अष्टमं मण्डलम् - सूक्तम् 32

30 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 8.32 - सम्पूर्णम्

1 / 30
ऋक्: 8.32.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (30)
8.32.1
प्र कृ॒तान्यृ᳚जी॒षिण॒ः कण्वा॒ इन्द्र᳚स्य॒ गाथ᳚या ।
मदे॒ सोम᳚स्य वोचत ॥
▶ पदपाठः (Word-by-word)
प्र । कृ॒तानि᳚ । ऋ॒जी॒षिणः᳚ । कण्वाः᳚ । इन्द्र᳚स्य । गाथ᳚या ।
मदे᳚ । सोम᳚स्य । वो॒च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ षष्ठस्यतृतीयोध्यायआरभ्यते प्रकृतानीति त्रिंशदृचं द्वितीयं सूक्तम् तत्रेयमनुक्रमणिका-प्रकृतानित्रिंशन्मेधातिथिरिति । काण्वोमेधातिथिरृषिः परंगायत्रं प्राग्वत्सप्रेरिति परिभाषया गायत्रीछन्दः अनादेशपरिभाषयेन्द्रोदेवता । महाव्रतेनिष्केवल्ये गायत्रतृचाशीतौ एतत्सूक्तम् तथैवपञ्चमार-ण्यके शौनकेनसूत्रितम्-प्रकृतान्यृजीषिण आघायेअग्निमिन्धतइति । अतिरात्रे प्रथमेपर्याये मैत्रावरुणशस्त्रे प्रकृतानीतितृचोनुरूपः । सूत्रितञ्च-प्रव-इन्द्रायमादनं प्रकृतान्यृजीषिणइति । तस्मिन्नेवशस्त्रे प्रतिश्रुतायेत्याद्याः पञ्चदशर्चः । सूत्र्यतेहि-प्रतिश्रुतायवोधृषदिति पञ्चदशेति । दशमेहनि प्रातः-सवनेअच्छावाकवादे पत्नीयजमानस्थाने प्रतिश्रुतायेतितृचः । सूत्रितञ्च-प्रतिश्रुतायवोधृषदितितृचाविति । अहीनान्तर्गतस्यातिरात्रस्य प्रथमेपर्याये होतुः पन्यइदुपगायतेत्यनुरूपः ।

हे कण्वाः ऋजीषिणऋजीषवतः सोमस्य कृतानि कर्माणि इन्द्रस्य गाथया इन्द्रस्य वाचा मदे अस्य मदे संजातेसति प्रवोचत प्रब्रूत ॥ १ ॥

8.32.2
यः सृबि᳚न्द॒मन᳚र्शनिं॒ पिप्रुं᳚ दा॒सम᳚ही॒शुव᳚म् ।
वधी᳚दु॒ग्रो रि॒णन्न॒पः ॥
▶ पदपाठः (Word-by-word)
यः । सृबि᳚न्दम् । अन᳚र्शनिम् । पिप्रु᳚म् । दा॒सम् । अ॒ही॒शुव᳚म् ।
वधी᳚त् । उ॒ग्रः । रि॒णन् । अ॒पः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्र उग्रःउद्रूर्णस्तेजस्वीवा सोऽपउदकानि रिणन् प्रेरयन् सृबिन्दनामकं शत्रुं अनर्शनिमनर्शनामकं पिप्रुं पिप्रुनामकंच दासंच अहीशुवंच शत्रुं वधी- त् अवधीज्जघान ॥ २ ॥

8.32.3
न्यर्बु᳚दस्य वि॒ष्टपं᳚ व॒र्ष्माणं᳚ बृह॒तस्ति᳚र ।
कृ॒षे तदि᳚न्द्र॒ पौंस्य᳚म् ॥
▶ पदपाठः (Word-by-word)
नि । अर्बु᳚दस्य । वि॒ष्टप᳚म् । व॒र्ष्माण᳚म् । बृ॒ह॒तः । ति॒र॒ ।
कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र बृहतोमहतोर्बुदस्य मेघस्य वर्ष्माणमुदकस्य वारकं विष्टपं स्थानं नितिर विध्य तत्प्रसिद्धं पौंस्यं व्रतं चकृषे कुरु ॥ ३ ॥

