श्रवणम्

8.90.3
ब्रह्मा᳚ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन᳚तिद्भुता ।
इ॒मा जु᳚षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम᳚न्महि ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚ । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । क्रि॒यन्ते᳚ । अन᳚तिद्भुता ।
इ॒मा । जु॒ष॒स्व॒ । ह॒रि॒॑अ॒श्व॒ । योज᳚ना । इन्द्र᳚ । या । ते॒ । अम᳚न्महि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्बणो गीर्भिर्वननीयेन्द्र अनतिद्भुता सर्वानतिक्रम्य नभवन्ति इन्द्रगुणव्यापकानि यथार्थभूतनीत्यर्थः । तादृशानि यानि ब्रह्म ब्रह्माणि स्तोत्राणि ते त्वदर्थमस्माभिः क्रियन्ते हे हर्यश्व हरिताश्वन् हे इन्द्र योजना योजनानि तव सम्यक् योजनशीलानि ता तानीमा इमानि स्तोत्राणि जुषस्व सेवस्व । किंच हे इन्द्र ते त्वदथं या यानि स्तोत्राणि अमन्महि वयमुच्चरामः तानि सर्वाणि सेवस्व ॥ ३ ॥