोतृभिः तायते विस्तार्यते इति देवतातिर्यज्ञः तदर्थं इन्द्रमित् देवेषु मध्ये इन्द्रमेवाह्वयामहे अध्वरे यज्ञे प्रयति प्रगच्छति उपक्रान्ते सति इन्द्रं हवामहे । तथा समीके सम्यग्गते संपूर्णे च यागे वनिनः संभजमानावयं इन्द्रमेवाह्वयामहे । यद्वा समीकमिति संग्रामनाम समीके संग्रामे इन्द्रमेवाह्वयामहे धनस्य सातये लाभाय इन्द्रमेवाह्वयामहे । अतः शीघ्रमिन्द्रआगच्छत्वित्यर्थः ॥ ५ ॥

8.3.6 समानपद
इन्द्रो᳚ म॒ह्ना रोद᳚सी पप्रथ॒च्छव॒ इन्द्र॒ः सूर्य᳚मरोचयत् ।
इन्द्रे᳚ ह॒ विश्वा॒ भुव᳚नानि येमिर॒ इन्द्रे᳚ सुवा॒नास॒ इन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । म॒ह्ना । रोद᳚सी॒ इति᳚ । प॒प्र॒थ॒त् । शवः᳚ । इन्द्रः᳚ । सूर्य᳚म् । अ॒रो॒च॒य॒त् ।
इन्द्रे᳚ । ह॒ । विश्वा᳚ । भुव᳚नानि । ये॒मि॒रे॒ । इन्द्रे᳚ । सु॒वा॒नासः᳚ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः शवः शवसः आत्मीयस्य बलस्य मह्ना महिम्ना महत्त्वेन रोदसी द्यावापृथिव्यौ पप्रथत् अप्रथयत् विस्तारितवान् तथा स्वर्भा- नुना वृतं सूर्यं अयमेवेन्द्रः अरोचयददीपयत् तस्यासुरस्य वधेन प्रकाशितवान् । अपिच इन्द्रेह अस्मिन्नेवेन्द्रे विश्वा विश्वानि व्याप्तानि भुवनानि भूतजातानि येमिरे उपरमन्ते इन्द्रेण नियम्यन्तइत्यर्थः । तथा सुवानासः सूयमानाः अभिषूयमाणाः इन्दवः सोमाश्च् अस्मिन्ने- वेन्द्रे नियम्यन्ते अन्तर्भवन्तीत्यर्थः ॥ ६ ॥ ज्योतिष्टोमोयदिरथन्तरपृष्ठः तदा निष्केवल्ये अभित्वापूर्वपीतयइतिप्रगाथोनुरूपः सूत्र्यतेहि-अभित्वापूर्वपीतयइति प्रगाथौ स्तोत्रियानुरूपाविति । महाव्रते निष्केवल्ये दक्षिणपक्षेप्ययं प्रगाथः सूत्रितञ्च-अभित्वापूर्वपीतयइतिरथन्तरस्यस्तोत्रियानुरूपौ प्रगाथाविति ।

8.3.7
अ॒भि त्वा᳚ पू॒र्वपी᳚तय॒ इन्द्र॒ स्तोमे᳚भिरा॒यवः᳚ ।
स॒मी॒ची॒नास᳚ ऋ॒भव॒ः सम᳚स्वरन्रु॒द्रा गृ᳚णन्त॒ पूर्व्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । पू॒र्व॑पी᳚तये । इन्द्र᳚ । स्तोमे᳚भिः । आ॒यवः᳚ ।
स॒म्॑ई॒ची॒नासः᳚ । ऋ॒भवः᳚ । सम् । अ॒स्व॒र॒न् । रु॒द्राः । गृ॒ण॒न्त॒ । पूर्व्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र आयवोमनुष्याः स्तोतारः स्तोमेभिः स्तोत्रैः त्वां अभिष्टुवन्ति किमर्थं पूर्वपीतये सर्वेभ्योदेवेभ्यः पूर्वं प्रथमतएव सोमस्य पानाय । सवनमुखेहि चमसगणैरिन्द्रस्यैव सोमोहूयते तथा समीचीनासः सङ्गताः ऋभवः प्रथमवाचकेन शब्देन त्रयोप्युपलक्ष्यन्ते ऋभुर्विभ्वा- वाजइत्येतेच समस्वरन् त्वामेव सम्यक् अस्तुवन् । स्वृशब्दोपतापयोः रुद्राः रुद्रपुत्राः मरुतश्च पूर्व्यं पुरातनं वृद्धं त्वामेवगृणन्त अभ्यस्तुवन् वृत्रवधसमये प्रहरभगवोजहिवीरयस्वेत्येवंरूपया वाचा त्वां स्तुतवन्तइत्यर्थः ॥ ७ ॥

