अष्टमं मण्डलम् - सूक्तम् 93

34 ऋचः

ऋषिः: सुकक्षः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 8.93 - सम्पूर्णम्

1 / 34
ऋक्: 8.93.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (34)
8.93.1
उद्घेद॒भि श्रु॒ताम᳚घं वृष॒भं नर्या᳚पसम् ।
अस्ता᳚रमेषि सूर्य ॥
▶ पदपाठः (Word-by-word)
उत् । घ॒ । इत् । अ॒भि । श्रु॒त॑म᳚घम् । वृ॒ष॒भम् । नर्य᳚॑अपसम् ।
अस्ता᳚रम् । ए॒षि॒ । सू॒र्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुकक्ष इन्द्रगुणानाह-हे सूर्य द्वादशसु भानुषु इन्द्रोपि सूर्यात्मना पठितः तस्मात्सूर्यात्मक सुवीर्य हे इन्द्र श्रुतमघं सर्वदा देयत्वेन विख्यातधनं अतएव वृषभं याचमानानां धनस्य वर्षितारं नर्यापसं नरहितं नर्यं नरहितकर्माणं अस्तारं दानशौंडं औदार्यवन्तं एतादृशानुभावं अभितः उदेषि । इदवधारणे । त्वमेव तस्ययज्ञे सूर्यात्मना उद्गतोसि । घेति प्रसिद्धौ ॥ १ ॥

8.93.2
नव॒ यो न᳚व॒तिं पुरो᳚ बि॒भेद᳚ बा॒ह्वो᳚जसा ।
अहिं᳚ च वृत्र॒हाव᳚धीत् ॥
▶ पदपाठः (Word-by-word)
नव᳚ । यः । न॒व॒तिम् । पुरः᳚ । बि॒भेद᳚ । बा॒हु॑ओ᳚जसा ।
अहि᳚म् । च॒ । वृ॒त्र॒॑हा । अ॒व॒धी॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः नव नवतिं नवनवतिसंख्याकाः एकोनशतसंख्याकाः शंबरस्य पुरः पुरीः बाह्वोजसा स्वबाहुबलेनैव बिभेद दिवोदासाय भिनत्तिस्म । एकोनशतस्ख्याकाः शंबरस्य पुरः पुरीः बाह्वोजसा स्वबाहुबलेनैव बिभेद दिवोदासाय भिनत्तिस्म । तथाचमंत्रः-दिवोदासायनवतिंचनवेन्द्रः पुरोव्यैरच्छंबरस्येति । सवृत्रहा वृत्रासुरस्यहन्ता सइन्द्रः अहिंच न केनाप्यहन्तव्यं मेघं अपामावरकं वृत्रं वा अवधीत् सइन्द्रोस्माकं धनं ददा- त्वित्युत्तरेण संबन्धः ॥ २ ॥

8.93.3
स न॒ इन्द्र᳚ः शि॒वः सखाश्वा᳚व॒द्गोम॒द्यव᳚मत् ।
उ॒रुधा᳚रेव दोहते ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । इन्द्रः᳚ । शि॒वः । सखा᳚ । अश्व᳚॑वत् । गो॑म᳚त् । यव᳚॑मत् ।
उ॒रुधा᳚रा॑इव । दो॒ह॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सपूर्वोक्तलक्षणः शिवः कल्याणतमः सखा यष्टृयष्टव्यस्तोतृस्तुत्यलक्षणेन संबन्धेनास्माकं मित्रभूतः एतादृशइन्द्रः अश्ववत् अश्वयुक्तं गोमत् पश्वा- दिसहितं यवमत् । अयवादिभ्यइति व प्रतिषेधान्मतुपो वत्वाभावः । यवइति धान्यविशेषः धान्ययुक्तं धनं नोस्मभ्यं दोहते । दोग्धु ददातु । दृष्टान्तः-उरुधारेव दोहनकाले प्रभूतपयोधारा यद्वा बहूनां पोषयित्री गौः यथा वत्सस्य पयोदोग्धि तथा प्रभूतं धनमस्माकं दोग्धु ददातु । दुहेर्लेट्यडागमः ॥ ३ ॥

8.93.4
यद॒द्य कच्च᳚ वृत्रहन्नु॒दगा᳚ अ॒भि सू᳚र्य ।
सर्वं॒ तदि᳚न्द्र ते॒ वशे᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । कत् । च॒ । वृ॒त्र॒॑ह॒न् । उ॒त्॑अगाः᳚ । अ॒भि । सू॒र्य॒ ।
सर्व᳚म् । तत् । इ॒न्द्र॒ । ते॒ । वशे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन् वृत्रस्यापामावरकस्य मेघस्य हन्तः हे सूर्य सूर्यात्मकेन्द्र अद्यास्मिन्दिने यत् कच्च यत्किंचित् पदार्थजातमभि अभिमुखीकृत्य उदगाः इण्गतौ उत्पूर्वः तस्य लुङि गादेशः । स्वतेजसा उद्गतः प्रादुर्भूतोसि तदा तत्सर्वं स्थावरजंगमात्मकं जगत् ते तव वशेभवति त्वदधीनं भवति । उदितेसूर्ये त्वदर्थं प्राक्कर्म कुर्वन्ति जुह्वतिच ॥ ४ ॥

