अष्टमं मण्डलम् - सूक्तम् 72

18 ऋचः

ऋषिः: हर्यतः प्रागाथः देवता: अग्निर्हवींषि वा छन्दः: गायत्री

सूक्तम् 8.72 - सम्पूर्णम्

1 / 18
ऋक्: 8.72.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
8.72.1
ह॒विष्कृ᳚णुध्व॒मा ग᳚मदध्व॒र्युर्व᳚नते॒ पुनः᳚ ।
वि॒द्वा{4} अ᳚स्य प्र॒शास᳚नम् ॥
▶ पदपाठः (Word-by-word)
ह॒विः । कृ॒णु॒ध्व॒म् । आ । ग॒म॒त् । अ॒ध्व॒र्युः । व॒न॒ते॒ । पुन॒रिति᳚ ।
वि॒द्वान् । अ॒स्य॒ । प्र॒॑शास᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्युसंबन्धिनो हविष्कर्तारोयूयं हविः कृणुध्वं कुरुध्वं शीघ्रं यत आगमदाजगामायमग्निः अतः कृणुध्वं अध्वर्युः पुनर्वनते संभजते किं सामर्थ्या- दध्वरमितिगम्यते । कीदृशोध्वर्युः अस्य हविषः प्रशासनं प्रदानं विद्वान् ॥ १ ॥

8.72.2
नि ति॒ग्मम॒भ्यं१॒᳚शुं सीद॒द्धोता᳚ म॒नावधि᳚ ।
जु॒षा॒णो अ᳚स्य स॒ख्यम् ॥
▶ पदपाठः (Word-by-word)
नि । ति॒ग्मम् । अ॒भि । अं॒शुम् । सीद᳚त् । होता᳚ । म॒नौ । अधि᳚ ।
जु॒षा॒णः । अ॒स्य॒ । स॒ख्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होता ऋत्विक् तिग्मं तीक्ष्णमंशुं तमग्निं निषीदत् निषीदति । कीदृशोहोता अस्याग्नेः सख्यं मनौअधि यजमाने जुषाणः । अधीति सप्तम्यर्थानुवादी ॥ २ ॥

8.72.3
अ॒न्तरि᳚च्छन्ति॒ तं जने᳚ रु॒द्रं प॒रो म᳚नी॒षया᳚ ।
गृ॒भ्णन्ति᳚ जि॒ह्वया᳚ स॒सम् ॥
▶ पदपाठः (Word-by-word)
अ॒न्तः । इ॒च्छ॒न्ति॒ । तम् । जने᳚ । रु॒द्रम् । प॒रः । म॒नी॒षया᳚ ।
गृ॒भ्णन्ति᳚ । जि॒ह्वया᳚ । स॒सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं रुद्रं रुद्दुःखं तस्यद्रावयितारं अथवा रुत् स्तुतिः तया गन्तव्यं स्तुत्यमित्यर्थः तादृशमग्निं जने यजमानार्थं मनीषया स्वप्रज्ञानेन परः परस्तात्पुरो- देशे इच्छन्ति स्थापयितुं तएव पश्चात् अन्तः ससं स्वपन्तमग्निं जिह्वया जन्ये जनकशब्दः जिह्वा प्रभवया स्तुत्या गृभ्णन्ति गृह्णन्ति अंगुलीभिः । अत्रयास्कः-स्वपन्तमेतन्मध्यमं ज्योतिरनित्यदर्शनमिति ॥ ३ ॥

8.72.4
जा॒म्य᳚तीतपे॒ धनु᳚र्वयो॒धा अ᳚रुह॒द्वन᳚म् ।
दृ॒षदं᳚ जि॒ह्वयाव᳚धीत् ॥
▶ पदपाठः (Word-by-word)
जा॒मि । अ॒ती॒त॒पे॒ । धनुः᳚ । व॒यः॒॑धाः । अ॒रु॒ह॒त् । वन᳚म् ।
दृ॒षद᳚म् । जि॒ह्वया᳚ । आ । अ॒व॒धी॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयोधा अन्नस्यदाताग्निः मध्यमस्थानो जामि प्रवृद्धं सर्वमतिरिच्य वर्तमानम् । जाम्यतिरेकनामेतियास्कः । धनुर्धन्वान्तरिक्षं अतीतपे अतितपति । अथवा अग्नेर्जामि गमनशीलं धनुरतीतपते स्वविरोधिनम् । सच वयोधा अन्नस्यदाताग्निः वनमुदकंअरुहत् आरोहति विमोकाय । तदर्थं जिह्वया ज्वालया दृषदं मेघमवधीत् हन्ति । दावाग्निपक्षे वनं तरुसमूहं हन्ति जिह्वया दृषदं कठिनमपि पाषाणं भिनत्तीति ॥ ४ ॥