8.3.8
अ॒स्येदिन्द्रो᳚ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे᳚ सु॒तस्य॒ विष्ण᳚वि ।
अ॒द्या तम᳚स्य महि॒मान᳚मा॒यवो॑नु᳚ ष्टुवन्ति पू॒र्वथा᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । इन्द्रः᳚ । व॒वृ॒धे॒ । वृष्ण्य᳚म् । शवः᳚ । मदे᳚ । सु॒तस्य᳚ । विष्ण᳚वि ।
अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान᳚म् । आ॒यवः᳚ । अनु᳚ । स्तु॒व॒न्ति॒ । पू॒र्व॑था᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येत् अस्यैव यजमानस्य वृष्णयं वृषत्वं वीर्यं शवोबलं च इन्द्रोवावृधे वर्धयति सुतस्याभिषुतस्य सोमस्य पनेन विष्णवि कृत्स्नदेहस्यव्यापके मदे हर्षे सति तस्यैव यजमानस्य बलं वर्धयतीत्यर्थः । अद्यास्मिन्काले अस्येन्द्रस्य तं उक्तगुणं महिमानं महत्त्वं आय- वोमनुष्याः अनुष्टुवन्ति आनुपूर्व्येण स्तुवन्ति । पूर्वथा पूर्वशब्दादिवार्थे प्रत्नपूर्वेत्यादिना थाल् प्रत्ययः यथा पूर्वस्मिन् काले अस्तुवन् एव- मिदानीमपि तेनैवक्रमेण स्तुवन्तीत्यर्थः ॥ ८ ॥ ज्योतिष्टोमे माध्यन्दिनसवने ब्रह्मशस्त्रे तत्त्वायामीति प्रगाथोनुरूपः सूत्रितंच-तत्त्वायामिसुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपाविति । चातुर्विंशिकेहनि माध्यन्दिनसवनेप्ययंप्रगाथस्तस्मैवानुरूपः सूत्रितंच-तत्त्वायामिसुवीर्यमभिप्रवःसुराधसमिति ।

8.3.9
तत्त्वा᳚ यामि सु॒वीर्यं॒ तद्ब्रह्म᳚ पू॒र्वचि᳚त्तये ।
येना॒ यति᳚भ्यो॒ भृग᳚वे॒ धने᳚ हि॒ते येन॒ प्रस्क᳚ण्व॒मावि᳚थ ॥
▶ पदपाठः (Word-by-word)
तत् । त्वा॒ । या॒मि॒ । सु॒॑वीर्य᳚म् । तत् । ब्रह्म᳚ । पू॒र्व॑चि᳚त्तये ।
येन᳚ । यति᳚॑भ्यः । भृग᳚वे । धने᳚ । हि॒ते । येन᳚ । प्रस्क᳚ण्वम् । आवि᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तत्सुवीर्यं शोभनवीर्यं त्वा त्वां यामि याचामि छान्दसोवर्णलोपः । तथा तद्ब्रह्मपरिवृढमन्नं पूर्वचित्तये पूर्वप्रज्ञानाय अन्येभ्यः पूर्वमेव लाभाय त्वां याचामि धने हिते अभीष्टे सति येन सुवीर्येण यतिभ्यः कर्मसूपरतेभ्यः अयष्टृभ्योजनेभ्यः सकाशाद्धनमाहृत्य भृगवे महर्षये प्रयच्छसि । यद्वा कर्मसु नियताअङ्गिरसोयतयः तेषामर्थं धनं प्रयच्छसि तादर्थ्येचतुर्थी येनच ब्रह्मणा प्रस्कण्वं कण्वप्रभवं कण्वस्य पुत्रमृषिं आविथ ररक्षिथ तदुभयं याचामीत्यन्वयः ॥ ९ ॥

8.3.10
येना᳚ समु॒द्रमसृ᳚जो म॒हीर॒पस्तदि᳚न्द्र॒ वृष्णि᳚ ते॒ शवः᳚ ।
स॒द्यः सो अ᳚स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर᳚नुचक्र॒दे ॥
▶ पदपाठः (Word-by-word)
येन᳚ । स॒मु॒द्रम् । असृ᳚जः । म॒हीः । अ॒पः । तत् । इ॒न्द्र॒ । वृष्णि᳚ । ते॒ । शवः᳚ ।
स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒म्॑नशे᳚ । यम् । क्षो॒णीः । अ॒नु॒॑च॒क्र॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र येनात्मीयेनबलेन समुद्रं अव्धिं प्रति महीर्महतीः अपउदकानिअसृजः व्यसृजः महान्समुद्रोयावद्भिर्जलैः पूर्यते तावन्ति जलानि पुरा त्वं सृष्टवानित्यर्थः । ते त्वदीयं तच्छवोबलं वृष्णि वर्षकं अभीष्टफलदमित्यर्थः अस्येन्द्रस्य महिमा न संनशे न सम्यग्व्यापनीयः परैरप्रधृष्यइत्यर्थः । नशेः कृत्यार्थेकेन्प्रत्ययः । यं महिमानं क्षोणीः क्षोणी पृथिवी अनुचक्रदे अनुगच्छति क्रदिरत्रगत्यर्थः यदधीनावर्त- तइत्यर्थः ॥ १० ॥

