अष्टमं मण्डलम् - सूक्तम् 90

6 ऋचः

ऋषिः: नृमेधपुरुमेधौ देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.90 - सम्पूर्णम्

1 / 6
ऋक्: 8.90.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
8.90.1
आ नो॒ विश्वा᳚सु॒ हव्य॒ इन्द्र᳚ः स॒मत्सु᳚ भूषतु ।
उप॒ ब्रह्मा᳚णि॒ सव᳚नानि वृत्र॒हा प᳚रम॒ज्या ऋची᳚षमः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । विश्वा᳚सु । हव्यः᳚ । इन्द्रः᳚ । स॒मत्॑सु᳚ । भू॒ष॒तु॒ ।
उप᳚ । ब्रह्मा᳚णि । सव᳚नानि । वृ॒त्र॒॑हा । प॒र॒म॒॑ज्याः । ऋची᳚षमः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिरनयेन्द्र एवंकरोत्वित्याशास्ते । विश्वासु सर्वासु समत्सु असुरयुद्धेषु हव्यः सर्वैःदेवैरात्मरक्षणार्थमाह्वातव्यः एतादृशइन्द्रः नोस्माकं ब्रह्माणि हवीरूपाण्यन्नानि वा उपाभूषतु उदकं अनुभावयतु सेवतामित्यर्थः । यद्वा एतानि अलंकरोतु तदागमनेन स्तोत्राणि हवींषि वा अलंकृतानि भवन्ति । तथा सवनानि प्रातः सवनादीनि त्रीणिसवनानि च भूषतु । कीदृशइन्द्रः वृत्रहा वृत्रस्यासुरस्य पापस्यवा हन्ता । परमज्याः युद्धेषु शत्रुहननार्थं परमा अविनश्वरीज्या मौर्वी यस्य सतथोक्तः । यद्वा परमान् बलेन प्रकृष्टान् शत्रून् जिनाति हिनस्तीति परमज्याः । ऋचीषमः स्तुत्या समः स्तुतिभिरभिमुखीकरणीय एतादृगिन्द्रः स्तोत्राणि भूषत्विति ॥ १ ॥

8.90.2
त्वं दा॒ता प्र᳚थ॒मो राध᳚साम॒स्यसि᳚ स॒त्य ई᳚शान॒कृत् ।
तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ᳚णीमहे पु॒त्रस्य॒ शव᳚सो म॒हः ॥
▶ पदपाठः (Word-by-word)
त्वम् । दा॒ता । प्र॒थ॒मः । राध᳚साम् । अ॒सि॒ । असि᳚ । स॒त्यः । ई॒शा॒न॒॑कृत् ।
तु॒वि॒॑द्यु॒म्नस्य᳚ । युज्या᳚ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रस्य᳚ । शव᳚सः । म॒हः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र प्रथमः सर्वेषां मुख्यस्त्वं राधसां धनानां दातासि यद्वा धनदातॄणां मध्ये त्वं प्रथमआदिमोभवसि । तथा ईशानकृत् तवस्तोतॄनीशाना- नैश्वर्ययुक्तान् कुर्वन् त्वं सत्यः सत्यकर्मासि यथार्थकर्मा भवसीत्यर्थः । यस्मादेवं तस्माद्वयं तुविद्युम्नस्य बहुधनवतः बह्वन्नस्यवा शवसोबलस्य- पुत्रस्य शत्रुवधार्थं बलकारणत्वेनोत्पन्नत्वात् तत्पुत्रस्य अतएव महोमहतस्तव युज्या योग्यानि धनानि आवृणीमहे संभजामहे ॥ २ ॥

8.90.3
ब्रह्मा᳚ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन᳚तिद्भुता ।
इ॒मा जु᳚षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम᳚न्महि ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚ । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । क्रि॒यन्ते᳚ । अन᳚तिद्भुता ।
इ॒मा । जु॒ष॒स्व॒ । ह॒रि॒॑अ॒श्व॒ । योज᳚ना । इन्द्र᳚ । या । ते॒ । अम᳚न्महि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्बणो गीर्भिर्वननीयेन्द्र अनतिद्भुता सर्वानतिक्रम्य नभवन्ति इन्द्रगुणव्यापकानि यथार्थभूतनीत्यर्थः । तादृशानि यानि ब्रह्म ब्रह्माणि स्तोत्राणि ते त्वदर्थमस्माभिः क्रियन्ते हे हर्यश्व हरिताश्वन् हे इन्द्र योजना योजनानि तव सम्यक् योजनशीलानि ता तानीमा इमानि स्तोत्राणि जुषस्व सेवस्व । किंच हे इन्द्र ते त्वदथं या यानि स्तोत्राणि अमन्महि वयमुच्चरामः तानि सर्वाणि सेवस्व ॥ ३ ॥

