अष्टमं मण्डलम् - सूक्तम् 100

12 ऋचः

ऋषिः: नेमो भार्गवः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 8.100 - सम्पूर्णम्

1 / 12
ऋक्: 8.100.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
8.100.1
अ॒यं त᳚ एमि त॒न्वा᳚ पु॒रस्ता॒द्विश्वे᳚ दे॒वा अ॒भि मा᳚ यन्ति प॒श्चात् ।
य॒दा मह्यं॒ दीध᳚रो भा॒गमि॒न्द्रादिन्मया᳚ कृणवो वी॒र्या᳚णि ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ते॒ । ए॒मि॒ । त॒न्वा᳚ । पु॒रस्ता᳚त् । विश्वे᳚ । दे॒वाः । अ॒भि । मा॒ । य॒न्ति॒ । प॒श्चात् ।
य॒दा । मह्य᳚म् । दीध᳚रः । भा॒गम् । इ॒न्द्र॒ । आत् । इत् । मया᳚ । कृ॒ण॒वः॒ । वी॒र्या᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव पुरस्तात् अग्रतः तन्वा पुत्रेणसह अयमहमेमि शत्रूनभिभवितुं गच्छामि । तवाग्रतोगच्छन्तं मां विश्वेदेवाः त्वया सह पश्चादभियन्ति अभिगच्छन्ति यदा त्वं मह्यं भार्गवाय नेमाय भागं शत्रुषु स्थितं भागं दीधरः धारयसि आदित् अनन्तरमेव मया सह मच्छत्रून् जेतुं वीर्याणि पौरुषाणि कृणवः कुरु । यदि शत्रुषु स्थितं धनं मह्यं दित्ससि तर्हि शत्रुजयार्थं गच्छतः सपुत्रस्य मम साहाय्यं कुर्वितिभावः ॥ १ ॥

8.100.2
दधा᳚मि ते॒ मधु᳚नो भ॒क्षमग्रे᳚ हि॒तस्ते᳚ भा॒गः सु॒तो अ᳚स्तु॒ सोमः᳚ ।
अस᳚श्च॒ त्वं द᳚क्षिण॒तः सखा॒ मे॑धा᳚ वृ॒त्राणि᳚ जङ्घनाव॒ भूरि᳚ ॥
▶ पदपाठः (Word-by-word)
दधा᳚मि । ते॒ । मधु᳚नः । भ॒क्षम् । अग्रे᳚ । हि॒तः । ते॒ । भा॒गः । सु॒तः । अ॒स्तु॒ । सोमः᳚ ।
असः᳚ । च॒ । त्वम् । द॒क्षि॒ण॒तः । सखा᳚ । मे॒ । अध᳚ । वृ॒त्राणि᳚ । ज॒ङ्घ॒ना॒व॒ । भूरि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तुभ्यं मधुनो मदकरस्य सोमस्य भक्षमग्रे प्रथमं दधामि धारयामि । सुतोभिषुतोभागो भजनीयः सोमस्ते तव हृदये हितोनिहितोस्तु भवतु । अपिच त्वं मे मम दक्षिणतो दक्षिणपार्श्वे सखासन् असः स्थितोभव । अध अथ भूरि बहूनि वृत्राण्यस्मदीयान् शत्रून् जंघनाव । त्वमहंचोभावावां हन्वः ॥ २ ॥

8.100.3
प्र सु स्तोमं᳚ भरत वाज॒यन्त॒ इन्द्रा᳚य स॒त्यं यदि᳚ स॒त्यमस्ति᳚ ।
नेन्द्रो᳚ अ॒स्तीति॒ नेम᳚ उ त्व आह॒ क ईं᳚ ददर्श॒ कम॒भि ष्ट᳚वाम ॥
▶ पदपाठः (Word-by-word)
प्र । सु । स्तोम᳚म् । भ॒र॒त॒ । वा॒ज॒॑यन्तः᳚ । इन्द्रा᳚य । स॒त्यम् । यदि᳚ । स॒त्यम् । अस्ति᳚ ।
न । इन्द्रः᳚ । अ॒स्ति॒ । इति᳚ । नेमः᳚ । ऊं॒ इति᳚ । त्वः॒ । आ॒ह॒ । कः । ई॒म् । द॒द॒र्श॒ । कम् । अ॒भि । स्त॒वा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जना वाजयन्तः संग्राममिच्छन्तोयूयम् । पौंस्ये वाजे इति संग्रामनामसु पाठात् । इन्द्राय सत्यं सत्यभूतं स्तोमं सु सुष्ठु प्रभरत इन्द्रोस्तीत्येतत् यदि सत्यमस्ति भवति । इन्द्रास्तिस्त्वे कः संदेहः तत्राह-नेमउ भार्गवोनेम एवेन्द्रोनाम त्वः कश्चिन्नास्तीत्याह । तत्र कारणं दर्शयतिकः ईमेनमिन्द्रं ददर्श अद्राक्षीत् नकोप्यपश्यत् अतः कं वयमभिष्टवाम अभिष्टुमः । तस्मादिन्द्रोनाम कश्चिद्विद्यते इतिवादमात्रं नतु तत्सत्यमित्यर्थः ॥ ३ ॥