8.32.4
प्रति᳚ श्रु॒ताय᳚ वो धृ॒षत्तूर्णा᳚शं॒ न गि॒रेरधि᳚ ।
हु॒वे सु᳚शि॒प्रमू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । श्रु॒ताय᳚ । वः॒ । धृ॒षत् । तूर्णा᳚शम् । न । गि॒रेः । अधि᳚ ।
हु॒वे । सु॒॑शि॒प्रम् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारोवोयुष्माकं श्रुताय स्तुतीनां श्रवणाय रक्षणायच धृषच्छत्रून् धृषन्तं सुशिप्रं सुहनुमिन्द्रं प्रति हुवे ह्वयामि । तूर्णाशं न यथा घर्मेभितप्तःपु- मान् तूर्णाशमुदकम् । तथा चयास्कःतूर्णाशमुदकंभवति तूर्णमश्नुतेति । गिरेरधि मेघं प्रति ह्वयति । पर्वतः गिरिरिति मेघनामसुपाठात् तद्वदित्यर्थः । किमर्थं ऊतये रक्षणाय ॥ ४ ॥

8.32.5
स गोरश्व᳚स्य॒ वि व्र॒जं म᳚न्दा॒नः सो॒म्येभ्य᳚ः ।
पुरं॒ न शू᳚र दर्षसि ॥
▶ पदपाठः (Word-by-word)
सः । गोः । अश्व᳚स्य । वि । व्र॒जम् । म॒न्दा॒नः । सो॒म्येभ्यः᳚ ।
पुर᳚म् । न । शू॒र॒ । द॒र्ष॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूरेन्द्र सः प्रसिद्धः त्वं मन्दानोमोदमानः गोरश्वस्यचव्रजं निवासस्थानं सोम्येभ्यः सोमार्हेभ्यः पुरंन शत्रूणां नगरमिव विदर्षसि विवृतद्वारं करो- षि ॥ ५ ॥

8.32.6
यदि᳚ मे रा॒रणः᳚ सु॒त उ॒क्थे वा॒ दध᳚से॒ चनः᳚ ।
आ॒रादुप᳚ स्व॒धा ग᳚हि ॥
▶ पदपाठः (Word-by-word)
यदि᳚ । मे॒ । र॒रणः᳚ । सु॒ते । उ॒क्थे । वा॒ । दध᳚से । चनः᳚ ।
आ॒रात् । उप᳚ । स्व॒धा । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मे मम सुते अभिषुते सोमे उक्थे स्तोत्रेवा यदि रारणः रमसे चनोन्नं यदिच दधसे मह्यं प्रयच्छसि तर्हि आराहूरात् स्वधान्नेनोपागहि उपाग- च्छ ॥ ६ ॥

8.32.7
व॒यं घा᳚ ते॒ अपि᳚ ष्मसि स्तो॒तार᳚ इन्द्र गिर्वणः ।
त्वं नो᳚ जिन्व सोमपाः ॥
▶ पदपाठः (Word-by-word)
व॒यम् । घ॒ । ते॒ । अपि᳚ । स्म॒सि॒ । स्तो॒तारः᳚ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
त्वम् । नः॒ । जि॒न्व॒ । सो॒म॒॑पाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणोगीर्भिर्वननीयेन्द्र ते तवापि वयं घ वयंखलु स्तोतारः स्मसि भवामः । हे सोमपाः सोमस्यपातरिन्द्र त्वं नोस्मान् जिन्व प्रीणयसि ॥ ७ ॥

8.32.8
उ॒त नः᳚ पि॒तुमा भ᳚र संररा॒णो अवि᳚क्षितम् ।
मघ᳚व॒न्भूरि᳚ ते॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । पि॒तुम् । आ । भ॒र॒ । स॒म्॑र॒रा॒णः । अवि᳚॑क्षितम् ।
मघ᳚॑वन् । भूरि᳚ । ते॒ । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत अपिच हे मघवन् संरराणः संरममाणस्त्वमविक्षितमविक्षीणम् पितुमन्नम् । पृक्षः पितुः रिति अन्ननामसुपाठात् । नोस्मभ्यमाभराहर ते तव वसु धनं भूरि अधिकं हि ॥ ८ ॥