8.93.5
यद्वा᳚ प्रवृद्ध सत्पते॒ न म᳚रा॒ इति॒ मन्य᳚से ।
उ॒तो तत्स॒त्यमित्तव᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒ । प्र॒॑वृ॒द्ध॒ । स॒त्॑प॒ते॒ । न । म॒रै॒ । इति᳚ । मन्य᳚से ।
उ॒तो इति᳚ । तत् । स॒त्यम् । इत् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाशब्दः समुच्चये अपिच हे प्रवृद्ध स्वबलेन प्रवर्धमान सत्पते सतांपते स्वप्रकाशाधिक्येन सतां नक्षत्राणां पते हे इन्द्र नमरै इति मनुष्यवद्वार्धकेनाहं नम्रिये इति यद्यदि मन्यसे बुध्यसे । मृङ्प्राणत्यागे लेट्यडागमः वैतोन्यत्रेत्यैकारः । उतो अपिच तव तत् नम्रिये इति मननं सत्यमित् यथार्थमेव । इन्द्रो नम्रियते इत्यर्थे मंत्रान्तरं-नह्यस्याअपरंचनजरसामरतेपतिरिति ॥ ५ ॥

8.93.6
ये सोमा᳚सः परा॒वति॒ ये अ᳚र्वा॒वति᳚ सुन्वि॒रे ।
सर्वा{4}॒स्ता{4} इ᳚न्द्र गच्छसि ॥
▶ पदपाठः (Word-by-word)
ये । सोमा᳚सः । प॒रा॒॑वति᳚ । ये । अ॒र्वा॒॑वति᳚ । सु॒न्वि॒रे ।
सर्वा᳚न् । तान् । इ॒न्द्र॒ । ग॒च्छ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ये सोमासः सोमाः परावति विप्रकृष्टेतिदूरदेशे ये सोमाः अर्वावति अन्तिकतमे देशे च सुन्विरे छन्दसि द्विर्वचनस्य विकल्पितत्वादत्रद्वि- र्वचनाभावः सुनोतेः कर्मणि लिटि व्यत्ययेनश्लुः येसोमाः ऋत्विग्भिरभिषूयन्ते सर्वान् दूरे समीपेचाभिषूयमाणांस्तान् सोमान् गच्छसि तत्पानार्थं युगपल् प्राप्नोषि । अनेनेन्द्रस्य सर्वगतत्वं सूचितम् ॥ ६ ॥ अप्तोर्यामे ब्राह्मणाच्छंसिनोतिरिक्तोक्थ्ये तमिन्द्रंवाजयामसीति स्तोत्रियस्तृचः । सूत्रितं च-तमिन्द्रंवाजयामसि महाँइंद्रोयओजसेति । व्यूह्ळस्य दशरात्रस्य पंचमेहनि निष्केवल्ये अयमेवतृचोनिविद्धानीयः । सूत्रितंच व्यूह्ळस्येतिखंडे-मरुत्वांइन्द्रमीढ्वस्तमिन्द्रंवाजयामसीति ।

8.93.7
तमिन्द्रं᳚ वाजयामसि म॒हे वृ॒त्राय॒ हन्त᳚वे ।
स वृषा᳚ वृष॒भो भु᳚वत् ॥
▶ पदपाठः (Word-by-word)
तम् । इन्द्र᳚म् । वा॒ज॒या॒म॒सि॒ । म॒हे । वृ॒त्राय᳚ । हन्त᳚वे ।
सः । वृषा᳚ । वृ॒ष॒भः । भु॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानाआहुः तं पूर्वोक्तलक्षणमिन्द्रं वाजयामसि वाजयामः सोमेन स्तुतिभिर्वा वाजवन्तं बलवन्तं कुर्मः । किमर्थं महे महते वृत्राय अपामावरकं वृत्रासुरं हन्तवे हन्तुं सोमपानेन मत्तः स्तुतिभिर्वा स्तुतःसन् वृत्रहन्तवे वाजयामसि वाजवन्तं करोतीत्यर्थे तत्करोतीति णिच् णाविष्ठवदिति- णेरिष्ठवद्भावात् टेरिति टिलोपः विन्मतोर्लुगितिवचनान्मतुपोलुक् । वृषा धनानां सेक्ता दाता सइन्द्रः वृषभः अस्माकं स्तोतॄणां सोमस्यदातॄणां धनादिसेचको दाता भुवत् भवतु ॥ ७ ॥

8.93.8
इन्द्र॒ः स दाम᳚ने कृ॒त ओजि᳚ष्ठ॒ः स मदे᳚ हि॒तः ।
द्यु॒म्नी श्लो॒की स सो॒म्यः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । सः । दाम᳚ने । कृ॒तः । ओजि᳚ष्ठः । सः । मदे᳚ । हि॒तः ।
द्यु॒म्नी । श्लो॒की । सः । सो॒म्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः दामने स्तोतृभ्यो धनादिदानायैवकृतः प्रजापतिना सृष्टः किंच ओजिष्ठः ओजस्वितमः सएवेन्द्रः मदे माद्यन्त्यनेनेति मदः सोमः तस्मिंश्च प्रजापतिना सृष्टिकाले हितः सोमपानार्थंच निहितइत्यर्थः । द्युम्नी द्युम्नं द्योततेर्यशोवान्नंवेति । यशस्वी अन्नवान्वा अतएव श्लोकी श्लोकः स्तुतिः तद्वान् सइन्द्रः सोम्यः सोमार्होभवति ॥ ८ ॥

