यु॒वं दे᳚वा॒ क्रतु᳚ना पू॒र्व्येण᳚ यु॒क्ता रथे᳚न तवि॒षं य᳚जत्रा ।
आग᳚च्छतं नासत्या॒ शची᳚भिरि॒दं तृ॒तीयं॒ सव᳚नं पिबाथः ॥
यु॒वम् । दे॒वा॒ । क्रतु᳚ना । पू॒र्व्येण᳚ । यु॒क्ता । रथे᳚न । त॒वि॒षम् । य॒ज॒त्रा॒ ।
आ । अ॒ग॒च्छ॒त॒म् । ना॒स॒त्या॒ । शची᳚भिः । इ॒दम् । तृ॒तीय᳚म् । सव᳚नम् । पि॒बा॒थः॒ ॥
यु॒वां दे॒वास्त्रय᳚ एकाद॒शासः᳚ स॒त्याः स॒त्यस्य᳚ ददृशे पु॒रस्ता᳚त् ।
अ॒स्माकं᳚ य॒ज्ञं सव᳚नं जुषा॒णा पा॒तं सोम᳚मश्विना॒ दीद्य᳚ग्नी ॥
यु॒वाम् । दे॒वाः । त्रयः᳚ । ए॒का॒द॒शासः᳚ । स॒त्याः । स॒त्यस्य᳚ । द॒दृ॒शे॒ । पु॒रस्ता᳚त् ।
अ॒स्माक᳚म् । य॒ज्ञम् । सव᳚नम् । जु॒षा॒णा । पा॒तम् । सोम᳚म् । अ॒श्वि॒ना॒ । दीद्य᳚ग्नी॒ इति॒ दीदि᳚॑अग्नी ॥
प॒नाय्यं॒ तद᳚श्विना कृ॒तं वां᳚ वृष॒भो दि॒वो रज᳚सः पृथि॒व्याः ।
स॒हस्रं॒ शंसा᳚ उ॒त ये गवि᳚ष्टौ॒ सर्वा{4}॒ इत्ता{4} उप᳚ याता॒ पिब᳚ध्यै ॥
प॒नाय्य᳚म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वृ॒ष॒भः । दि॒वः । रज᳚सः । पृ॒थि॒व्याः ।
स॒हस्र᳚म् । शंसाः᳚ । उ॒त । ये । गो॑इ᳚ष्टौ । सर्वा᳚न् । इत् । तान् । उप᳚ । या॒त॒ । पिब᳚ध्यै ॥
अ॒यं वां᳚ भा॒गो निहि᳚तो यजत्रे॒मा गिरो᳚ नास॒त्योप᳚ यातम् ।
पिब᳚तं॒ सोमं॒ मधु᳚मन्तम॒स्मे प्र दा॒श्वांस᳚मवतं॒ शची᳚भिः ॥
अ॒यम् । वा॒म् । भा॒गः । नि॑हि᳚तः । य॒ज॒त्रा॒ । इ॒माः । गिरः᳚ । ना॒स॒त्या॒ । उप᳚ । या॒त॒म् ।
पिब᳚तम् । सोम᳚म् । मधु᳚॑मन्तम् । अ॒स्मे इति᳚ । प्र । दा॒श्वांस᳚म् । अ॒व॒त॒म् । शची᳚भिः ॥