8.32.9
उ॒त नो॒ गोम᳚तस्कृधि॒ हिर᳚ण्यवतो अ॒श्विनः᳚ ।
इळा᳚भि॒ः सं र᳚भेमहि ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । गो॑म᳚तः । कृ॒धि॒ । हिर᳚ण्य॑वतः । अ॒श्विनः᳚ ।
इळा᳚भिः । सम् । र॒भे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे इन्द्र नोस्मान् गोमतोगोमिनः कृधि कुरु अश्विनोश्वयुक्तान्कृधि हिरण्यवतोमेघवतश्च कृधि इळाभिरन्नैश्च संरभेमहि वयं संरब्धा- भवेम ॥ ९ ॥

8.32.10
बृ॒बदु᳚क्थं हवामहे सृ॒प्रक᳚रस्नमू॒तये᳚ ।
साधु᳚ कृ॒ण्वन्त॒मव᳚से ॥
▶ पदपाठः (Word-by-word)
बृ॒बत्॑उ᳚क्थम् । ह॒वा॒म॒हे॒ । सृ॒प्र॑क᳚रस्नम् । ऊ॒तये᳚ ।
साधु᳚ । कृ॒ण्वन्त᳚म् । अव᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊतये लोकस्य रक्षणाय सृप्रकरस्नं प्रसृतबाहुम् । करस्नौ बाहू कर्मणां प्रस्नाताराविति यास्कवचनात् । अवसे लोकस्यपालनाय साधु कृण्वन्तं साधु- कुर्वन्तं बृबदुक्थं बृहदुक्थं इन्द्रं हवामहे ह्वयामः । तथाचयास्कः-बृबदुक्थोमहदुक्थोवक्तव्यमस्माउक्थमिति ॥ १० ॥

8.32.11
यः सं॒स्थे चि᳚च्छ॒तक्र᳚तु॒रादीं᳚ कृ॒णोति᳚ वृत्र॒हा ।
ज॒रि॒तृभ्य᳚ः पुरू॒वसु᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । स॒म्॑स्थे । चि॒त् । श॒त॑क्र᳚तुः । आत् । ई॒म् । कृ॒णोति᳚ । वृ॒त्र॒॑हा ।
ज॒रि॒तृ॑भ्यः᳚ । पु॒रु॒॑वसुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः प्रसिद्धइन्द्रः संस्थे संग्रामे शतक्रतुर्बहुकर्माभवति अपिच आदनन्तरमीमिदं शत्रुवधादिकं कृणोति करोति चिदेव अयं इन्द्रोवृत्रहा शत्रूणां हन्ता- भवति । किञ्च जरितृभ्यः स्तोतृणामर्थे पुरुवसुः बहुधनोभवति न स्वार्थमित्यर्थः ॥ ११ ॥

8.32.12
स नः᳚ श॒क्रश्चि॒दा श᳚क॒द्दान᳚वा{4} अन्तराभ॒रः ।
इन्द्रो॒ विश्वा᳚भिरू॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । श॒क्रः । चि॒त् । आ । श॒क॒त् । दान᳚॑वान् । अ॒न्त॒र॒॑आ॒भ॒रः ।
इन्द्रः᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शक्रः शक्तः सइन्द्रः नश्चिदस्मानप्याशकच्छक्तान्करोतु अपिचेन्द्रोदानवान्विश्वाभिः सर्वैरूतिभिःपालनैरन्तराभरः अन्तराहरःछिद्राणामापूरकश्छि- द्रापिधायित्यर्थः ॥ १२ ॥

8.32.13
यो रा॒यो॒३॒᳚॑वनि᳚र्म॒हान्त्सु᳚पा॒रः सु᳚न्व॒तः सखा᳚ ।
तमिन्द्र᳚म॒भि गा᳚यत ॥
▶ पदपाठः (Word-by-word)
यः । रा॒यः । अ॒वनिः᳚ । म॒हान् । सु॒॑पा॒रः । सु॒न्व॒तः । सखा᳚ ।
तम् । इन्द्र᳚म् । अ॒भि । गा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रो रायो धनस्यावनिः पालकोमहान् सर्वोत्तमः सुपारः शोभनपारणश्च भवति यश्च सुन्वतः सोमाभिषवंकुर्वतो यजमानस्य सखा प्रियोभवति तमिन्द्रमभिगायताभिष्टुवत । हेस्तोतारइतिशेषः ॥ १३ ॥