8.93.9
गि॒रा वज्रो॒ न सम्भृ᳚त॒ः सब᳚लो॒ अन᳚पच्युतः ।
व॒व॒क्ष ऋ॒ष्वो अस्तृ᳚तः ॥
▶ पदपाठः (Word-by-word)
गि॒रा । वज्रः᳚ । न । सम्॑भृ᳚तः । स॑ब᳚लः । अन᳚प॑च्युतः ।
व॒व॒क्षे । ऋ॒ष्वः । अस्तृ᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गिरास्तुतिलक्षणया वाचा स्तोतृभिः संभृतः उत्पादितः तीक्ष्णीकृतः । तत्रदृष्टान्तः-वज्रोन वज्रायुधं यत्कर्तृभिर्निशितधारो यथाभवति तीक्ष्णीक्रि- यते तद्वत् स्तोतृभिः स्तुत्या संभृतः अतएव सबलः बलसहितः तस्मादनपच्युतः परैरप्रच्युतः अनभिगतइत्यर्थः तादृशः ऋष्वोमहान् दीप्यमानोवा अस्तृतः युद्धे शत्रुभिरहिंसितइन्द्रः ववक्षे स्तोतृभ्योधनादिकं वोढुमिच्छति ॥ ९ ॥

8.93.10
दु॒र्गे चि᳚न्नः सु॒गं कृ᳚धि गृणा॒न इ᳚न्द्र गिर्वणः ।
त्वं च᳚ मघव॒न्वशः᳚ ॥
▶ पदपाठः (Word-by-word)
दुः॒॑गे । चि॒त् । नः॒ । सु॒॑गम् । कृ॒धि॒ । गृ॒णा॒नः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
त्वम् । च॒ । म॒घ॒॑व॒न् । वशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणः गीर्भिर्वननीयेन्द्र गृणानः स्तोतृभिः स्तूयमानस्त्वं नोस्माकं दुर्गेचित् दुर्गमेपि मार्गे सुगं सुगमं पन्थानं कृधि तथाकुरु । हेमघवन् धनव- न्निन्द्र त्वं चशब्दश्चेदर्थे यदि वशः सोमपानार्थं तत्प्रदातॄनस्मान् कामयेथाः तदा पन्थानं शोभनगमनं कुरुष्व वष्टेर्लेट्यडागमः चशब्दयोगाद- निघातः ॥ १० ॥

8.93.11
यस्य᳚ ते॒ नू चि᳚दा॒दिशं॒ न मि॒नन्ति᳚ स्व॒राज्य᳚म् ।
न दे॒वो नाध्रि᳚गु॒र्जनः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । नु । चि॒त् । आ॒॑दिश᳚म् । न । मि॒नन्ति᳚ । स्व॒॑राज्य᳚म् ।
न । दे॒वः । न । अध्रि᳚॑गुः । जनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यस्य ते तव आदिशं आदिशति नयति सर्वत्र अनयेति आदिग्बलं औणादिकः करणेप्रत्ययः । यद्वा आदेशएवादिक् आज्ञा भावेक्विप् त्वदीया- माज्ञां नूचिदिदानीं पुराच नमिनन्ति केचिदपि न हिंसन्ति । किंच स्वराज्यं तव स्वभूतं राज्यंच यद्वा स्वशब्देन स्वर्गोभिधीयते स्वर्गस्वामित्वं च । नहिंसन्ति हिंसकानाह नदेवः त्वदन्योदेवोपिच तथाप्यध्निगुःअधृतगमनः संग्रामेत्वरमाणो वीरोपि नच जनः प्रादुर्भूतोमनुष्योपि एते नमिनन्ती- त्यर्थः ॥ ११ ॥

8.93.12
अधा᳚ ते॒ अप्र᳚तिष्कुतं दे॒वी शुष्मं᳚ सपर्यतः ।
उ॒भे सु᳚शिप्र॒ रोद᳚सी ॥
▶ पदपाठः (Word-by-word)
अध᳚ । ते॒ । अप्र᳚ति॑स्कुतम् । दे॒वी इति᳚ । शुष्म᳚म् । स॒प॒र्य॒तः॒ ।
उ॒भे इति᳚ । सु॒॑शि॒प्र॒ । रोद᳚सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

/ हे सुशिप्र सुहनो शोभनशिरस्त्राणेन्द्र अधापिच देवी देव्यै । स्वतेजसा दीप्यमाने उभेरोदसी द्यावापृथिव्यौ अप्रतिष्कुतं स्कुइति सौत्रोधातुः स्तंभनेवर्तते शत्रुभिरप्रतिरोधनीयं ते त्वदीयं शुष्मं परबलशोषकं बलं सपर्यतः पूजयतः त्वदधीनेएव भवतः ॥ १२ ॥