8.100.4
अ॒यम᳚स्मि जरित॒ः पश्य᳚ मे॒ह विश्वा᳚ जा॒तान्य॒भ्य᳚स्मि म॒ह्ना ।
ऋ॒तस्य᳚ मा प्र॒दिशो᳚ वर्धयन्त्यादर्दि॒रो भुव᳚ना दर्दरीमि ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒स्मि॒ । ज॒रि॒त॒रिति᳚ । पश्य᳚ । मा॒ । इ॒ह । विश्वा᳚ । जा॒तानि᳚ । अ॒भि । अ॒स्मि॒ । म॒ह्ना ।
ऋ॒तस्य᳚ । मा॒ । प्र॒॑दिशः᳚ । व॒र्ध॒य॒न्ति॒ । आ॒॑द॒र्दि॒रः । भुव᳚ना । द॒र्द॒री॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवं नेमस्यऋषेर्वचनमाकर्ण्य इन्द्रस्तस्य समीपमाजगाम । आगत्य चात्मानमनेन द्वृचेन स्तौति-हे जरितः स्तोतः अयमहमस्मि इह तवसमीपे स्थितं मा मां पश्य । विश्वा सर्वाणि जातानि भुवनानि मह्ना महत्त्वेन अभ्यस्मि अहमभिभवामि । किंच मा मां ऋतस्य सत्यस्य यज्ञस्य वा प्रदिशः प्रदेष्टारोविद्वांसः स्तोत्रैर्वर्धयन्ति । अपिच आदर्दिरः आदरणशीलोहं भुवना भुवनानि शत्रुभूतानि दर्दरीमि भृशं विदारयामि ॥ ४ ॥

8.100.5 समानपद
आ यन्मा᳚ वे॒ना अरु᳚हन्नृ॒तस्य{4}॒ एक॒मासी᳚नं हर्य॒तस्य᳚ पृ॒ष्ठे ।
मन᳚श्चिन्मे हृ॒द आ प्रत्य᳚वोच॒दचि᳚क्रद॒ञ्छिशु᳚मन्त॒ः सखा᳚यः ॥
▶ पदपाठः (Word-by-word)
आ । यत् । मा॒ । वे॒नाः । अरु᳚हन् । ऋ॒तस्य᳚ । एक᳚म् । आसी᳚नम् । ह॒र्य॒तस्य᳚ । पृ॒ष्ठे ।
मनः᳚ । चि॒त् । मे॒ । हृ॒दे । आ । प्रति᳚ । अ॒वो॒च॒त् । अचि᳚क्रदन् । शिशु᳚॑मन्तः । सखा᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा ये ऋतस्य यज्ञस्य यज्ञं कर्मणिषष्ठी वेनाः कामयमानाः हर्यतस्य कान्तस्यान्तरिक्षस्य पृष्ठे आसीनं उपविष्टं एकं मा मां आ अरुहन् तेषां भवतां आरोहं मनश्चित् मनएव मम हृदे हृदयाम प्रत्यवोचत् अब्रतीत् । अज्ञाशिषंच तदाह्वानम् । शिशुमन्तः पुत्रयुक्ताः सखायः प्रियाअमी अचिक्रदन् मां क्रन्दन्तीति ॥ ५ ॥