8.32.14
आ॒य॒न्तारं॒ महि᳚ स्थि॒रं पृत᳚नासु श्रवो॒जित᳚म् ।
भूरे॒रीशा᳚न॒मोज᳚सा ॥
▶ पदपाठः (Word-by-word)
आ॒॑य॒न्तार᳚म् । महि᳚ । स्थि॒रम् । पृत᳚नासु । श्र॒वः॒॑जित᳚म् ।
भूरेः᳚ । ईशा᳚नम् । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयन्तारमागन्तारं महि महान्तं पृतनासु संग्रामेषु स्थिरमचलं श्रवोजितं श्रवसाजतारं ओजसा बलेन भूरेर्बहोर्धनस्य ईशानमीश्वरमभिगाय ॥ १४ ॥

8.32.15 समानपद
नकि᳚रस्य॒ शची᳚नां निय॒न्ता सू॒नृता᳚नाम् ।
नकि᳚र्व॒क्ता न दा॒दिति᳚ ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । अ॒स्य॒ । शची᳚नाम् । नि॒॑य॒न्ता । सू॒नृता᳚नाम् ।
नकिः᳚ । व॒क्ता । न । दा॒त् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य सूनृतानां शोभनानां शचीनां कर्मणां धीः शचीति कर्मनामसुपाठात् नकिर्नकश्चिन्नियन्ता नियामकः अयमिन्द्रोनदादिति नप्रयच्छ- तीति नकिर्वक्ता नकश्चिद्वदति । किंतु सर्वोपि जनोयं प्रदातेत्येव ब्रवीतीत्यर्थः ॥ १५ ॥

8.32.16
न नू॒नं ब्र॒ह्मणा᳚मृ॒णं प्रा᳚शू॒नाम᳚स्ति सुन्व॒ताम् ।
न सोमो᳚ अप्र॒ता प᳚पे ॥
▶ पदपाठः (Word-by-word)
न । नू॒नम् । ब्र॒ह्मणा᳚म् । ऋ॒णम् । प्रा॒शू॒नाम् । अ॒स्ति॒ । सु॒न्व॒ताम् ।
न । सोमः᳚ । अ॒प्र॒ता । प॒पे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्राशूनां ये सोमं प्राश्नुवन्ति ते प्राशवस्तेषां सोमं सुन्वतां ब्रह्मणां ब्राह्मणानां ऋणं देवऋणं ननूनमस्ति नखलुविद्यते । तथाचश्रूयते-एषवाअनृणोयः पुत्री यज्वाब्रह्मचारीति । किञ्च अप्रताऽविस्तीर्णधनेन सोमोनपपे न पीयते प्रभूतधनेनैव सोमः पीयतइत्यर्थः ॥ १६ ॥

8.32.17
पन्य॒ इदुप᳚ गायत॒ पन्य᳚ उ॒क्थानि᳚ शंसत ।
ब्रह्मा᳚ कृणोत॒ पन्य॒ इत् ॥
▶ पदपाठः (Word-by-word)
पन्ये᳚ । इत् । उप᳚ । गा॒य॒त॒ । पन्ये᳚ । उ॒क्थानि᳚ । शं॒स॒त॒ ।
ब्रह्म᳚ । कृ॒णो॒त॒ । पन्ये᳚ । इत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उपगातारः पन्येइत् स्तुत्यएवेन्द्रे उपगायत उपगानं कुरुत । किच्च पन्ये स्तुत्यएवेन्द्रे उक्थानि स्तोत्राणि शंसत हे स्तोतारइतिशेषः । पन्यइत् स्तुत्यएवेन्द्रे ब्रह्मब्रह्माण्यन्नानि स्तोत्राणि कृणोत कुरुत ॥ १७ ॥

8.32.18
पन्य॒ आ द᳚र्दिरच्छ॒ता स॒हस्रा᳚ वा॒ज्यवृ᳚तः ।
इन्द्रो॒ यो यज्व᳚नो वृ॒धः ॥
▶ पदपाठः (Word-by-word)
पन्यः᳚ । आ । द॒र्दि॒र॒त् । श॒ता । स॒हस्रा᳚ । वा॒जी । अवृ᳚तः ।
इन्द्रः᳚ । यः । यज्व᳚नः । वृ॒धः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योवाजी बलवान् शता वीराणां शतानि सहस्रा सहस्राणि चादर्दिरदाभिमुख्येन दारयति सोयमिन्द्रः शत्रुभिरवृतः पन्यः स्तुत्योभवति यज्वनो वि- धिनेष्टवतो यजमानस्य वृधोवर्धयिताच भवति ॥ १८ ॥