8.93.13
त्वमे॒तद᳚धारयः कृ॒ष्णासु॒ रोहि᳚णीषु च ।
परु᳚ष्णीषु॒ रुश॒त्पयः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । ए॒तत् । अ॒धा॒र॒यः॒ । कृ॒ष्णासु᳚ । रोहि᳚णीषु । च॒ ।
परु᳚ष्णीषु । रुश᳚त् । पयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य सामर्थ्यमेवोपपादयति हे इन्द्र कृष्णासु कृष्णवर्णासु गोषु तथा रोहिणीषु वर्णादनुदात्तात्तोपधात्तोनइतिङीप् रोहितवर्णासुच परुष्णीषु गोषु रुशत् रोचतेर्दीप्तिकर्मणः दीप्यमानं श्वेतं एतत्परिदृश्यमानं पयः क्षीरं त्वमधारयः धारयसि तस्मात् त्वद्बलं पूजयतइति समन्वयः ॥ १३ ॥

8.93.14
वि यदहे॒रध᳚ त्वि॒षो विश्वे᳚ दे॒वासो॒ अक्र᳚मुः ।
वि॒दन्मृ॒गस्य॒ ता{4} अमः᳚ ॥
▶ पदपाठः (Word-by-word)
वि । यत् । अहेः᳚े᳚ । अध᳚ । त्वि॒षः । विश्वे᳚ । दे॒वासः᳚ । अक्र᳚मुः ।
वि॒दत् । मृ॒गस्य᳚ । तान् । अमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापिच अहेः अहन्तव्यस्य वृत्रासुरस्य त्विषः तेजोरूपादुच्छ्वासाद्भीताः यद्वा तस्यप्रभावेन परिगमिता विश्वे सर्वे देवासो देवाः यद्यदा व्यक्रमुः विविधं पादविहरणमकुर्वन् स्वस्थानं परित्यज्यान्यंदेशमगच्छन्नित्यर्थः । तदानीं मृगस्य । एवंतान् भीषयितुं वृत्रो मृगरूपोभवत् तद्रूपस्य संबन्धि अमः सर्वतोगमनशीलं बलं तज्जातं भयंवा तान् सर्वान् देवान् विदत् अविन्दत् प्राप्नोदित्यर्थः । तस्यासुरस्येन्द्रो निवारको- हन्ता भवदित्युत्तरेण संबन्धः ॥ १४ ॥

8.93.15
आदु᳚ मे निव॒रो भु᳚वद्वृत्र॒हादि᳚ष्ट॒ पौंस्य᳚म् ।
अजा᳚तशत्रु॒रस्तृ᳚तः ॥
▶ पदपाठः (Word-by-word)
आत् । ऊं॒ इति᳚ । मे॒ । नि॒॑व॒रः । भु॒व॒त् । वृ॒त्र॒॑हा । अ॒दि॒ष्ट॒ । पौंस्य᳚म् ।
अजा᳚त॑शत्रुः । अस्तृ᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आत् उइत्यवधारणे देवानां भीत्या सर्वतोगमनानन्तरमेव मे स्तोतृस्तुत्यलक्षक्षणेन संबन्धेन मम संबन्धी अयमिन्द्रः निवरः वृत्रासुरस्य निवारयिता हन्ता भुवत् अभवत् । ततो वृत्रहा वृत्रस्य हन्तेन्द्रः पौंस्यं पुंसः कर्म पौंस्यम् । यद्वा बलनामैतत् स्वबलं अदिष्ट यस्य राज्ये दिशति निदधाति तद्राज्यं स्ववशमकरोत् इत्यर्थः । ततः प्रभृति इन्द्रः अजातशत्रुः अनुत्पन्नशत्रुः अस्तृतः संग्रामे परैरहिंसितश्चाभवत् ॥ १५ ॥

8.93.16
श्रु॒तं वो᳚ वृत्र॒हन्त᳚मं॒ प्र शर्धं᳚ चर्षणी॒नाम् ।
आ शु᳚षे॒ राध᳚से म॒हे ॥
▶ पदपाठः (Word-by-word)
श्रु॒तम् । वः॒ । वृ॒त्र॒हन्॑त᳚मम् । प्र । शर्ध᳚म् । च॒र्ष॒णी॒नाम् ।
आ । शु॒षे॒ । राध᳚से । म॒हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विग्यष्टारः श्रुतं बलवत्तया प्रसिद्धं अतएव वृत्रहन्तमं अतिशयेन वृत्रहन्तारं शर्धं बलभूतं वेगवन्तंवा एतादृशमिन्द्रं चर्षणीनां मनुष्याणां वोयुष्माकं आशुषे । अश्नोतेर्लेटि उत्तमइति सिप् व्यत्ययेन उप्रत्ययः बहुलंछन्दसीत्यडागमः । तमिन्द्रं स्तुतिभिः प्रीणयित्वा युष्मभ्यं प्रकर्षेण अश्नवै प्रयच्छामीत्यर्थः किमर्थं महे महते राधसे धनाय धनं युष्मभ्यं दातुम् ॥ १६ ॥

8.93.17
अ॒या धि॒या च᳚ गव्य॒या पुरु᳚णाम॒न्पुरु᳚ष्टुत ।
यत्सोमे᳚सोम॒ आभ᳚वः ॥
▶ पदपाठः (Word-by-word)
अ॒या । धि॒या । च॒ । ग॒व्य॒॑या । पुरु᳚॑नामन् । पुरु᳚॑स्तुत ।
यत् । सोमे᳚॑सोमे । आ । अभ᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुनामन् बहुविध शक्र वृत्रहादिनामोपेत । यद्वा बहुस्तुतिमन् नामयन्ति स्तुत्यं देवं वशं नयन्त्यनेनेति नाम स्तोत्रम् । अतएव पुरुष्टुत बहुभिर- भिष्टुतेन्द्र सोमेसोमे अस्मदीयेषु सोमेषु त्वं यद्यदा आभवः तेषां पानार्थं समन्तादभवः तदा वयमया अनया कीदृश्या गव्यया गाआत्मनइच्छन्त्या धिया अनया बुद्भ्या युक्ता भवेम सोमं पीतवति त्वयि वयं गवादियुक्ता भवेमेत्यर्थः ॥ १७ ॥

