श्रवणम्

8.93.7
तमिन्द्रं᳚ वाजयामसि म॒हे वृ॒त्राय॒ हन्त᳚वे ।
स वृषा᳚ वृष॒भो भु᳚वत् ॥
▶ पदपाठः (Word-by-word)
तम् । इन्द्र᳚म् । वा॒ज॒या॒म॒सि॒ । म॒हे । वृ॒त्राय᳚ । हन्त᳚वे ।
सः । वृषा᳚ । वृ॒ष॒भः । भु॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानाआहुः तं पूर्वोक्तलक्षणमिन्द्रं वाजयामसि वाजयामः सोमेन स्तुतिभिर्वा वाजवन्तं बलवन्तं कुर्मः । किमर्थं महे महते वृत्राय अपामावरकं वृत्रासुरं हन्तवे हन्तुं सोमपानेन मत्तः स्तुतिभिर्वा स्तुतःसन् वृत्रहन्तवे वाजयामसि वाजवन्तं करोतीत्यर्थे तत्करोतीति णिच् णाविष्ठवदिति- णेरिष्ठवद्भावात् टेरिति टिलोपः विन्मतोर्लुगितिवचनान्मतुपोलुक् । वृषा धनानां सेक्ता दाता सइन्द्रः वृषभः अस्माकं स्तोतॄणां सोमस्यदातॄणां धनादिसेचको दाता भुवत् भवतु ॥ ७ ॥