8.3.11
श॒ग्धी न᳚ इन्द्र॒ यत्त्वा᳚ र॒यिं यामि᳚ सु॒वीर्य᳚म् ।
श॒ग्धि वाजा᳚य प्रथ॒मं सिषा᳚सते श॒ग्धि स्तोमा᳚य पूर्व्य ॥
▶ पदपाठः (Word-by-word)
श॒ग्धि । नः॒ । इ॒न्द्र॒ । यत् । त्वा॒ । र॒यिम् । यामि᳚ । सु॒॑वीर्य᳚म् ।
श॒ग्धि । वाजा᳚य । प्र॒थ॒मम् । सिसा᳚सते । श॒ग्धि । स्तोमा᳚य । पू॒र्व्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सुवीर्यं शोभनवीर्योपतं बहुव्रीहौ वीरवीर्यौचेत्युत्तरपदाद्युदात्तत्वं यद्रयिं धनं त्वा त्वां यामि याचामि छान्दसोवर्णलोपः नोस्मभ्यं तद्द्धनं शग्धि देहि शकिरत्रदानार्थः तस्माल्लोटि हौ छान्दसोविकरणस्यलुक् । हुझल्भ्यइतिहेर्धित्वम् । तथा सिषासते संभक्तुमिच्छते सनतेः सनि सनीवन्तर्धेति विकल्पनादिडभावे जनसनखनामित्यात्वम् । वाजाय वाजइत्यन्ननाम तेनच तद्वान् लक्ष्यते हविष्मते यजमानाय प्रथमं सर्वेभ्यः पूर्वमेव शग्धि धनं प्रयच्छ । यद्वा वाजायेति द्वितीयार्थे चतुर्थी कर्मभिस्त्वां संभक्तुमिच्छते जनाय प्रथमं वाजाय वाजमन्नं शग्धि देहि पश्चात् स्तोमाय स्तोत्रे हे पूर्व्य पूर्वस्मिन्काले भव चिरन्तनेन्द्र शग्धि देहि स्तौतेः कर्तरि अर्तिस्तुस्वित्यादिना मन्प्रत्ययः ॥ ११ ॥

8.3.12
श॒ग्धी नो᳚ अ॒स्य यद्ध᳚ पौ॒रमावि᳚थ॒ धिय᳚ इन्द्र॒ सिषा᳚सतः ।
श॒ग्धि यथा॒ रुश᳚मं॒ श्याव᳚कं॒ कृप॒मिन्द्र॒ प्राव॒ः स्व᳚र्णरम् ॥
▶ पदपाठः (Word-by-word)
श॒ग्धि । नः॒ । अ॒स्य । यत् । ह॒ । पौ॒रम् । आवि᳚थ । धियः᳚ । इ॒न्द्र॒ । सिसा᳚सतः ।
श॒ग्धि । यथा᳚ । रुश᳚मम् । श्याव᳚कम् । कृप᳚म् । इन्द्र᳚ । प्र । आवः᳚ । स्वः᳚॑नरम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र धियः कर्माणि स्तोत्राणि वा सिषासतः संभक्तवतः नोस्माकं सम्बन्धिनोस्य यजमानस्य तद्धनं शग्धि प्रदेहि । यद्ध येन खलु धनेन पौरं पुरुर्नामराजा तस्य पुत्रं आविथ ररक्षिथ । अपिच हे इन्द्र रुशमं श्यावकं कृपंच एतन्नामकांस्त्रीन्त्राजर्षीन् यथा येन प्रकारेण प्रावः प्रारक्षः तथा स्वर्णरं सर्वस्य हविषोनेतारं प्रापयितारं यद्वा स्वः स्वर्गं प्रति नेतव्यं इमं यजमानं शग्धि शक्तं कुरु धनादिसंपत्त्या यागानुष्ठानाय यथाशक्तोभवति तथाकुर्वित्यर्थः । इन्द्रेत्यामन्त्रितस्य पादादित्वेनाष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ॥ १२ ॥ चातुर्विंशिकेहनि माध्यन्दिने सवने ब्रह्मशस्त्रे कन्नव्यइति कद्वत्प्रगाथः सूत्रितञ्च-कन्नव्योअतसीनांकदून्वस्याकृतमिति कद्वन्तःप्रगाथा- इति अहर्गणेषु द्वितीयादिष्वहःसु तस्मिन् शस्त्रे तस्यैवायं प्रगाथः सूत्र्यतेहि-आरंभणीयाः पर्यासान् कद्वतोहरहःशस्यानीति होत्रकाद्विती- यादिष्वेवेति ।