8.90.4
त्वं हि स॒त्यो म᳚घव॒न्नना᳚नतो वृ॒त्रा भूरि᳚ न्यृ॒ञ्जसे᳚ ।
स त्वं श᳚विष्ठ वज्रहस्त दा॒शुषे॒॑र्वाञ्चं᳚ र॒यिमा कृ᳚धि ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । स॒त्यः । म॒घ॒॑व॒न् । अना᳚नतः । वृ॒त्रा । भूरि᳚ । नि॒॑ऋ॒ञ्जसे᳚ ।
सः । त्वम् । श॒वि॒ष्ठ॒ । व॒ज्र॒॑ह॒स्त॒ । दा॒शुषे᳚ । अ॒र्वाञ्च᳚म् । र॒यिम् । आ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् धनवन्निन्द्र सत्यः सत्यकर्मा त्वमेव अनानतः केषामत्पप्रह्वः सन् भूरि भूरीणि वृत्रा वृत्राणि रक्षांसि न्यृंजसे तानि प्रह्वीभावयसि न्यक्करोषीत्यर्थः । हिरवधारणे । हेशविष्ठ बलेनवृद्धतम हे वज्रहस्त वज्रोहस्ते यस्य सतथोक्तः । हे इन्द्र सतादृशस्त्वं दाशुषे तुभ्यं हविर्दत्त- वते यजमानाय रयिं धनादिकं अर्वांचं अर्वाचीनं अभिमुखं यथागच्छति तथा आकृधि समन्तात्कुरु ॥ ४ ॥ चातुर्विंशिकेहनिमाध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे त्वमिन्द्रयशाप्रगाथोवैकल्पिकोनुरूपः । सूत्र्यतेच-त्वमिन्द्रयशाअसीन्द्रक्रतुंनआभरेति ।

8.90.5
त्वमि᳚न्द्र य॒शा अ᳚स्यृजी॒षी श᳚वसस्पते ।
त्वं वृ॒त्राणि᳚ हंस्यप्र॒तीन्येक॒ इदनु᳚त्ता चर्षणी॒धृता᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । य॒शाः । अ॒सि॒ । ऋ॒जी॒षी । श॒व॒सः॒ । प॒ते॒ ।
त्वम् । वृ॒त्राणि᳚ । हं॒सि॒ । अ॒प्र॒तीनि᳚ । एकः᳚ । इत् । अनु᳚त्ता । च॒र्ष॒णि॒॑धृता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शवसस्पते बलस्य पालयितः हे इन्द्र ऋजीष्युपार्जितोभिषुतः सोमः तद्वान् त्वं यशाः यशस्व्यसि भवसि । कथमस्य यशस्वित्वं तदाह-अप्रतीनि बलिभिरप्यप्रतिगतानि अतएव अनुत्ता अन्यैर्नोतुमशक्यानि वृत्राणि रक्षांसि त्वमेकइत् असहायएव चर्षणिधृता असुरादिहननद्वारेण मनुष्याणां धारकेण वज्रेण हंसि संप्रहरसि । अतएवास्य यशस्वित्वम् ॥ ५ ॥

8.90.6
तमु᳚ त्वा नू॒नम᳚सुर॒ प्रचे᳚तसं॒ राधो᳚ भा॒गमि᳚वेमहे ।
म॒हीव॒ कृत्ति᳚ः शर॒णा त᳚ इन्द्र॒ प्र ते᳚ सु॒म्ना नो᳚ अश्नवन् ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । त्वा॒ । नू॒नम् । अ॒सु॒र॒ । प्र॑चे᳚तसम् । राधः᳚ । भा॒गम्॑इ᳚व । ई॒म॒हे॒ ।
म॒ही॑इ᳚व । कृत्तिः᳚ । श॒र॒णा । ते॒ । इ॒न्द्र॒ । प्र । ते॒ । सु॒म्ना । नः॒ । अ॒श्न॒व॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे असुर बलवन् प्राणवन् हे इन्द्र यउक्तगुणोस्ति तं प्रचेतसं प्रकृष्टज्ञानं त्वाउ इत्यवधारणे पितृवत्पोषकं त्वामेव राधः धर्मादिसाधनं धनं नूनमिदा- नीमीमहे वयं याचामहे । तत्रदृष्टान्तः-भागमिव यथा कश्चित्पितृभागभूतं धनं याचते तद्वत् इन्द्रोयजमानेभ्यः स्तोतृभ्यश्च धनं प्रयच्छत्येव तस्मा- द्भागभुतं धनं यष्टारोवयं याचामहे । हे इन्द्र महीवकृत्तिः कृत्तिर्यशोवान्नं वा । कृतीछेदने करणेक्तिन् कृन्तत्यनेनेति ईदृशी कृत्तिरिव ते तव शरणा शरणं गृहमन्तरिक्षे द्युलोके मही महद्वर्तते । अत्रयास्कः-कृन्तनेर्यशोवान्नंवा महीवकृत्तिःशरणातइन्द्र सुमहत्तइन्द्र शरणमन्तरिक्षे कृत्तिरिवे ति । किंच ते तव स्वभूतानि सुम्ना सुम्नानि पुत्रादिविषयसुखानिच नोस्मान्प्राश्नवत् प्रकर्षेणाश्नुवतां व्याप्नुवन्तु । अश्नोतेर्लेट्यडागमः ॥ ६ ॥

