श्रवणम्

8.90.2
त्वं दा॒ता प्र᳚थ॒मो राध᳚साम॒स्यसि᳚ स॒त्य ई᳚शान॒कृत् ।
तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ᳚णीमहे पु॒त्रस्य॒ शव᳚सो म॒हः ॥
▶ पदपाठः (Word-by-word)
त्वम् । दा॒ता । प्र॒थ॒मः । राध᳚साम् । अ॒सि॒ । असि᳚ । स॒त्यः । ई॒शा॒न॒॑कृत् ।
तु॒वि॒॑द्यु॒म्नस्य᳚ । युज्या᳚ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रस्य᳚ । शव᳚सः । म॒हः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र प्रथमः सर्वेषां मुख्यस्त्वं राधसां धनानां दातासि यद्वा धनदातॄणां मध्ये त्वं प्रथमआदिमोभवसि । तथा ईशानकृत् तवस्तोतॄनीशाना- नैश्वर्ययुक्तान् कुर्वन् त्वं सत्यः सत्यकर्मासि यथार्थकर्मा भवसीत्यर्थः । यस्मादेवं तस्माद्वयं तुविद्युम्नस्य बहुधनवतः बह्वन्नस्यवा शवसोबलस्य- पुत्रस्य शत्रुवधार्थं बलकारणत्वेनोत्पन्नत्वात् तत्पुत्रस्य अतएव महोमहतस्तव युज्या योग्यानि धनानि आवृणीमहे संभजामहे ॥ २ ॥