8.3.13
कन्नव्यो᳚ अत॒सीनां᳚ तु॒रो गृ᳚णीत॒ मर्त्य᳚ः ।
न॒ही न्व᳚स्य महि॒मान᳚मिन्द्रि॒यं स्व᳚र्गृ॒णन्त᳚ आन॒शुः ॥
▶ पदपाठः (Word-by-word)
कत् । नव्यः᳚ । अ॒त॒सीना᳚म् । तु॒रः । गृ॒णी॒त॒ । मर्त्यः᳚ ।
न॒हि । नु । अ॒स्य॒ । म॒हि॒मान᳚म् । इ॒न्द्रि॒यम् । स्वः᳚ । गृ॒णन्तः᳚ । आ॒न॒शुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अतसीनां अतीतानां सन्ततगामिनीनां स्तुतीनां तुरः प्रेरयिता मर्त्योमरणधर्मा नव्योभिनवः इदानींतनः कत् कोनाम स्तोता गृणीत इन्द्रं स्तुयात् अल्पप्रज्ञैरिदानींतनैरिन्द्रः स्तोतुं नशक्यतइत्यर्थः । गृशब्दे क्यादिकः प्वादीनांह्रस्वइतिह्रस्वत्वम् । नु पुरा पूर्वस्मिन्नपिकाले विद्यमानाः स्वः सर्वे गृणन्तः स्तोतारः यद्वा स्वः सुष्ठु अरणीयं प्राप्तव्यमिन्द्रं गृणन्तः स्तुवन्तोजनाः इन्द्रियं इन्द्रस्यलिङ्गं इन्द्रस्यै- वासाधारणं अस्येन्द्रस्य महिमानं महत्त्वं नत्द्यानशुः न खलु प्राप्नुवन् अश्नोतेर्लिटि व्यत्ययेनपरस्मैपदम् अतआदेरित्यभ्यासस्यात्वम् अश्नोतेश्चेतिनुट् हितेति निघात्तप्रतिषेधः ॥ १३ ॥

8.3.14
कदु᳚ स्तु॒वन्त᳚ ऋतयन्त दे॒वत॒ ऋषि॒ः को विप्र᳚ ओहते ।
क॒दा हवं᳚ मघवन्निन्द्र सुन्व॒तः कदु᳚ स्तुव॒त आ ग᳚मः ॥
▶ पदपाठः (Word-by-word)
कत् । ऊं॒ इति᳚ । स्तु॒वन्तः᳚ । ऋ॒त॒॑य॒न्त॒ । दे॒वता᳚ । ऋषिः᳚ । कः । विप्रः᳚ । ओ॒ह॒ते॒ ।
क॒दा । हव᳚म् । म॒घ॒॑व॒न् । इ॒न्द्र॒ । सु॒न्व॒तः । कत् । ऊं॒ इति᳚ । स्तु॒व॒तः । आ । ग॒मः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स्तुवन्तः स्तोत्रं कुर्वन्तः कदु के खलु जनाः देवता देवत्तलिति स्वार्थिकस्तल् प्रत्ययः व्यत्ययेन प्रथमा देवं त्वामुद्दिश्य ऋतयन्त ऋतं यज्ञमैच्छन् त्वदीययागेच्छापि दुर्लभा दूरेत्वद्यागकथा ऋषिर्द्रष्टा विप्रोमेधावी कः स्तोता ओहते वहति त्वां स्तुतीः प्रापयति न कश्चिदपि त्वां स्तोतुं शक्रोतीत्यर्थः । यतएवमतः कारणात् हे मघवन् धनवन्निन्द्र अनुग्रहीत्रात्वयैवागन्तव्यं सत्वं कदा कस्मिन्काले सुन्वतः सोमाभिषवं कुर्वतोयजमानस्य हवमाह्वानं आगमः आगच्छः । कदु कदाच कस्मिंश्चकाले स्तुवतः केवलं स्तोत्रं कुर्वतो यजमान- स्यहवमाह्वानं आगमः अभ्यगच्छः सुन्वतः स्तुवतइत्युभयत्र शतुरनुमइतिविभक्तेरुदात्तत्वम् गमेर्लुङि ऌदित्वात् च्लेरङादेशः ॥ १४ ॥ ज्योतिष्टोमे माध्यन्दिनसवने ब्रह्मशस्त्रे उदुत्यइतिप्रगाथोनुरूपानन्तरं शंसनीयः सूत्रितञ्च-उदुत्येमधुमत्तमा इन्द्रःपूर्भिदिति । चातु- र्विशिके माध्यन्दिने सवने तस्मिन्नेवशस्त्रे अयं प्रगाथोवैकल्पिकोनुरूपः सूत्रितञ्च-उदुत्येमधुमत्तमास्त्वमिन्द्रप्रतूर्तिष्विति ।