8.93.18
बो॒धिन्म᳚ना॒ इद᳚स्तु नो वृत्र॒हा भूर्या᳚सुतिः ।
शृ॒णोतु᳚ श॒क्र आ॒शिष᳚म् ॥
▶ पदपाठः (Word-by-word)
बो॒धित्॑म᳚नाः । इत् । अ॒स्तु॒ । नः॒ । वृ॒त्र॒॑हा । भूरि᳚॑आसुतिः ।
शृ॒णोतु᳚ । शु॒क्रः । आ॒॑शिष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ परोक्षकृतः वृत्रहा वृत्रहन्ता भूर्यासुतिः बहुषुदेशेषु इन्द्रार्थ सोमआसूयतेभिषूयतइति तादृशः । यद्वा बहूनि सोमादिहवींषि इन्द्रार्थं आसूयन्ते हूयन्तेइति तादृशः बोधिन्मनाः बुधअवगमने औणादिकइनिप्रत्ययः यस्य मनः स्तोतॄणामभिमतं बुध्यते जानातीति तथोक्तः इदवधारणे नोस्माकं यज्ञेभवत्विति । ततः शक्रः संग्रामे शत्रुहननसमर्थइन्द्रः आशिषं अस्मदीयां स्तुतिं आशासनं वा शृणोतु ॥ १८ ॥ ज्योतिष्टोमे चातुर्विंशिकेहनि माध्यन्दिने मैत्रावरुणस्य कयात्वंनऊत्येति तृचोनुरूपः सूत्रितंच-होत्रकाणां कयानश्चित्रआभुवत् कयात्वंन- ऊत्येति ।

8.93.19
कया॒ त्वं न᳚ ऊ॒त्याभि प्र म᳚न्दसे वृषन् ।
कया᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
कया᳚ । त्वम् । नः॒ । ऊ॒त्या । अ॒भि । प्र । म॒न्द॒से॒ । वृ॒ष॒न् ।
कया᳚ । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषन् कामानां वर्षितरिन्द्र कया केन ऊत्या अव रक्षणादिषु गत्यर्थे ऊतियूतीत्यादिना निपातितः केनाभिगमनेन नोस्मानभि अभितः प्रसन्दसे प्रकर्षेण मादयति अस्मदीयं यज्ञं प्रति सोमपानार्थमागमनेनवा त्वदीयस्तुतिश्रवणार्थमागमनेनवा कदास्मान् प्रमादयसीति । किंच कया केनाभिगमनेन स्तोतृभ्योस्मभ्यं धनमाभर आबिभर्षि इतीन्द्रं स्तोता पृच्छति ॥ १९ ॥

8.93.20
कस्य॒ वृषा᳚ सु॒ते सचा᳚ नि॒युत्वा᳚न्वृष॒भो र᳚णत् ।
वृ॒त्र॒हा सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
कस्य᳚ । वृषा᳚ । सु॒ते । सचा᳚ । नि॒युत्वा᳚न् । वृ॒ष॒भः । र॒ण॒त् ।
वृ॒त्र॒॑हा । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा इन्द्रः कस्य यजमानस्य सचा सुते ऋत्विग्भिः सहाभिषुते सोमे अनेन तद्वान्यज्ञोलक्ष्यते कस्य यज्ञे सोमपीतये सोमपानाय तदर्थं रणत् रमते । कीदृशः नियुत्वान् नितारं युवन्ति मिश्रयन्ति स्वबलेन शत्रूनिति नियुतः मरुतः तद्वान् । यद्वा नियुतइति वायोर्वाहनाश्वाः सवायुः कदाचित्संग्रामे इन्द्राय स्वाश्वानदात् तद्वान् वृषभः धनानामपां वा वर्षकः वृत्रहा वृत्रस्य इन्तेन्द्रः कस्य यज्ञे रमते इदानीं नोस्मदीयं यज्ञं प्रत्यागच्छतु । यद्वा कस्याध्वरे रमते नकत्रा पि । किंतु अस्मद्यज्ञे एव सोमपानार्थं संकीडते ॥ २० ॥

8.93.21
अ॒भी षु ण॒स्त्वं र॒यिं म᳚न्दसा॒नः स᳚ह॒स्रिण᳚म् ।
प्र॒य॒न्ता बो᳚धि दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । सु । नः॒ । त्वम् । र॒यिम् । म॒न्द॒सा॒नः । स॒ह॒स्रिण᳚म् ।
प्र॒॑य॒न्ता । बो॒धि॒ । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं मन्दसानः अस्माभिर्दत्तेन सोमेन मोदमानः सन् सहस्रिणं सहस्रसंख्याकं रयिं धनं नोस्मभ्यं सु सुष्ठु अभ्याभर । तदेवाह-त्वं दाशुषे हविर्दत्तवते यजमानाय प्रयन्ता धनादेः प्रदाता कर्मणोनियन्तावा भवानीति बोधि बुध्यस्व । बुधावगमने भौवादिकः लोटि छान्दसो विकरण- स्यलुक् हेर्धिः धित्वेधकारलोपश्छान्दसः ॥ २१ ॥