8.72.5
चर᳚न्व॒त्सो रुश᳚न्नि॒ह नि᳚दा॒तारं॒ न वि᳚न्दते ।
वेति॒ स्तोत᳚व अ॒म्ब्य᳚म् ॥
▶ पदपाठः (Word-by-word)
चर᳚न् । व॒त्सः । रुश᳚न् । इ॒ह । नि॒॑दा॒तार᳚म् । न । वि॒न्द॒ते॒ ।
वेति᳚ । स्तोत᳚व्र् । अ॒म्ब्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वत्सो वत्सवच्चापल्येन धावनाद्वत्स इत्युपचर्यते । अथवा वत्सइव सञ्चरन् इवशब्दोलुप्यते रुशन् श्वेतोभवन् इह अस्मिन् लोके निदातारं निरोधकं नविन्दते नलभते किन्तु स्तोतवेस्तोतुमंब्यं अन्यं स्तोतारं स्वयं वेति कामयते । अथवात्र वैद्युतोग्निरुच्यते वैद्युतोयं रुशन् चरंश्चेहान्तरिक्षे वत्सः सर्वदा वसन् वत्सस्थानीयोवा सन् निदातारं निरोधकं नविन्दते । किन्तु स्तोतुं अंब्यं माध्यमिकां वाचं वेति ॥ ५ ॥

8.72.6
उ॒तो न्व᳚स्य॒ यन्म॒हदश्वा᳚व॒द्योज᳚नं बृ॒हद् ।
दा॒मा रथ᳚स्य॒ ददृ᳚शे ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । नु । अ॒स्य॒ । यत् । म॒हत् । अश्व᳚॑वत् । योज᳚नम् । बृ॒हत् ।
दा॒मा । रथ᳚स्य । ददृ᳚शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो अपिच नु क्षिप्रं अद्य अस्यादित्यस्य यन्महत् माहात्म्ययुक्तं अश्वावत् संवृद्धाश्ववत् बृहत् महत् स्थूलं योजनं दृश्यते । तदेवाह-रथस्य दामाददृ- शे दृश्यते अन्तरिक्षे रथेश्वान्नियोजयतीत्यर्थः । तदा दुहन्तीत्युत्तरत्रसंबन्धः ॥ ६ ॥ अभिष्टवे घर्मदाहे दुहन्तिसप्तेत्येषा । सूत्रितञ्च-दुहन्तिसप्तैकां समिद्धोअग्निरश्विनेति । ग्रावस्तोत्रेप्येषा । सूत्रितञ्च-दुहन्तिसप्तैकामधुक्षत्पिप्युषी- मिषमिति ।

8.72.7
दु॒हन्ति᳚ स॒प्तैका॒मुप॒ द्वा पञ्च᳚ सृजतः ।
ती॒र्थे सिन्धो॒रधि᳚ स्व॒रे ॥
▶ पदपाठः (Word-by-word)
दु॒हन्ति᳚ । स॒प्त । एका᳚म् । उप᳚ । द्वा । पञ्च᳚ । सृ॒ज॒तः॒ ।
ती॒र्थे । सिन्धोः᳚ । अधि᳚ । स्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्तर्त्विज एकां घर्मं दुहन्ति तेषां मध्ये द्वौ द्वौ प्रतिप्रस्थातारौ अध्वर्यू पञ्चान्यानुपसृजतः । प्रयोजयतः । केते पञ्च तउच्यन्ते-यजमानं ब्रह्माणं होतारमाग्नीघ्रं प्रस्तोतारमिति । कुत्रेति उच्यते-सिन्धोः कस्याश्चित्सरस्वत्यादि प्रख्याताया नद्यास्तीर्थे यत्रायमृषिर्जयति तत्र स्वरे अधि । स्वरतिः शब्दकर्मा । अधीति सप्तम्यर्थानुवादी स्वरोपेतेशब्दवति । यत्तीर्थमृत्विजां ओश्रावयेत्यादिशब्दैः शब्दवद्भवति तस्मिन्नित्यर्थः ॥ ७ ॥ प्रवर्ग्येभिष्टवे ग्राव्णोभिष्टवे वा आदशभिरित्येषा । सूत्रितञ्च-आदशभिर्विवस्वतो दुहन्तिसप्तैकामिति ।