कन्यावारिति सप्तर्चमेकादशंसूक्तं अत्रेः पुत्री अपालाख्या त्वग्दोषपरिहारायानेन सूक्तेनेन्द्रंस्तुतवती अतःसैवऋषिः प्रथमाद्वितीयेपंक्ती शिष्टाः पंचानुष्टुभः इन्द्रोदेवता । तथाचानुक्रान्तं-कन्यावाः सप्तात्रेय्यपालेतिहासऎन्द्रआनुष्टुभं द्विपंक्तयादीति । विनियोगोलैंगिकः । अत्रेतिहासमाचक्षते- पुराकिलात्रिसुता अपालाब्रह्मवादिनी केनचित्कारणेन त्वग्दोषदुष्टासती अतएवदुर्भगेति भर्त्रापरित्यक्ता पितुराश्रमे त्वग्दोषपरिहाराय चिरकाल- मिन्द्रमधिकृत्य तपस्तेपे । साकदाचिदिन्द्रस्य सोमःप्रियकरोभवति तमिन्द्राय दास्यमीतिबुध्या नदीतीरंप्रत्यागमत् । सा तत्रस्नात्वा पथि सोम- मप्यलभत तमादाय गृहंप्रत्यागच्छन्ती मार्गएव तं चखाद तद्भक्षणकाले दंतघर्षणजातंशब्दं ग्राव्णां सोमाभिषवध्वनिमिति मत्वा तदानीमेवेन्द्रः समागमत् आगत्य तामुवाच किमत्रग्रावाणोभिषुण्वन्तीति । साप्रत्यूचे अत्रिकन्यास्नानार्थमागत्य सोमंदृष्ट्वा तंभक्षयति तद्भक्षणजोध्वनिरेव नतु ग्राव्णांसोमाभिषवध्वनिरिति । तथा प्रत्युक्तइन्द्रः पराङावर्तत गच्छन्तमिन्द्रं सापुनरब्रवीत् । किमर्थं निवर्तसे त्वंतु सोमपानाय गृहंगृहंप्रति गच्छसि तदानीमत्रापि ममदंष्ट्राभ्यां अभिषुतं सोमंपिब धानादींश्च भक्षयेति । सैवमिन्द्रमनाद्रियमाणासती पुनरप्याह-अत्रागतं त्वामिन्द्रं इति नजानामि त्वयि गृहं आगते बहुमानं करिष्यामीतीन्द्रमुत्त्का अत्रसमागतः इन्द्रएव नान्यइतिनिश्चित्य स्वास्येनिहितं सोममाह-हे सोम त्वमाग- तायेन्द्राय पूर्वं शनैः ततः शनकैः क्षिप्रं परिस्रवेति । ततइन्द्रस्तां कामयित्वा तस्या आस्यएव दंष्ट्राभिषुतं सोममपात् ततइन्द्रेण सोमेपीतेसति त्वग्दोषादहं भर्त्रा परित्यक्तासती इदानीमिन्द्रेण संगता इति अपालायामुक्तायामिन्द्रस्तांव्याजहार । किंकामयसे तदहंकरिष्यामीत्युक्ते सा वर- मचीकमत । ममपितुः शिरोरोमवर्जितं तस्योषरं क्षेत्रं फलादिरहितं ममगुह्यस्थानमप्यरोमशं एतानि रोमफलादियुक्तं कुर्वित्युक्तायां तत्पितृ- शिरःस्थितां खलतिमपहाय क्षेत्रंच फलादियुक्तंकृत्वा एतस्यास्त्वग्दोषपरिहाराय स्वकीयरथच्छिद्रे शकटस्य युगस्यच छिद्रे एतां त्रिवारं निश्चकर्ष । तस्याः पूर्वाभिहतायाः त्वक् शल्यको द्वितीया गोधा तृतीया कृकलासोभूत् । ततइन्द्रस्तामप्यपालां सूर्यसदृशत्वचमकरोदित्यैतिहासिकीकथा । एतच्च शाट्यायनब्राह्मणेस्पष्टयुक्तं-तद्ब्राह्मणं तत्तदृग्व्याख्यानसमये दर्शयिष्ये । एषोर्थः कन्यावारित्यादिषु ऋक्षु प्रतिपाद्यते ।