8.93.22
पत्नी᳚वन्तः सु॒ता इ॒म उ॒शन्तो᳚ यन्ति वी॒तये᳚ ।
अ॒पां जग्मि᳚र्निचुम्पु॒णः ॥
▶ पदपाठः (Word-by-word)
पत्नी᳚॑वन्तः । सु॒ताः । इ॒मे । उ॒शन्तः᳚ । य॒न्ति॒ । वी॒तये᳚ ।
अ॒पाम् । जग्मिः᳚ । नि॒॑चु॒म्पु॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पत्नीवन्तः सोमसेकार्थे पत्न्यः पालयित्र्यः आपोवसतीवर्य एकधनाश्च तद्वन्तः सुता अस्माभिरभिषुताः इमे गृहस्थाः चमसस्थाश्च सोमाः उशन्तः आत्मनः पानं कामयमानाः सन्तोयन्ति इन्द्रं गच्छन्ति । किमर्थं वीतये आत्मनः पानाय । किंच निचुंपुणः निचांतपृणइति यास्कः । चमुअदने निचांतोभक्षितः पृणः प्रीणयिता यद्वा निचमनेन प्रीणातीति भक्षणेन तर्पयतीति निचुंपुणः । अभिषुतस्य सोमस्य अप्सुप्रक्षेपासंभवात् सामर्थ्या- दृजीषरूपः सोमोगृह्यते । तादृशः सोमः अपांजग्मिः अपामितिनलोकाव्ययेतिषष्ठीप्रतिषेधाभावश्छान्दसः अपइत्यर्थः । यद्वा अपांमध्यं वा अपः- प्रतिवा जग्मिःगमनशीलः साधुगन्तावा सोमश्चेन्द्रं गच्छति सह्यवभृथकाले ऋजीषमप्सुप्रास्यन्तीति वचनादप्सु ऋजीषरूपः प्रक्षिप्यते । तदाह अपांजग्मिरिति ॥ २२ ॥

8.93.23
इ॒ष्टा होत्रा᳚ असृक्ष॒तेन्द्रं᳚ वृ॒धासो᳚ अध्व॒रे ।
अच्छा᳚वभृ॒थमोज᳚सा ॥
▶ पदपाठः (Word-by-word)
इ॒ष्टाः । होत्राः᳚ । अ॒सृ॒क्ष॒त॒ । इन्द्र᳚म् । वृ॒धासः᳚ । अ॒ध्व॒रे ।
अच्छ᳚ । अ॒व॒॑भृ॒थम् । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपांजग्मिरिति सामर्थ्यादवभृथदिनएवकुर्वन्तीत्युक्तं तत्प्रसंगादाह-अध्वरेस्मदीये यज्ञे वृधासो हविर्भिरिन्द्रं वर्धयन्तः इष्टा इष्टवन्तो यागं कृतवन्तः सप्तसंख्याका होत्राः होत्रका अवभृथमन्त्यदिवसं अच्छ प्रति ओजसा स्वतेजसा सहिता इन्द्रमसृक्षत विसृजन्ति । यावदवभृथं सप्तहोत्रका यजन्तीति ॥ २३ ॥

8.93.24
इ॒ह त्या स᳚ध॒माद्या॒ हरी॒ हिर᳚ण्यकेश्या ।
वो॒ळ्हाम॒भि प्रयो᳚ हि॒तम् ॥
▶ पदपाठः (Word-by-word)
इ॒ह । त्या । स॒ध॒॑माद्या᳚ । हरी॒ इति᳚ । हिर᳚ण्य॑केश्या ।
वो॒ळ्हाम् । अ॒भि । प्रयः᳚ । हि॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषाव्याख्याता । अत्रापि वाक्यार्थोविधीयते-सधमाद्या इन्द्रेणसह हविर्भिस्तर्पयितव्यौ यद्वा संग्रामे सहमाद्यन्तौ हिरण्यकेश्या हिरण्मयस्कन्धग- तकेशवन्तौ त्या तौ प्रसिद्धौ हरी हरितवर्णावेतन्नामकावश्वौ इहास्मिन्यज्ञे हितं हितकरं प्रयो हवीरूपमन्नं अभिलक्ष्य वोह्ळां इन्द्रं वहतां प्रापयतामिति ॥ २४ ॥

8.93.25
तुभ्यं॒ सोमा᳚ः सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि᳚भावसो ।
स्तो॒तृभ्य॒ इन्द्र॒मा व᳚ह ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । सोमाः᳚ । सु॒ताः । इ॒मे । स्ती॒र्णम् । ब॒र्हिः । वि॒भा॒व॒सो॒ इति᳚ विभा॑वसो ।
स्तो॒तृ॑भ्यः᳚ । इन्द्र᳚म् । आ । व॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विभावसो विशेषेण भासमान वसुमन् यद्वा विशिष्टाभा विभाः प्रकृष्टदीप्तयः निवसन्ति अत्रेति विभावसुरग्निः हे तादृशाग्ने तुभ्यं त्वदर्थं इमे सोमाः सुताः अभिषुताः तथा बर्हिः स्तीर्णं तस्मात्स्तोतृभ्योस्मभ्यं अस्मदर्थं इन्द्रं सोमपानार्थमावह आह्वय यज्ञं प्रति प्रापयेत्यर्थः ॥ २५ ॥

