श्रवणम्

8.3.23
यस्मा᳚ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह᳚न्ति॒ वह्न᳚यः ।
अस्तं॒ वयो॒ न तुग्र्य᳚म् ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । अ॒न्ये । दश᳚ । प्रति᳚ । धुर᳚म् । वह᳚न्ति । वह्न᳚यः ।
अस्त᳚म् । वयः᳚ । न । तुग्र्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोक्तएवाश्वो विशेष्यते यस्मै षष्ठ्यर्थे चतुर्थी यस्याश्वस्य वृषभस्य वा धुरं वोढव्यं युगधुरं अन्ये प्रकृतादस्मात् विलक्षणादशसङ्- ख्याकाः वह्नयोवोढारोश्वाः बलीवर्दावा प्रतिनिधयः सन्तः मां वोढुं वहन्ति । बिभ्रति बहूनामेकत्र वहने दृष्टानतः –अस्तं अस्यते क्षिप्यते तस्मिन् पदार्थजातमित्यस्तं गृहं प्रति वयोन गन्तारोश्वाः यथा तुग्र्यं तुग्रपुत्रं भुज्युं समुद्रतीरादवहन् तद्वत् तादृशमश्वं मह्यं प्रादादिति पूर्वस्यामृच्यन्वयः । भुज्योर्वहनंच नासत्याभुज्युमूहथुरित्यादाववगन्तव्यम् । यद्वा यस्माइति कर्मणि चतुर्थी यं रथं अन्ये दशसंख्याकावह्नयो वोढारोश्वाः धुरं वहनप्रदेशं प्रतिगताः सन्तो वहन्ति तादृशं रथमपि मह्यं दत्तवानित्यर्थः ॥ २३ ॥