8.100.6
विश्वेत्ता ते॒ सव᳚नेषु प्र॒वाच्या॒ या च॒कर्थ᳚ मघवन्निन्द्र सुन्व॒ते ।
पारा᳚वतं॒ यत्पु᳚रुसम्भृ॒तं वस्व॒पावृ᳚णोः शर॒भाय॒ ऋषि᳚बन्धवे ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । इत् । ता । ते॒ । सव᳚नेषु । प्र॒॑वाच्या᳚ । या । च॒कर्थ᳚ । म॒घ॒॑व॒न् । इ॒न्द्र॒ । सु॒न्व॒ते ।
पारा᳚वतम् । यत् । पु॒रु॒॑स॒म्भृ॒तम् । वसु᳚ । अ॒प॒॑अवृ᳚णोः । श॒र॒भाय᳚ । ऋषि᳚॑बन्धवे ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वसमीपमागतमिन्द्रं दृष्ट्वा सन्तुष्टऋषिरिन्द्रस्य विविधानि कर्माणि दानंच विश्वेत्तातइत्यनेन द्वृचेन स्तौति-हे मघवन्निन्द्र त्वं सवनेषु यज्ञेषु सुन्वते सोमाभिषवं कुर्वते यजमानाय या यानि कर्माणि चकर्थ अकरोः ते तव ता तानि कर्माणि प्रवाच्या प्रवक्तव्यानि विश्वेत् अनन्तान्येव । किंच त्वं पारावतं परावन्नामकस्य कस्यचिच्छत्रोः स्वभूतं यद्वृसु धनमस्ति तत् ऋषिबन्धवे शरभाय शरभनाम्ने ऋषये अपावृणोः अपवृ- तवानसि पुरुसंभृतं यथा बहुसंभृतं भवति ॥ ६ ॥

8.100.7
प्र नू॒नं धा᳚वता॒ पृथ॒ङ्नेह यो वो॒ अवा᳚वरीत् ।
नि षीं᳚ वृ॒त्रस्य॒ मर्म᳚णि॒ वज्र॒मिन्द्रो᳚ अपीपतत् ॥
▶ पदपाठः (Word-by-word)
प्र । नू॒नम् । धा॒व॒त॒ । पृथ᳚क् । न । इ॒ह । यः । वः॒ । अवा᳚वरीत् ।
नि । सी॒म् । वृ॒त्रस्य᳚ । मर्म᳚णि । वज्र᳚म् । इन्द्रः᳚ । अ॒पी॒प॒त॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः शत्रुर्नूनमिदानीं प्रधावत् प्रधावति पृथगिह पृथक् न तिष्ठति च वोयुष्मान्नावावरीत् न विवारयतिच तस्य वृत्रस्य शत्रोर्मर्मणि मर्मस्थाने इन्द्रोवज्रं कुलिशं न्यपीपतत् नितरां अपातयत् ॥ ७ ॥

8.100.8
मनो᳚जवा॒ अय᳚मान आय॒सीम᳚तर॒त्पुर᳚म् ।
दिवं᳚ सुप॒र्णो ग॒त्वाय॒ सोमं᳚ व॒ज्रिण॒ आभ᳚रत् ॥
▶ पदपाठः (Word-by-word)
मनः᳚॑जवाः । अय᳚मानः । आ॒य॒सीम् । अ॒त॒र॒त् । पुर᳚म् ।
दिव᳚म् । सु॒॑प॒र्णः । ग॒त्वाय᳚ । सोम᳚म् । व॒ज्रिणः᳚ । आ । अ॒भ॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुपर्णो गरुत्मान् मनोजवाः मनोवेगः अयमानोगच्छन् आयसीं हिरण्मयीं पुरं नगरीं अतरत् अतारीत् । ततोदिवं स्वर्गं गत्वाय गत्वा वज्रिणे इन्द्राय सोममाभरदाहरच्च ॥ ८ ॥

8.100.9
स॒मु॒द्रे अ॒न्तः श᳚यत उ॒द्ना वज्रो᳚ अ॒भीवृ᳚तः ।
भर᳚न्त्यस्मै सं॒यतः᳚ पु॒रःप्र᳚स्रवणा ब॒लिम् ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्रे । अ॒न्तरिति᳚ । श॒य॒ते॒ । उ॒द्ना । वज्रः᳚ । अ॒भि॑वृ᳚तः ।
भर᳚न्ति । अ॒स्मै॒ । स॒म्॑यतः᳚ । पु॒रः॑प्र᳚स्रवणाः । ब॒लिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योवज्रः समुद्रेअन्तः समुद्रस्यमध्ये शयते शेते यश्च उद्गा उदकेन अभिवृतः अस्मे वज्राय संयतः संग्रामस्य । मग्मन् संयतइति संग्रामनामसु पाठात् । पुरः प्रस्रवणाः पुरस्ताद्गच्छन्तः शत्रवो बलिं उपहारं भरन्ति धारयन्ति तस्य छेद्या भवन्तीत्यर्थः ॥ ९ ॥