8.3.15
उदु॒ त्ये मधु᳚मत्तमा॒ गिर॒ः स्तोमा᳚स ईरते ।
स॒त्रा॒जितो᳚ धन॒सा अक्षि᳚तोतयो वाज॒यन्तो॒ रथा᳚ इव ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । त्ये । मधु᳚मत्॑तमाः । गिरः᳚ । स्तोमा᳚सः । ई॒र॒ते॒ ।
स॒त्रा॒॑जितः᳚ । ध॒न॒॑साः । अक्षि᳚त॑ऊतयः । वा॒ज॒॑यन्तः᳚ । रथाः᳚॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्ये ते प्रसिद्धाः मधुमत्तमा अतिशयेन मधुराः गिरः अप्रगीताः शस्त्ररूपावाचः स्तोमासः प्रगीतानि बहिष्पवमानादीनि स्तोत्राणि च उदीरते हे इंद्र त्वामुद्दिश्योद्गच्छन्ति ऊर्ध्वं प्रसरन्ति ईरगतौ आदादिकः । तत्रदृष्टान्तः-सत्राजितः सहैव शत्रून् जयन्तः अतएव धनसाः धनानि संभजन्तः वनषणसंभक्तौ जनसनखनक्रमगमोविट् विड्वनोरनुनासिकस्यादित्यात्वं अक्षितोतयः अक्षिताः क्षयरहिता ऊतयो रक्षा येषां ते तथोक्ताः क्षियोभावेनिष्ठा निष्ठायामण्यदर्थइति पर्युदासाद्दीर्घाभावः अतएव क्षियोदिर्घादिति निष्ठानत्वाभावश्च । वाजयन्तः वाजमन्नमिच्छन्तः क्यचि न छन्दस्यपुत्रस्येति इत्वदीर्घयोः प्रतिषेधः एवंगुणविशिष्टाः रथाइव ते यथा विविधमितस्तत- उत्तिष्ठन्ति त्रद्वदुदीरत इत्यर्थः ॥ १५ ॥

8.3.16
कण्वा᳚ इव॒ भृग᳚व॒ः सूर्या᳚ इव॒ विश्व॒मिद्धी॒तमा᳚नशुः ।
इन्द्रं॒ स्तोमे᳚भिर्म॒हय᳚न्त आ॒यवः᳚ प्रि॒यमे᳚धासो अस्वरन् ॥
▶ पदपाठः (Word-by-word)
कण्वाः᳚॑इव । भृग᳚वः । सूर्या᳚॑इव । विश्व᳚म् । इत् । धी॒तम् । आ॒न॒शुः॒ ।
इन्द्र᳚म् । स्तोमे᳚भिः । म॒हय᳚न्तः । आ॒यवः᳚ । प्रि॒य॑मे᳚धासः । अ॒स्व॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कण्वाइव कण्वगोत्रोत्पन्नाऋषयइव स्तुवन्तो भृगवो भृगुगोत्रोत्पन्नाऋषयः धीतमाध्यातं विश्वमित् व्याप्तं तमेवेन्द्रं आनशुः व्यापुः सूर्याइव यथा सूर्यरश्मयः सर्वं जगद्माप्नुवन्ति तद्वत् । अपिच प्रियमेधासः प्रियप्रज्ञाः एतत्संज्ञावा आयवोमनुष्याः तमेवेन्द्रं महयन्तः पूजयन्तः स्तोमेभिः स्तोत्रैरस्वरन् अस्तुवन् स्वृशब्दोपतापयोः भौवादिकः ॥ १६ ॥

8.3.17
यु॒क्ष्वा हि वृ᳚त्रहन्तम॒ हरी᳚ इन्द्र परा॒वतः᳚ ।
अ॒र्वा॒ची॒नो म᳚घव॒न्त्सोम᳚पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग᳚हि ॥
▶ पदपाठः (Word-by-word)
यु॒क्ष्व । हि । वृ॒त्र॒ह॒न्॑त॒म॒ । हरी॒ इति᳚ । इ॒न्द्र॒ । प॒रा॒॑वतः᳚ ।
अ॒र्वा॒ची॒नः । म॒घ॒॑व॒न् । सोम᳚॑पीतये । उ॒ग्रः । ऋ॒ष्वेभिः᳚ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्तम वृत्रंहतवान् वृत्रहा अतिशयेन हतवान् वृत्रहन्तमः यथा पुर्नर्नोत्तिष्ठति तथा हतवानित्यर्थः । आनोनुडिति तमपोनुट् । हे तादृशेन्द्रहरी त्वदीयावश्वौ युक्ष्व हिरवधारणे आत्मीये रथे योजयैव । हे मघवन् धनवन् उग्र उद्गूर्णस्त्वं सोमपीतये सोमपानार्थं दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् अर्वाचीनोस्मदभिमुखः ऋष्वेभिः ऋष्वैर्दर्शनीयैर्मरुद्भिः सार्धं परावतः दूरनामैतत् दूरेवर्त- मानात् द्युलोकात् आगहि आगच्छ । गमेः लोटः सेर्हिः छान्दसः शपोलुक् अनुदात्तोपदेशेत्यनुनासिकलोपः तस्यासिद्धवदत्राभादित्य- सिद्धत्वाद्धेर्लुगभावः ॥ १७ ॥