8.72.8
आ द॒शभि᳚र्वि॒वस्व᳚त॒ इन्द्र॒ः कोश᳚मचुच्यवीत् ।
खेद᳚या त्रि॒वृता᳚ दि॒वः ॥
▶ पदपाठः (Word-by-word)
आ । द॒श॑भिः᳚ । वि॒वस्व᳚तः । इन्द्रः᳚ । कोश᳚म् । अ॒चु॒च्य॒वी॒त् ।
खेद᳚या । त्रि॒॑वृता᳚ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विवस्वतः परिचरतो यजमानस्य दशभिरंगुलीभिर्याचितः सन्निन्द्रः कोशं मेघनामैतत् उदकसेचकं मेघं दिवोन्तरिक्षसम्बन्धिनं तत्सकाशाद्वा अचु- च्यवीद्मदारयदित्यर्थः । केनसाधनेनेति तदुच्यते त्रिवृता त्रिप्रकारवर्तनवता खेदया रश्मिना यद्वा अत्रेन्द्रशब्देनाग्निरादित्योवा गृत्द्यते खेदया त्रिवृ- तेति लिंगात् ॥ ८ ॥

8.72.9
परि᳚ त्रि॒धातु᳚रध्व॒रं जू॒र्णिरे᳚ति॒ नवी᳚यसी ।
मध्वा॒ होता᳚रो अञ्जते ॥
▶ पदपाठः (Word-by-word)
परि᳚ । त्रि॒॑धातुः᳚ । अ॒ध्व॒रम् । जू॒र्णिः । ए॒ति॒ । नवी᳚यसी ।
मध्वा᳚ । होता᳚रः । अ॒ञ्ज॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः त्रिधातुः लोहितशुक्लकृष्णभेदेन त्रिवर्णः जूर्णिर्जवो वेगवान् नवीयसी नवीयस्या ज्वालया अध्वरं प्रवर्ग्यं एति गच्छति होतारो होमनि- ष्पादका अध्वर्य्वादयो मध्वा आज्यादिना पर्यच्चते । अथवा अग्नेः त्रिप्रकारा क्षिप्रा नवतरा ज्वालापर्येति महावीरं तं मध्वांजतइति ॥ ९ ॥

8.72.10
सि॒ञ्चन्ति॒ नम᳚साव॒तमु॒च्चाच᳚क्रं॒ परि᳚ज्मानम् ।
नी॒चीन᳚बार॒मक्षि᳚तम् ॥
▶ पदपाठः (Word-by-word)
सि॒ञ्चन्ति᳚ । नम᳚सा । अ॒व॒तम् । उ॒च्चा॑च᳚क्रम् । परि᳚॑ज्मानम् ।
नी॒चीन᳚॑बारम् । अक्षि᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नमसा नमनेन अवतं महावीरं उच्चाचक्रं उपरिस्थितचक्रं परिज्मानं परिणत्याभं नीचीनबारं नीचीनद्वारं अक्षितमक्षीणं ईदृशं क्षीराद्यवशे- षयुक्तं आहवनीयस्योपरि नमनेन सिञ्चन्ति जुह्वति महावीरेणत्द्याहवनीये हूयते ॥ १० ॥

8.72.11
अ॒भ्यार॒मिदद्र᳚यो॒ निषि᳚क्तं॒ पुष्क᳚रे॒ मधु᳚ ।
अ॒व॒तस्य᳚ वि॒सर्ज᳚ने ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑आर᳚म् । इत् । अद्र᳚यः । नि॑सि᳚क्तम् । पुष्क᳚रे । मधु᳚ ।
अ॒व॒तस्य᳚ । वि॒॑सर्ज᳚ने ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्रयः आद्रियमाणा अध्वर्य्वादयः अभ्यारमित् अभिगम्यैव निषिक्तम् अतिरिक्तं मधु पुष्करेव पुष्करे प्रवृद्धउपयमनीपात्रे सिञ्चन्ति अग्निहोत्रा- र्थमवतस्य महावीरस्य विसर्जने विसर्जनसमये होमानन्तरं खलु महावीरमासन्ध्यमासादयन्ति ॥ ११ ॥