8.100.10
यद्वाग्वद᳚न्त्यविचेत॒नानि॒ राष्ट्री᳚ दे॒वानां᳚ निष॒साद᳚ म॒न्द्रा ।
चत᳚स्र॒ ऊर्जं᳚ दुदुहे॒ पयां᳚सि॒ क्व᳚ स्विदस्याः पर॒मं ज᳚गाम ॥
▶ पदपाठः (Word-by-word)
यत् । वाक् । वद᳚न्ती । अ॒वि॒॑चे॒त॒नानि᳚ । राष्ट्री᳚ । दे॒वाना᳚म् । नि॒॑स॒साद᳚ । म॒न्द्रा ।
चत᳚स्रः । ऊर्ज᳚म् । दु॒दु॒हे॒ । पयां᳚सि । क्व᳚ । स्वि॒त् । अ॒स्याः॒ । प॒र॒मम् । ज॒गा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

राष्ट्री राजनशीला देवानां मन्द्रा मादयित्री वा यद्यदा वाक् अविचेतनानि विज्ञानरहितान् अप्रज्ञातान् अर्थान् वदन्ती प्रज्ञापयन्ती निषसाद यज्ञेनिषीदति तदा चतस्रोदिशः प्रति ऊर्जमन्नं पयांसि तत्कारणभूतान्युदकानि दुदुहे अस्यामाध्यमिकायावाचः स्वभूतं यत्परमं श्रेष्ठं तत् क्वस्वित् क्वजगाम क्वगच्छतीति तदृश्यतइत्यर्थः । तथाचयास्कः-यद्वाग्वदन्त्यविचेतनान्यविज्ञातानि राष्ट्रीदेवानां निषसाद मन्द्रा मदनाच्चत- स्रोनुदिशऊजे दुदुहे पयांसि क्वस्विदस्याः परमं जगामेति यत्पृथिवीं गच्छतीतिवा मदादित्यरश्मयो हरन्तीतिवेति ॥ १० ॥

8.100.11
दे॒वीं वाच᳚मजनयन्त दे॒वास्तां वि॒श्वरू᳚पाः प॒शवो᳚ वदन्ति ।
सा नो᳚ म॒न्द्रेष॒मूर्जं॒ दुहा᳚ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु᳚ ॥
▶ पदपाठः (Word-by-word)
दे॒वीम् । वाच᳚म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्व॑रू᳚पाः । प॒शवः᳚ । व॒द॒न्ति॒ ।
सा । नः॒ । म॒न्द्रा । इष᳚म् । ऊर्ज᳚म् । दुहा᳚ना । धे॒नुः । वाक् । अ॒स्मान् । उप᳚ । सु॑स्तु॒ता । आ । ए॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषा माध्यमिका सर्वप्राण्यन्तर्गता धर्माभिवादिनी भवतीति विभूतिमुपदर्शयति । यां देवीं द्योतमानां माध्यमिकां वाचं देवामाध्यमिका अजनयन्त जनयन्ति तां वाचं विश्वरीपाः सर्वरूपाः व्यक्तवाचः अव्यक्तवाचश्च परावोवदन्ति तत्पूर्वकत्वाद्वाक्प्रवृत्तेः । सा वाग्देवीमन्द्रा मदना स्तुत्या हर्षयित्री वा वृष्टिप्रदानेन नोस्मभ्यं इषमन्नं ऊर्जं पयोघृतादिरूपं रसं च दुहाना क्षरन्ती धेनुः धेनुभूता सुष्टुताऽस्माभिःस्तुताऽस्मान् नेमान् उपैतु उपगच्छतु वर्षणायोद्युक्ता भवत्वित्यर्थः । तथाचयास्कः-देवींवाचमजनयन्तदेवास्तांविश्वरूपाः पशवोवदन्ति व्यक्तवाचश्चाव्यक्तवाचश्च सानोमदनान्नंच रसंच दुहाना धेनुर्वागस्मानुपैतुसुष्टुतेति ॥ ११ ॥