8.3.18
इ॒मे हि ते᳚ का॒रवो᳚ वाव॒शुर्धि॒या विप्रा᳚सो मे॒धसा᳚तये ।
स त्वं नो᳚ मघवन्निन्द्र गिर्वणो वे॒नो न शृ᳚णुधी॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
इ॒मे । हि । ते॒ । का॒रवः᳚ । वा॒व॒शुः । धि॒या । विप्रा᳚सः । मे॒ध॑सा᳚तये ।
सः । त्वम् । नः॒ । म॒घ॒॑व॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । वे॒नः । न । शृ॒णु॒धि॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कारवः कर्मणां कर्तारः विप्रसोमेधाविनः इमे इमे खलु यजमानाः धिया स्तुत्या हे इन्द्रते त्वां वावशुः पुनः पुनरस्तुवन् वाशृ शब्दे इत्यस्माद्यङ्लुङ्न्ताद्रूपमेतत् । यद्वा वावशुः पुनःपुनरकामयन्त वशकान्तौ अस्माद्यङ्लुङ्न्तात् लङि सिजभ्यस्तेतिझेर्जुस् बाहुलकोऽडभावः लिटि वा तुजादित्वादभ्यासदीर्घत्वं हिचेतिनिघातप्रतिषेधः । किमर्थम् मेधसातये मेधस्य यागस्य संभजनार्थं सनतेः क्तिनिजनसनखनामित्यात्वम् दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । हे मघवन् धनवन् गिर्वणोगीर्भिर्वननीय नोस्माकं हवं स्तोत्रं सपूर्वोक्तगुणस्त्वं शृणुधि श्रृणु बुध्यस्व वेनोन वेनतिः कान्तिकर्मा यथा कान्तः जाताभिलाषः पुरुषः कामयितव्यं एकाग्रेण श्रृणोति तद्वत् । श्रुशृणुपॄकृवृभ्यइति हेर्धित्वम् अन्येषामपीतिसांहितिकोदीर्घः ॥ १८ ॥

8.3.19
निरि᳚न्द्र बृह॒तीभ्यो᳚ वृ॒त्रं धनु᳚भ्यो अस्फुरः ।
निरर्बु᳚दस्य॒ मृग᳚यस्य मा॒यिनो॒ निः पर्व᳚तस्य॒ गा आ᳚जः ॥
▶ पदपाठः (Word-by-word)
निः । इ॒न्द्र॒ । बृ॒ह॒तीभ्यः᳚ । वृ॒त्रम् । धनु᳚॑भ्यः । अ॒स्फु॒रः॒ ।
निः । अर्बु᳚दस्य । मृग᳚यस्य । मा॒यिनः᳚ । निः । पर्व᳚तस्य । गाः । आ॒जः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वृत्रमावरकमसुरं बृहतीभ्यो महद्भो लिंगव्यत्ययः धनुभ्यो धनुर्भ्यः कोदंडेभ्यः छान्दसोरेफलोपः हेतो पञ्चमी महद्भिर्धनुर्भिर्हेतुभिः निरस्फुरः स्फुरतिर्वधकर्मा निरवधीः निःशेषेण हतवानसि । यद्वा वृत्रमावरकं मेघं धनुभ्यः धन्वन्ति गच्छन्तीति धनवआपः महतीभ्योद्भ्यः तादर्थ्येचतुर्थी ईदृशीनामपां लाभार्थं निरवधीः अपिच मायिनोमायाविनः अर्बुदस्य एतत्संज्ञकस्यासुरस्य मृगयस्य एतत्संज्ञकस्यच उभयत्र कर्मणि षष्ठी इमावप्यसुरौ निरस्फुरः निःशेषेणावधीः मायाशब्दस्य व्रीत्द्यादिषुपाठात् व्रीत्द्यादिभ्यश्चेति मत्वर्थीयइनिः यथा पर्वतस्य बलनाम्नासुरेण गवामदर्शनाय निहितस्य गिरेः संबन्धिनीर्गाबलेनापहृताः निराजः निरगमयः अजगतिक्षेपणयोः ॥ १९ ॥