8.72.12
गाव॒ उपा᳚वताव॒तं म॒ही य॒ज्ञस्य᳚ र॒प्सुदा᳚ ।
उ॒भा कर्णा᳚ हिर॒ण्यया᳚ ॥
▶ पदपाठः (Word-by-word)
गावः᳚ । उप᳚ । अ॒व॒त॒ । अ॒व॒तम् । म॒ही इति᳚ । य॒ज्ञस्य᳚ । र॒प्सुदा᳚ ।
उ॒भा । कर्णा᳚ । हि॒र॒ण्यया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गावो घर्मदुघा यूयमवतं महावीरं प्रत्युपावतोपागच्छत । यस्माद्यज्ञस्य घर्मयागस्य साधनभूते रप्सुदा रप्सुदे आरिप्सोः फलप्रदे लिप्स्वोरश्वि- नोर्दातव्येवा । यद्वा रपणं शब्दनं रप् मंत्रः तेन सुष्टु दातव्ये । अथवा षूदक्षरणे रपा मन्त्रेण क्षारणीये दोहनीये ईदृशे गवाजयोः पयसी मही महती बहुले अपेक्षिते अतउपावतम् । गौरजाया अप्युपलक्षकः अजापयसोपि महावीरे सेचनीयत्वात् अपिचास्य महावीरस्य उभा उभौ कर्णाकर्णस्थानीयौ द्वौ रुक्मौ हिरण्यया हिरण्मयौ सुवर्णरजतमयावित्यर्थः ॥ १२ ॥ प्रवर्ग्ये अजापयसि महावीरे आनीयमाने आसुतइत्येषा सूत्रितञ्च-आसुतेसिञ्चतश्रियमित्याजइति ।

8.72.13
आ सु॒ते सि᳚ञ्चत॒ श्रियं॒ रोद᳚स्योरभि॒श्रिय᳚म् ।
र॒सा द᳚धीत वृष॒भम् ॥
▶ पदपाठः (Word-by-word)
आ । सु॒ते । सि॒ञ्च॒त॒ । श्रिय᳚म् । रोद᳚स्योः । अ॒भि॒॑श्रिय᳚म् ।
र॒सा । द॒धी॒त॒ । वृ॒ष॒भम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुते दुग्धे गोपयसि श्रियं श्रयणं आजं पयआसिञ्चत । सिञ्चतवा । हे अध्वर्यवः । कीदृशमाजं रोदस्योः कर्मणिषष्ठ्येषा द्यावापृथिव्यावभिश्रियं अभिश्रयन्तं अग्निसंयोगात्तावत्पर्यन्तं प्रवृद्धमित्यर्थः । अथवा तत्कावश्विनौ द्यावापृथिव्यावित्येकइतिनिरुक्तत्वादश्विनोरभिश्रियमित्यर्थः । सेचना- नन्तरं रसा रसे आजे पयसि वृषभं वर्षकमग्निं दधीत स्थापयत अजायाआग्नेयीत्वात् क्षीरस्याप्यग्निसंयोजनमुचितम् । आग्नेयीवाएषायदजेतिब्रा- ह्मणम् ॥ १३ ॥

8.72.14
ते जा᳚नत॒ स्वमो॒क्यं१॒᳚ सं व॒त्सासो॒ न मा॒तृभि᳚ः ।
मि॒थो न᳚सन्त जा॒मिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
ते । जा॒न॒त॒ । स्वम् । ओ॒क्य᳚म् । सम् । व॒त्सासः᳚ । न । मा॒तृ॑भिः᳚ ।
मि॒थः । न॒स॒न्त॒ । जा॒मि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते ता गावौ जानत ज्ञातवत्यः । अथवा सामान्याकारेण तइति पुंनिर्देशः । किं स्वं स्वकीयमोक्यं निवासं महावीरं तत्रदोग्धुमगमन्नित्यर्थः । तदेवाह-वत्सासो वत्सामातृभिर्न जननीभिः सह यथा संगच्छन्ति तद्वज्जामिभिर्बन्धुभिः सहितागावोमिथः प्रत्येकं संनसन्त संगच्छन्ते महावीरम् ॥ १४ ॥