8.32.19
वि षू च᳚र स्व॒धा अनु᳚ कृष्टी॒नामन्वा॒हुवः᳚ ।
इन्द्र॒ पिब᳚ सु॒ताना᳚म् ॥
▶ पदपाठः (Word-by-word)
वि । सु । च॒र॒ । स्व॒धाः । अनु᳚ । कृ॒ष्टी॒नाम् । अनु᳚ । आ॒॑हुवः᳚ ।
इन्द्र᳚ । पिब᳚ । सु॒ताना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र आहुवः आह्वातव्यस्त्वं कृष्टानां मनुष्याणां स्वधाः हवींष्यनु सु सुष्ठु विचर । द्वितीयोनुपूरणः । सुतानामभिषुतान् सोमांश्च पिब ॥ १९ ॥

8.32.20
पिब॒ स्वधै᳚नवानामु॒त यस्तुग्र्ये॒ सचा᳚ ।
उ॒तायमि᳚न्द्र॒ यस्तव᳚ ॥
▶ पदपाठः (Word-by-word)
पिब᳚ । स्व॑धै᳚नवानाम् । उ॒त । यः । तुग्र्ये᳚ । सचा᳚ ।
उ॒त । अ॒यम् । इ॒न्द्र॒ । यः । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स्वधैनवानां स्वधैनवान् स्वभूतपयसोधेनोः संबन्धिनः सोमान् धेन्वा क्रीतानित्यर्थः । तथाचश्रूयते-धेन्वाक्रीणातीति । उतापिच यः सोमस्तु- ष्ये उदके बुसं तुग्र्येत्युदकनामसुपाठात् । सचा संसृष्ट स्तमपि सोमं पिब । उतापिच यः सोमः तवत्वदीयस्त्वामुद्दिश्य गृहीतः सोयं त्वया पातव्यइ- तिशेषः ॥ २० ॥

8.32.21
अती᳚हि मन्युषा॒विणं᳚ सुषु॒वांस᳚मु॒पार᳚णे ।
इ॒मं रा॒तं सु॒तं पि᳚ब ॥
▶ पदपाठः (Word-by-word)
अति᳚ । इ॒हि॒ । म॒न्यु॒॑सा॒विन᳚म् । सु॒सु॒॑वांस᳚म् । उ॒प॒॑अर᳚णे ।
इ॒मम् । रा॒तम् । सु॒तम् । पि॒ब॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मन्युषाविणं क्रोधेन सोमं सुन्वन्तमतीह्यतिगच्छ तथोपारणे ब्राह्मणा उपेत्य यस्मिन्देशे न रमन्ते सउपारणस्तस्मिन् देशे सुषुवांसं सुन्वन्त- मतीहि इमं रातं ब्राह्मणोपद्रवरहितेदेशेस्माभिर्दत्तमिमं सुतं सोमं पिब ॥ २१ ॥

8.32.22
इ॒हि ति॒स्रः प᳚रा॒वत᳚ इ॒हि पञ्च॒ जना{4}॒ अति᳚ ।
धेना᳚ इन्द्राव॒चाक᳚शत् ॥
▶ पदपाठः (Word-by-word)
इ॒हि । ति॒स्रः । प॒रा॒॑वतः᳚ । इ॒हि । पञ्च᳚ । जना᳚न् । अति᳚ ।
धेनाः᳚ । इ॒न्द्र॒ । अ॒व॒॑चाक᳚शत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र धेनाः अस्मदीयाः स्तुतीः अवचाकशत् यःअपश्यत् सत्वं परावतोदूरात् आरे परावतइति दूरनामसुपाठात् तिस्रः अग्रपृष्ठपार्श्वदिशः इहि ग- च्छ अनेनाग्रतः पृष्ठतः पार्श्वतश्चेन्द्रस्यागमनमाशास्ते । अपिच जनान्मनुष्यान् अतीहि अतिगच्छ । यद्वा गन्धर्वाः पितरोदेवा असुरारक्षांसिच पञ्चजनास्तानतीहीत्यर्थः । तथाचयास्कः-गन्धर्वाः पितरोदेवा असुरा रक्षांसीत्येके चत्वारोवर्णा निषादःपच्चमइत्यौपमन्यवइति ॥ २२ ॥