8.100.12
सखे᳚ विष्णो वित॒रं वि क्र᳚मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा᳚य वि॒ष्कभे᳚ ।
हना᳚व वृ॒त्रं रि॒णचा᳚व॒ सिन्धू॒निन्द्र᳚स्य यन्तु प्रस॒वे विसृ᳚ष्टाः ॥
▶ पदपाठः (Word-by-word)
सखे᳚ । वि॒ष्णो॒ इति᳚ । वि॒॑त॒रम् । वि । क्र॒म॒स्व॒ । द्यौः । दे॒हि । लो॒कम् । वज्रा᳚य । वि॒॑स्कभे᳚ ।
हना᳚व । वृ॒त्रम् । रि॒णचा᳚व । सिन्धू᳚न् । इन्द्र᳚स्य । य॒न्तु॒ । प्र॒॑स॒वे । वि॑सृ᳚ष्टाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखे विष्णो त्वं वितरमत्यन्तं विक्रमस्व विक्रमं कुरु । हे द्यौः त्वं वज्राय वज्रस्य विष्कभे विष्कंभनाय लोकं अवकाशं देहि प्रयच्छ । हे विष्णो त्वं चाहं चोभावावां वृत्रमसुरं हनावः हन्वः । सिन्धून् वृत्रावष्टब्धाः नदीश्च रिणचाव नयावः तेमी विसृष्टाः सिन्धवइन्द्रस्य प्रसवे यन्तु प्रेरणे गच्छन्तु । तमिममर्थं अंगृह्य श्लोकैः शौनकोदर्शयति-त्रीनलोकानभिवृत्यैतान् वृत्रस्तस्थौस्वयात्विषा । तंनाशकद्धन्तुमिन्द्रो विष्णुमभ्येत्य सोब्रवीत् (१) वृत्रंहनिष्ये तिष्ठस्व विक्रम्याद्य ममान्तिके । उद्यतस्यतुवज्रस्य द्यौर्ददातुममान्तरं (२) तथेतिविष्णुस्तच्चक्रे द्यौश्चास्यविवरंददौ । तदेतदखिलंप्रोक्तं सखेविष्णोइतिह्यृचेति (३) ॥ १२ ॥

ऋधगिति षोडशर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते-ऋधक् षोळशजमदग्निर्भार्गवो मैत्रावरुणं प्रागाथं त्रित्रिष्टुबन्तं तृतीयादिगायत्री परासतोबृहती स्तोत्रंराजस्वृक् सपादादित्याश्विव्यौ वायव्ये सौर्यौ बृहत्युषस्या सूर्यप्रभास्तुतिर्वा पावमानी गव्येइति । भृगगोत्रोजमदग्निरृषिः । चतुर्दश्या- द्यास्तिस्रस्त्रिष्टुभः त्रयोदशीबृहती शिष्टानामयुजोबृहत्यः युजः सतोबृहत्यः तृतीयागायत्रीस्तोत्रंराजसुगायतेतिपादेनसहिता तेहिन्विरेइत्यादि- त्यदेवताका । आमेवचांसीतिद्वे अश्विनीदेवताके । आनोयज्ञंदिविपृशमितिद्वे वायुदेवत्ये । बण्महाँअसिसूर्येतिद्वे सूर्यदेवताके । इयंयानीत्येषा उषोदेवत्या । यद्वा सूर्यप्रभा अनयातूयते अतःसैवदेवता । प्रजाहतिस्रइत्येषापवमानदेवताका । मातारुत्राणामितिद्वे गोदेवत्ये शिष्टाः पंचर्चो- मैत्रावरुण्यः । सूक्तविनियोगोलैंगिकः । संग्रामार्थं राज्ञः संनहने प्रयोवांमित्रावरुणेतिद्वे राजानवाचयेत् । सूत्रितंच-अभीवर्तंवाचयति प्रयोवां- मित्रावरुणेतिचद्वेइति । पृष्ठ्यस्य पंचमेहनि प्रउगे वायव्यतृचस्य आनोयज्ञमित्यादिके द्वेऋचावाद्ये । सूत्रितंच-आनोयज्ञंदिविस्पृशमितिद्वे आनोवायोमहेतनइत्येकेति । आश्विनं शंसिष्यन् होता बण्महाँअसीति द्वाभ्यांअग्निंजुहुयात् । सूत्रितंच-बण्महाँअसिसूर्येति द्वाभ्यां इन्द्रंवोविश्व- तस्परीतिचेति । माध्यन्दिनसवने सोमातिरेके एकंशस्त्रमुपजायते तत्र बण्महाँअसीति प्रगाथः स्तोत्रियः । सूत्रितंच-बण्महाँअसिसूर्योदुत्यद्दर्शतं- वपुरिति प्रगाथौ स्तोत्रियानुरूपाविति । अयमेवप्रगाथश्चातुर्विशिकेहनि माध्यन्दिने ब्राह्मणाच्छंसिनो वैकल्पिकोनुरूपः । सूत्रितंच-श्रायन्तइव- सूर्यं बण्महाँअसिसूर्येति । मधुपर्केगामुत्सृज्य मातारुद्राणामिति जपेत् । सूत्रितंच-मातारुद्राणां दुहितवसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन्निति ।