8.72.15
उप॒ स्रक्वे᳚षु॒ बप्स᳚तः कृण्व॒ते ध॒रुणं᳚ दि॒वि ।
इन्द्रे᳚ अ॒ग्ना नम॒ः स्व᳚ः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । स्रक्वे᳚षु । बप्स᳚तः । कृ॒ण्व॒ते । ध॒रुण᳚म् । दि॒वि ।
इन्द्रे᳚ । अ॒ग्ना । नमः᳚ । स्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महावीरस्य स्रक्वेषु बप्सतो ज्वालया भक्षयतोग्नेरन्नं धरुणं इन्द्रेअग्नेति वक्ष्यमाणत्वादिन्द्राग्न्योर्धारकमाजं दिवि अन्तरिक्षे उपकृण्वते उपकुर्वते । यदाग्निर्महावीरं दहति तदा तस्योपर्युभयविधं क्षीरमासेचयन्तीत्यर्थः । एवं महावीरं आसिच्य इन्द्रे अग्ना अग्नौ च स्वः सर्वं गव्यमाजंच नमोन्नम् । अथवा स्वः अन्तरिक्षे योजयन्तीति शेषः ॥ १५ ॥ प्रवर्ग्ये घर्मदुहि दुग्धायामधुक्षदित्येषा । सूत्रितञ्च-दुग्धायामधुक्षत्पिप्युषीमिति । ग्रावस्तोत्रेप्येषा अधुक्षत्पिप्युषीमिषमाकलशेषुधावतीति- सूत्रितत्वात् ।

8.72.16
अधु᳚क्षत्पि॒प्युषी॒मिष॒मूर्जं᳚ स॒प्तप᳚दीम॒रिः ।
सूर्य᳚स्य स॒प्त र॒श्मिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
अधु᳚क्षत् । पि॒प्युषी᳚म् । इष᳚म् । ऊर्ज᳚म् । स॒प्त॑प᳚दीम् । अ॒रिः ।
सूर्य᳚स्य । स॒प्त । र॒श्मि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरिररणशीलोवायुः सूर्यस्य सप्तरश्मिभिः साधनैः पिप्युषीं आप्याययदिषमन्नं ऊर्जं रसं च । सप्तपदीं सर्पणस्वभावपादां माध्यमिकां वाचं धर्मधुग्रुपेणावस्थितां अधुक्षत् दुग्धवान् । यद्यप्यध्वर्युः पात्रेण गां दुग्धे तथाप्येवं भावनया सांगं भवति । माध्यमिकायावाचो मधुधुक्त्वम् । हिंक्रुण्वती गौरमीमेत्यादिषु प्रसिद्धम् ॥ १६ ॥

8.72.17
सोम᳚स्य मित्रावरु॒णोदि᳚ता॒ सूर॒ आ द᳚दे ।
तदातु᳚रस्य भेष॒जम् ॥
▶ पदपाठः (Word-by-word)
सोम᳚स्य । मि॒त्रा॒व॒रु॒णा॒ । उत्॑इ᳚ता । सूरे᳚ । आ । द॒दे॒ ।
तत् । आतु᳚रस्य । भे॒ष॒जम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणा मित्रावरुनौ सूर्ये उदिता उदिते सोमस्य सोममाददे स्वीकरोति । तत्र हेतुं आह-तत्स्वीकाररूपं कर्म आतुरस्यास्मदादेर्भेषजं औषधं हितकरमित्यर्थः ॥ १७ ॥

8.72.18
उ॒तो न्व᳚स्य॒ यत्प॒दं ह᳚र्य॒तस्य᳚ निधा॒न्य᳚म् ।
परि॒ द्यां जि॒ह्वया᳚तनत् ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । नु । अ॒स्य॒ । यत् । प॒दम् । ह॒र्य॒तस्य᳚ । नि॒॑धा॒न्य᳚म् ।
परि᳚ । द्याम् । जि॒ह्वया᳚ । अ॒त॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमाने सोमे उतो अपिच अस्य सोमदातुर्हर्यतस्य प्रदानं कामयमानस्य मम यत्पदं निधान्यं हविषां निधानार्हं उत्तरवेदिलक्षणं तत्र स्थित्वाग्नि- र्द्यांपरि परितो जिह्वया ज्वालया अतनत् व्याप्नोत् ॥ १८ ॥

उदीराथामित्यष्टादशर्चं चतुर्थं सूक्तं आत्रेयस्य गोपवनस्य सप्तवध्रेर्वार्षं गायत्रमाश्विनं तथाचानुक्रमणिका-उदीराथांगोपवनआत्रेयः सप्तवध्रि- र्वाश्विनमिति । प्रातरनुवाकेआश्विने क्रतौगायत्रेछन्दस्याश्विनशस्त्रे चेदंसूक्तम् उदीराथामामेहवमितिगायत्रमितिसूत्रितत्वात् ।