8.32.23
सूर्यो᳚ र॒श्मिं यथा᳚ सृ॒जा त्वा᳚ यच्छन्तु मे॒ गिरः᳚ ।
नि॒म्नमापो॒ न स॒ध्र्य᳚क् ॥
▶ पदपाठः (Word-by-word)
सूर्यः᳚ । र॒श्मिम् । यथा᳚ । सृ॒ज॒ । आ । त्वा॒ । य॒च्छ॒न्तु॒ । मे॒ । गिरः᳚ ।
नि॒म्नम् । आपः᳚ । न । स॒ध्र्य᳚क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सूर्योयथा रश्मिं रश्मीन्किरणानश्वप्रग्रहान्वा विसृजति तथा मत्द्यं धनं विसृज । अपिच मे मदीयागिरः स्तुतयः सध्र्यक् सह त्वा त्वामाय- च्छन्तु निम्रमापोन यथा निम्रंदेशमापः सह परिगृह्णन्ति तद्वदित्यर्थः ॥ २३ ॥

8.32.24
अध्व᳚र्य॒वा तु हि षि॒ञ्च सोमं᳚ वी॒राय᳚ शि॒प्रिणे᳚ ।
भरा᳚ सु॒तस्य᳚ पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यो॒ इति᳚ । आ । तु । हि । सि॒ञ्च । सोम᳚म् । वी॒राय᳚ । शि॒प्रिणे᳚ ।
भर᳚ । सु॒तस्य᳚ । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यो शिप्रिणे हनूमते वीराय शूरायेन्द्राय सोमं तु हि क्षिप्रमेवासिंच । सुतस्य सुतं सोमं पीतये पानायच भराहरच ॥ २४ ॥

8.32.25
य उ॒द्नः फ᳚लि॒गं भि॒नन्न्य१॒᳚क्सिन्धू{4}᳚र॒वासृ᳚जत् ।
यो गोषु᳚ प॒क्वं धा॒रय᳚त् ॥
▶ पदपाठः (Word-by-word)
यः । उ॒द्नः । फ॒लि॒॑गम् । भि॒नत् । न्य᳚क् । सिन्धू᳚न् । अ॒व॒॑असृ᳚जत् ।
यः । गोषु᳚ । प॒क्वम् । धा॒रय᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यउद्रःउदकार्थं फलिगं मेघं रैवतः फलिगइति मेघनामसुपाठात् भिनत् अभिनत् सिन्धूनपश्चान्तरिक्षात् न्यगर्वागवासृजत् । यश्च गोषु पक्कं पयोधा- रयदधारयत् सइन्द्रइत्यर्थः ॥ २५ ॥

8.32.26
अह᳚न्वृ॒त्रमृची᳚षम और्णवा॒भम᳚ही॒शुव᳚म् ।
हि॒मेना᳚विध्य॒दर्बु᳚दम् ॥
▶ पदपाठः (Word-by-word)
अह᳚न् । वृ॒त्रम् । ऋची᳚षमः । औ॒र्ण॒॑वा॒भम् । अ॒ही॒शुव᳚म् ।
हि॒मेन᳚ । अ॒वि॒ध्य॒त् । अर्बु᳚दम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋचीषमो ऋचा दीप्त्यासमइन्द्रो वृत्रं वृत्रनामकं शत्रुमहन् अहनत् जघान तथा और्णवाभमौर्णवाभनामकमहीशुवमहीशुवनामकंच शत्रुमहन् तथा हिमेन तुषारेणोदकेन वार्बुदं मेघमविध्यत् ॥ २६ ॥

8.32.27
प्र व᳚ उ॒ग्राय᳚ नि॒ष्टुरे॑षा᳚ळ्हाय प्रस॒क्षिणे᳚ ।
दे॒वत्तं॒ ब्रह्म᳚ गायत ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । उ॒ग्राय᳚ । निः॒॑तुरे᳚ । अषा᳚ळ्हाय । प्र॒॑स॒क्षिणे᳚ ।
दे॒वत्त᳚म् । ब्रह्म᳚ । गा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उद्गातारोवो यूयं उग्रायोद्गूर्णाय निष्टुरे शत्रून्निस्तरते अषाह्ळाय शत्रूणामभिभवित्रे प्रसक्षिणे प्रसहनशीलायेन्द्राय देवत्तं देवप्रसादलबधं ब्रह्म स्तोत्रं प्रगायत ॥ २७ ॥