8.3.20
निर॒ग्नयो᳚ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम᳚ इन्द्रि॒यो रसः᳚ ।
निर॒न्तरि᳚क्षादधमो म॒हामहिं᳚ कृ॒षे तदि᳚न्द्र॒ पौंस्य᳚म् ॥
▶ पदपाठः (Word-by-word)
निः । अ॒ग्नयः᳚ । रु॒रु॒चुः॒ । निः । ऊं॒ इति᳚ । सूर्यः᳚ । निः । सोमः᳚ । इ॒न्द्रि॒यः । रसः᳚ ।
निः । अ॒न्तरि᳚क्षात् । अ॒ध॒मः॒ । म॒हाम् । अहि᳚म् । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र महां महान्तं कृत्स्नस्य जगतो व्यापकं अहिं आहननशीलं वृत्रं यदा त्वमन्तरिक्षादाकाशात् निरधमोनिरगमयः धमतिर्गतिकर्मा तत्तदानीं पौंस्यं वृत्रहननहेतुभूतं बलं कृषे कुरुषे पुरस्कुरुषे करोतेश्छान्दसोविकरणस्य लुक् । अग्नयश्च विस्थानगताः नीरुरुचुः निःशेषेण दिदीपिरे सूर्यः प्रेरकआदित्योपि निःशेषेण दिदीपे इन्द्रियः इन्द्रेण सेव्योरसः रसात्मकः अमृतमयः सोमश्च निःशेषेण दिदीपे अग्न्यादयः सर्वे पूर्वं वृत्रेणावृतत्वान्निःप्रभाः सन्तः इदानीं तस्मिन्नावरके हते सम्यक् प्राकाशिषतेत्यर्थः ॥ २० ॥

8.3.21
यं मे॒ दुरिन्द्रो᳚ म॒रुत॒ः पाक᳚स्थामा॒ कौर᳚याणः ।
विश्वे᳚षां॒ त्मना॒ शोभि᳚ष्ठ॒मुपे᳚व दि॒वि धाव᳚मानम् ॥
▶ पदपाठः (Word-by-word)
यम् । मे॒ । दुः । इन्द्रः᳚ । म॒रुतः᳚ । पाक᳚॑स्थामा । कौर᳚याणः ।
विश्वे᳚षाम् । त्मना᳚ । शोभि᳚ष्ठम् । उप᳚॑इव । दि॒वि । धाव᳚मानम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमादिकेन चतुरृचेन कुरुयाणपुत्रात् पाकस्थामनाम्नोराज्ञो दानं लब्ध्वा मेध्यातिथिस्तदीयं दानं स्तौति । यं यादृशं धनसंघं मे मह्यं इन्द्रो मरुतश्च दुः दत्तवन्तः तादृशमेव धनसमूहंकौरयाणः शत्रून् प्रति युद्धाभिमुख्येन कृतं यानं हस्त्यश्वादिकं येन असौ कुरयाणः तस्य पुत्रः कौरयाणः पाकस्थामा तिष्ठत्यनेनेति स्थाम बलं परिपक्वबलः एतत्संज्ञो राजा मत्द्यं प्रादात् ददातेर्लुङि गातिस्थेति सिचोलुक् अडभावश्छान्दसः कीदृशं धनसंघं विश्वेषां सर्वेषां सर्वेषां धनानां मध्ये त्मना आत्मना स्वतएव शोभिष्ठं अतिशयेन शोभावन्तम् मन्त्रेष्वाङ्यादेरित्यात्मनआकारलोपः शोभावच्छब्दादातिशायनिकइष्ठन् विन्मतोर्लुक् यस्येतिलोपः अतिशयेन शोभावत्वे दृष्टान्तः- दिव्याकाशे उपेव धावमानं प्रभाभिरुपेतं शीघ्रगामिनं सूर्यमिव शोभावत्तममित्यर्थः ॥ २१ ॥

8.3.22
रोहि᳚तं मे॒ पाक᳚स्थामा सु॒धुरं᳚ कक्ष्य॒प्राम् ।
अदा᳚द्रा॒यो वि॒बोध᳚नम् ॥
▶ पदपाठः (Word-by-word)
रोहि᳚तम् । मे॒ । पाक᳚॑स्थामा । सु॒॑धुर᳚म् । क॒क्ष्य॒॑प्राम् ।
अदा᳚त् । रा॒यः । वि॒॑बोध᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पाकस्थामा राजा रोहितं लोहितवर्णं वृषभमश्वं वा मे मत्द्यं अदात् दत्तवान् कीदृशं सुधुरं शोभनधुरं शोभनवहनप्रदेशं ऋक्पूरब्धू- रित्यकारः समासन्तः क्रत्वादयश्चेति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । कक्ष्यप्रां कक्ष्या कक्षयोर्बाहुमूलयोर्बध्यमाना रज्जुः तां प्रातारं पूरयितारं पीवरमित्यर्थः । प्रापूरणे रायोधनस्य विबोधनं विशेषेण बोधकं बहुधनप्राप्तिहेतुमित्यर्थः । ऊडिदमित्यादिना रायोविभक्ति- रुदात्ता ॥ २२ ॥