8.93.26
आ ते॒ दक्षं॒ वि रो᳚च॒ना दध॒द्रत्ना॒ वि दा॒शुषे᳚ ।
स्तो॒तृभ्य॒ इन्द्र᳚मर्चत ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । दक्ष᳚म् । वि । रो॒च॒ना । दध᳚त् । रत्ना᳚ । वि । दा॒शुषे᳚ ।
स्तो॒तृ॑भ्यः । इन्द्र᳚म् । अ॒र्च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिऋत्विग्यजमानान् प्रत्याह । हे यष्टः दाशुषे इन्द्राय हविर्दत्तवते ते तुभ्यं रोचना रोचनं दीप्यमानं दक्षं बलं आभिमुख्येन विदधत् इन्द्रोविद- धातु यद्वा रोचनमिति स्वर्गः देवतेजसा दीप्तं रोचननामानं लोकं विदधातु । तथा रत्ना रत्नानि च तुभ्यं करोतु । डुधाञ् धारणपोषणयोः । लेटि घोर्लोपोलेटिचेत्याकारलोपः अडागमः । हे स्तोतारः स्तोतृभ्यः इन्द्रविषयस्तोत्रकारिभ्योयुष्मभ्यंच बलरत्नादिकं इन्द्रः कुरुतां तस्मात्तमिन्द्रं यूयमर्चत हविर्भिः स्तुतिभिश्च पूजयत ॥ २६ ॥

8.93.27
आ ते᳚ दधामीन्द्रि॒यमु॒क्था विश्वा᳚ शतक्रतो ।
स्तो॒तृभ्य᳚ इन्द्र मृळय ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । द॒धा॒मि॒ । इ॒न्द्रि॒यम् । उ॒क्था । विश्वा᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
स्तो॒तृ॑भ्यः᳚ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो इन्द्र ते तव इन्द्रियं वीर्यवन्तं सोमं विश्वा उक्था सर्वाणि स्तोत्राणि आदधामि संपादयामि । हे इन्द्र त्वं स्तोतृभ्यः मृळय सुखय ॥ २७ ॥

8.93.28
भ॒द्रम्भ᳚द्रं न॒ आ भ॒रेष॒मूर्जं᳚ शतक्रतो ।
यदि᳚न्द्र मृ॒ळया᳚सि नः ॥
▶ पदपाठः (Word-by-word)
भ॒द्रम्॑भ᳚द्रम् । नः॒ । आ । भ॒र॒ । इष᳚म् । ऊर्ज᳚म् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
यत् । इ॒न्द्र॒ । मृ॒ळया᳚सि । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो शतविधकर्मन् शतप्रज्ञवा इन्द्र भद्रंभद्रं कल्याणतमं अथ सुखोत्पादकंवा धनं नोस्मभ्यमाभर आसंपादय देहि । तथा इषमन्नं ऊर्जमन्नरसं यद्वा बलवदन्नंच देहि नोस्मान् यद्यदि मृळयासि सुखयसि तर्हि तत् धनादिकं देहीति । मृळसुखने ण्यन्तस्य लेट्यडागमः ॥ २८ ॥

8.93.29
स नो॒ विश्वा॒न्या भ᳚र सुवि॒तानि᳚ शतक्रतो ।
यदि᳚न्द्र मृ॒ळया᳚सि नः ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । विश्वा᳚नि । आ । भ॒र॒ । सु॒वि॒तानि᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
यत् । इ॒न्द्र॒ । मृ॒ळया᳚सि । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो इन्द्र सपूर्वोक्तलक्षणस्त्वं विश्वानि सर्वाणि सुवितानि सुष्ठु ईयते प्राप्यते येष्विति सुवितानि मंगलानि सुपूर्वादेतेः क्तेप्रत्यये उवडादेशः सर्वानभ्युदयान्नोस्मभ्यमाभर आहर । हे इन्द्र यदिनोस्मान् सुखयसि तर्हि धनादिसहितानभ्युदयान्देहीति ॥ २९ ॥

8.93.30
त्वामिद्वृ᳚त्रहन्तम सु॒ताव᳚न्तो हवामहे ।
यदि᳚न्द्र मृ॒ळया᳚सि नः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । इत् । वृ॒त्र॒ह॒न्॑त॒म॒ । सु॒त॑व᳚न्तः । ह॒वा॒म॒हे॒ ।
यत् । इ॒न्द्र॒ । मृ॒ळया᳚सि । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्तम अतिशयेन वृत्रस्यापामावरकस्य हन्तरिन्द्र सुतवन्तोभिषुतसोमवन्तो वयं त्वामित् त्वामेव हवामहे अस्मद्यज्ञमागत्य सोमपानाया- ह्वयामः । हे इन्द्र नोस्मान्यदि सुखयसि तर्हि आह्वयामइति ॥ ३० ॥ व्यूह्ळेदशरात्रस्य षष्ठेहनि निष्केवल्ये उपनोहरिभिरिति वृचोनिविद्धानीयः । सूत्रितंच-अयंहयेनवाइदमुपनोहरिभिःसुतमिति ।

