श्रवणम्

8.3.20
निर॒ग्नयो᳚ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम᳚ इन्द्रि॒यो रसः᳚ ।
निर॒न्तरि᳚क्षादधमो म॒हामहिं᳚ कृ॒षे तदि᳚न्द्र॒ पौंस्य᳚म् ॥
▶ पदपाठः (Word-by-word)
निः । अ॒ग्नयः᳚ । रु॒रु॒चुः॒ । निः । ऊं॒ इति᳚ । सूर्यः᳚ । निः । सोमः᳚ । इ॒न्द्रि॒यः । रसः᳚ ।
निः । अ॒न्तरि᳚क्षात् । अ॒ध॒मः॒ । म॒हाम् । अहि᳚म् । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र महां महान्तं कृत्स्नस्य जगतो व्यापकं अहिं आहननशीलं वृत्रं यदा त्वमन्तरिक्षादाकाशात् निरधमोनिरगमयः धमतिर्गतिकर्मा तत्तदानीं पौंस्यं वृत्रहननहेतुभूतं बलं कृषे कुरुषे पुरस्कुरुषे करोतेश्छान्दसोविकरणस्य लुक् । अग्नयश्च विस्थानगताः नीरुरुचुः निःशेषेण दिदीपिरे सूर्यः प्रेरकआदित्योपि निःशेषेण दिदीपे इन्द्रियः इन्द्रेण सेव्योरसः रसात्मकः अमृतमयः सोमश्च निःशेषेण दिदीपे अग्न्यादयः सर्वे पूर्वं वृत्रेणावृतत्वान्निःप्रभाः सन्तः इदानीं तस्मिन्नावरके हते सम्यक् प्राकाशिषतेत्यर्थः ॥ २० ॥