8.3.23
यस्मा᳚ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह᳚न्ति॒ वह्न᳚यः ।
अस्तं॒ वयो॒ न तुग्र्य᳚म् ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । अ॒न्ये । दश᳚ । प्रति᳚ । धुर᳚म् । वह᳚न्ति । वह्न᳚यः ।
अस्त᳚म् । वयः᳚ । न । तुग्र्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोक्तएवाश्वो विशेष्यते यस्मै षष्ठ्यर्थे चतुर्थी यस्याश्वस्य वृषभस्य वा धुरं वोढव्यं युगधुरं अन्ये प्रकृतादस्मात् विलक्षणादशसङ्- ख्याकाः वह्नयोवोढारोश्वाः बलीवर्दावा प्रतिनिधयः सन्तः मां वोढुं वहन्ति । बिभ्रति बहूनामेकत्र वहने दृष्टानतः –अस्तं अस्यते क्षिप्यते तस्मिन् पदार्थजातमित्यस्तं गृहं प्रति वयोन गन्तारोश्वाः यथा तुग्र्यं तुग्रपुत्रं भुज्युं समुद्रतीरादवहन् तद्वत् तादृशमश्वं मह्यं प्रादादिति पूर्वस्यामृच्यन्वयः । भुज्योर्वहनंच नासत्याभुज्युमूहथुरित्यादाववगन्तव्यम् । यद्वा यस्माइति कर्मणि चतुर्थी यं रथं अन्ये दशसंख्याकावह्नयो वोढारोश्वाः धुरं वहनप्रदेशं प्रतिगताः सन्तो वहन्ति तादृशं रथमपि मह्यं दत्तवानित्यर्थः ॥ २३ ॥

8.3.24
आ॒त्मा पि॒तुस्त॒नूर्वास᳚ ओजो॒दा अ॒भ्यञ्ज᳚नम् ।
तु॒रीय॒मिद्रोहि᳚तस्य॒ पाक᳚स्थामानं भो॒जं दा॒तार᳚मब्रवम् ॥
▶ पदपाठः (Word-by-word)
आ॒त्मा । पि॒तुः । त॒नूः । वासः᳚ । ओ॒जः॒॑दाः । अ॒भि॒॑अञ्ज᳚नम् ।
तु॒रीय᳚म् । इत् । रोहि᳚तस्य । पाक᳚॑स्थामानम् । भो॒जम् । दा॒तार᳚म् । अ॒ब्र॒व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं पाकस्थामा आत्मा स्वयं पितुः जनकस्य तनूः तनयः पिता यथासन्मार्गवर्तितया प्रशस्तः एवमयमपीत्यर्थः । तथा वासः वासयिता निवासयिता वासयतेरौणादिकः असुन् अभ्यञ्जनं अभिव्यक्तं यथा भवति तथा ओजोदाः ओजसोबलस्य दाता धारयितावा यद्वा आत्मा सततगामी पितुरित्यन्ननाम प्राप्तमन्नं येन दत्तं तनूर्विस्तृतं वासोवस्त्रम् अभ्यंजनं अभ्यंजनसाधनं घृततैलादिकं च येन दत्तम् यश्च ओजोदाः बलस्य दाता तं पाकस्थामानं तुरीयं स्वकीयप्रपितामहापेक्षया चतुर्थम् । यद्वा तुरीयं शत्रूणां तूर्वकं हिंसितारं भोजं शत्रूणां भोजयितारं रोहितस्य लोहितवर्णस्य पूर्वोक्ताश्वस्य दातारम् एवंगुणकं पाकस्थामानं अब्रवं उक्तेन प्रकारेणास्तौषम् इदिति पूरकः ॥ २४ ॥

यदिन्द्रेति एकविंशर्चं चतुर्थं सूक्तं काण्वगोत्रस्य देवातिथेरार्षं वृक्षाश्चिन्मइत्येषा पुरउष्णिक् शिष्टासु अयुजोबृहत्यः युजः सतोबृहत्यः स्थूरंराधइत्यादिभिस्तिसृभिः कुरुङ्गदानस्य स्तूयमानत्वात् तास्तद्देवताकाः तत्पूर्वाः पञ्चदश्याद्याश्चतस्रः पूषदेवताका इन्द्रदेवताकावा शिष्टाऎन्द्भ्यःतथाचानुक्रान्तम्-यदिन्द्रसैकादेवातिथिस्तृचोन्त्यः पुरउष्णिगन्तः कुरुङ्गस्य दानस्तुतिस्तत्पूर्वाश्चतस्रः पौष्णयोवेति । महाव्रते निष्केवल्ये बार्हततृचाशीतौ आद्याश्चतुर्दशर्चः शंसनीयाः तथैव पञ्चमारण्यके-यदिन्द्रप्रागपागुदगिति । चतुर्दशेति चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकशस्त्रे आद्यः प्रगाथोवैकल्पिकः स्तोत्रियः सूत्र्यतेहि-यदिन्द्रप्रागपागुदग्यथागौरोअपाकृतमिति ।