8.93.31
उप᳚ नो॒ हरि᳚भिः सु॒तं या॒हि म᳚दानां पते ।
उप᳚ नो॒ हरि᳚भिः सु॒तम् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । नः॒ । हरि᳚॑भिः । सु॒तम् । या॒हि । म॒दा॒ना॒म् । प॒ते॒ ।
उप᳚ । नः॒ । हरि᳚॑भिः । सु॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मदानांपते माद्यन्तेनेनेति मदाः सोमाः मदोनुपसर्गे इति करणे अप् प्रत्ययः सोमानां स्वामिन्निन्द्र हरिभिः । आशतेनहरिभिरित्यादिषु । बहूनामश्वानां श्रुतेरत्रापि शतसहस्रसंख्याकैरश्वैः सह नोस्माकं यज्ञे सुतमभिषुतं सोममुपयाहि तत्पानार्थं शीघ्रमायाहि पुनरुपनइत्यादरार्थः ॥ ३१ ॥

8.93.32
द्वि॒ता यो वृ᳚त्र॒हन्त᳚मो वि॒द इन्द्र᳚ः श॒तक्र᳚तुः ।
उप᳚ नो॒ हरि᳚भिः सु॒तम् ॥
▶ पदपाठः (Word-by-word)
द्वि॒ता । यः । वृ॒त्र॒हन्॑त᳚मः । वि॒दे । इन्द्रः᳚ । श॒त॑क्र᳚तुः ।
उप᳚ । नः॒ । हरि᳚॑भिः । सु॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहन्तमोतिशयेन वृत्रस्यहन्ता शतक्रतुः नानाविधकर्मा यइन्द्रः द्विता द्विधाविदे वृत्रवधादौ उग्रकर्मा जगद्रक्षणकाले शान्तकर्मेति द्विप्रकारेण सर्वैर्ज्ञायते । विदज्ञाने कर्मणिविहितस्य क्तप्रत्ययस्य लोपस्तआत्मनेपदेश्विति तलोपः सत्वं हरिभिः सह सुतं सोममुपयाहि ॥ ३२ ॥

8.93.33
त्वं हि वृ᳚त्रहन्नेषां पा॒ता सोमा᳚ना॒मसि᳚ ।
उप᳚ नो॒ हरि᳚भिः सु॒तम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । वृ॒त्र॒॑ह॒न् । ए॒षा॒म् । पा॒ता । सोमा᳚नाम् । असि᳚ ।
उप᳚ । नः॒ । हरि᳚॑भिः । सु॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन् वृत्रस्य पापस्यवा हन्तरिन्द्र हिशब्दोहेत्वर्थे यस्मात्त्वं एषामस्मदीयानां सोमानां पाता पानकर्तासि भवसि एषामिति इदमो- न्वादेशे अशादेशः अनुदात्तश्च । अतस्त्वमश्वैः सह सोमं पातुमुपयाहि आगच्छ ॥ ३३ ॥ व्यूढस्य दशरात्रस्य नवमेहनि वैश्वदेवे अभिप्लवतृचस्य इन्द्रइषेददातुनस्तेनोरत्नानि धत्तनेति द्वेऋचावार्भव्यौ । सूत्रितंच-इन्द्रइषेददातुनस्ते- नोरत्नानिधत्तनेत्येकाद्वेचेति ।

8.93.34
इन्द्र᳚ इ॒षे द᳚दातु न ऋभु॒क्षण᳚मृ॒भुं र॒यिम् ।
वा॒जी द᳚दातु वा॒जिन᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । इ॒षे । द॒दा॒तु॒ । नः॒ । ऋ॒भु॒क्षण᳚म् । ऋ॒भुम् । र॒यिम् ।
वा॒जी । द॒दा॒तु॒ । वा॒जिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रएव अस्माभिः स्तुतः इष्टःसन् ऋभुक्षणं वाषपूर्वस्येति दीर्घाभावः यागादिकर्मकरणेन महान्तं सर्वेषां भ्रातॄणां श्रेष्ठंवा अथवा तृतीयसवने प्रजापतिसवित्रोर्मध्ये सोमपात्रत्वान्महान्तं रयिं दातारं ऋभुं सोमपानेनामर्त्यत्वं प्राप्तं तादृशं एतन्नामकं देवं नोस्मभ्यमिषे अन्नार्थं ददातु प्रयच्छतु । तथा वाजी बलवानिन्द्रः वाजिनं बलवन्तं अन्नवन्तंवा वाजनामानं कनीयांसं भ्रातरंच अस्माकमन्नलाभाय ददातु ॥ ३४ ॥

दशमेनुवाके दशसूक्तानि तत्र गौर्धयतीति द्वादशर्चमाद्यं सूक्तं आंगिरसस्य बिंदुनाम्नः पूतदक्षनाम्नोवा आर्षं गायत्रं मरुद्देवताकम् । तथाचानुक्रम्यते-गौर्धयति द्वादशबिंदुः पूतदक्षोवा मारुतमिति सूक्तविनियोगोलैंगिकः । प्रातः सवने सोमातिरिक्तएकं शस्त्रमुपजायते तत्राद्यतृचोनुरूपः । सूत्रितंच –अस्तिसोमोअयंसुतो गौर्धयतिमरुतामिति स्तोत्रियानुरूपाविति ।