8.32.28
यो विश्वा᳚न्य॒भि व्र॒ता सोम᳚स्य॒ मदे॒ अन्ध᳚सः ।
इन्द्रो᳚ दे॒वेषु॒ चेत᳚ति ॥
▶ पदपाठः (Word-by-word)
यः । विश्वा᳚नि । अ॒भि । व्र॒ता । सोम᳚स्य । मदे᳚ । अन्ध᳚सः ।
इन्द्रः᳚ । दे॒वेषु᳚ । चेत᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्धसोद्यमानस्य सोमस्य मदे संजाते विश्वानि सर्वाणि व्रता व्रतानि कर्माणि यइन्द्रो देवेष्वभिचेतति ज्ञापयति तस्माइंद्राय देवत्तं ब्रह्मगायतेत्यर्थः ॥ २८ ॥

8.32.29
इ॒ह त्या स᳚ध॒माद्या॒ हरी॒ हिर᳚ण्यकेश्या ।
वो॒ळ्हाम॒भि प्रयो᳚ हि॒तम् ॥
▶ पदपाठः (Word-by-word)
इ॒ह । त्या । स॒ध॒॑माद्या᳚ । हरी॒ इति᳚ । हिर᳚ण्य॑केश्या ।
वो॒ळ्हाम् । अ॒भि । प्रयः᳚ । हि॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहयज्ञे त्या तौ प्रसिद्धौ सधमाद्या सहमाद्यन्तौ हिरण्यकेश्या हिरण्यकेश्यौ हरी एतन्नामकौ अश्वौ हितं हितकरं प्रयः सोमरूपमन्नं अभि अभिलक्ष्य वोह्ळां इन्द्रं वहतां प्रापयतामिति ॥ २९ ॥

8.32.30
अ॒र्वाञ्चं᳚ त्वा पुरुष्टुत प्रि॒यमे᳚धस्तुता॒ हरी᳚ ।
सो॒म॒पेया᳚य वक्षतः ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाञ्च᳚म् । त्वा॒ । पु॒रु॒॑स्तु॒त॒ । प्रि॒यमे᳚ध॑स्तुता । हरी॒ इति᳚ ।
सो॒म॒॑पेया᳚य । व॒क्ष॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुष्टुत इन्द्र त्वा त्वां प्रियमेधस्तुता हरी अश्वौ सोमपेयाय सोमपानायार्वाच्चमस्मदभिमुखं वक्षतोवहतः ॥ ३० ॥

वयंघत्वेत्येकोनविंशर्चं तृतीयंसूक्तं काण्वस्यमेधातिथेरार्षं बृहतीछंदस्कम् षोडश्याद्यास्तिस्रोगायत्र्यः एकोनविंश्यनुष्टुप् इन्द्रोदेवता । तथाचानुक्रां- तम्-वयंघैकोना मेध्यातिथिर्बार्हतं त्रिगायत्र्यनुष्टुबन्तमिति । महाव्रते निष्केवल्ये बार्हततृचाशीतावादितः पञ्चदशर्चः । तथैवपञ्चमारण्यके शौनके- नसूत्र्यते-वयंघत्वासुतावन्तइतिपञ्चदश मोषुत्वावाघतश्चनेत्येतस्यद्विपदांचोद्धरतीति । चातुर्विंशिकेहनि माध्यन्दिनेसवने ब्राह्मणाच्छंसिशस्त्रे वयं- घत्वेतितृचोवैकल्पिकःस्तोत्रियः । तथाचसूत्रं-वयंघत्वासुतावन्तः कईंवेदसुतेसचेति । स्वरसाम्नि अयमेवतृचोनुरूपः । सूत्रितञ्च-वयंघत्वासुतावन्त- इति तिस्रोबृहत्यइति । तस्मिन्नेवशस्त्रे कईंवेदेति वैकल्पिकोनुरूपः । सूत्रमुक्तमेव ।