आ नो॒ विश्वा᳚सु॒ हव्य॒ इन्द्र᳚ः स॒मत्सु᳚ भूषतु ।
उप॒ ब्रह्मा᳚णि॒ सव᳚नानि वृत्र॒हा प᳚रम॒ज्या ऋची᳚षमः ॥
उप॒ ब्रह्मा᳚णि॒ सव᳚नानि वृत्र॒हा प᳚रम॒ज्या ऋची᳚षमः ॥
पदपाठः (Word-by-word)
आ । नः॒ । विश्वा᳚सु । हव्यः᳚ । इन्द्रः᳚ । स॒मत्॑सु᳚ । भू॒ष॒तु॒ ।
उप᳚ । ब्रह्मा᳚णि । सव᳚नानि । वृ॒त्र॒॑हा । प॒र॒म॒॑ज्याः । ऋची᳚षमः ॥
उप᳚ । ब्रह्मा᳚णि । सव᳚नानि । वृ॒त्र॒॑हा । प॒र॒म॒॑ज्याः । ऋची᳚षमः ॥
सायणभाष्यम् (Sayana Commentary)
ऋषिरनयेन्द्र एवंकरोत्वित्याशास्ते । विश्वासु सर्वासु समत्सु असुरयुद्धेषु हव्यः सर्वैःदेवैरात्मरक्षणार्थमाह्वातव्यः एतादृशइन्द्रः नोस्माकं ब्रह्माणि हवीरूपाण्यन्नानि वा उपाभूषतु उदकं अनुभावयतु सेवतामित्यर्थः । यद्वा एतानि अलंकरोतु तदागमनेन स्तोत्राणि हवींषि वा अलंकृतानि भवन्ति । तथा सवनानि प्रातः सवनादीनि त्रीणिसवनानि च भूषतु । कीदृशइन्द्रः वृत्रहा वृत्रस्यासुरस्य पापस्यवा हन्ता । परमज्याः युद्धेषु शत्रुहननार्थं परमा अविनश्वरीज्या मौर्वी यस्य सतथोक्तः । यद्वा परमान् बलेन प्रकृष्टान् शत्रून् जिनाति हिनस्तीति परमज्याः । ऋचीषमः स्तुत्या समः स्तुतिभिरभिमुखीकरणीय एतादृगिन्द्रः स्तोत्राणि भूषत्विति ॥ १ ॥