अष्टमं मण्डलम् - सूक्तम् 31

18 ऋचः

ऋषिः: मनुर्वैवस्वतः देवता: ईज्यास्तवो यजमानप्रशंसा च छन्दः: गायत्री

सूक्तम् 8.31 - सम्पूर्णम्

1 / 18
ऋक्: 8.31.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
8.31.1
यो यजा᳚ति॒ यजा᳚त॒ इत्सु॒नव᳚च्च॒ पचा᳚ति च ।
ब्र॒ह्मेदिन्द्र᳚स्य चाकनत् ॥
▶ पदपाठः (Word-by-word)
यः । यजा᳚ति । यजा᳚ते । इत् । सु॒नव᳚त् । च॒ । पचा᳚ति । च॒ ।
ब्र॒ह्मा । इत् । इन्द्र᳚स्य । चा॒क॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानः सकृद्यजाति यागंकरोति हविर्भिर्देवान्पूजयति सदेवेभ्योलब्धधनादिकःसन् यजातइत् पुनरभीष्टप्राप्तये देवेभ्योहवींषिप्रयच्छत्येव । तथा सएव यजमानःसुनवच्च सोमाभिषवं करोतिच सएव पचातिच पशुपुरोडाशादिकं पचतिच सर्वत्र यजादिषु लेट्यडागमः सयजमानः इन्द्रस्य ब्रह्मा ब्रह्माणि इदवधारणे इन्द्रसम्बन्धीनिस्तोत्राण्येव चाकनत् पुनःपुनः कामयते कनतेः कान्त्यर्थाद्यङ्लुकि अभ्यासत्वं छान्दसम् ततोलेट्यडागमः । अ- त्रयागे यजमानोधनादिलभतइति यज्ञप्रशंसा सएवदृष्टफलः सन् सोमाभिषवादीन्करोतीति यजमानप्रशंसा ॥ १ ॥

8.31.2
पु॒रो॒ळाशं॒ यो अ᳚स्मै॒ सोमं॒ रर᳚त आ॒शिर᳚म् ।
पादित्तं श॒क्रो अंह᳚सः ॥
▶ पदपाठः (Word-by-word)
पु॒रो॒ळाश᳚म् । यः । अ॒स्मै॒ । सोम᳚म् । रर᳚ते । आ॒॑शिर᳚म् ।
पात् । इत् । तम् । श॒क्रः । अंह᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानः अस्मै इन्द्राय पशुपुरोळाशं तथा आशिरं तृतीयसवने गॊक्षीरेणमिश्रितं सोममस्मै ररते प्रयच्छति रातेर्लटि शपः श्लुः अडागमः । शक्रः समर्थः सइन्द्रः तं यष्टारं अंहसः पापात् तद्रूपाद्रक्षसोवा पात् इदवधारणे अपादेव रक्षत्येव पातेर्लुङिरूपम् ॥ २ ॥

8.31.3
तस्य᳚ द्यु॒मा{4} अ᳚स॒द्रथो᳚ दे॒वजू᳚त॒ः स शू᳚शुवत् ।
विश्वा᳚ व॒न्वन्न᳚मि॒त्रिया᳚ ॥
▶ पदपाठः (Word-by-word)
तस्य᳚ । द्यु॒॑मान् । अ॒स॒त् । रथः᳚ । दे॒व॑जू᳚तः । सः । शू॒शु॒व॒त् ।
विश्वा᳚ । व॒न्वन् । अ॒मि॒त्रिया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्य देवान्पूजयतोयजमानस्य देवजूतः देवैरिन्द्रादिभिः प्रेरितोद्युमान् दीप्तिमान् रथः स्यन्दनः देवानां हविःप्रदानरूपेण यज्ञेन असत् भवत्यागच्छ- ति । ततस्तेन रथेनामित्रिया अमित्रियान् शत्रुभिःकृतान्विश्वा सर्वान्बाधान् वन्वन् वनोतिर्हिंसाकर्मेतियास्कः हिंसन् सएवशूशुवत् पुत्रादिभिर्धनैश्च- वर्धते अत्र येन मे रथः बाधाभावश्चाभूदिति यागप्रशंसा । येन सम्यगिष्टदेवाः रथं दत्तवन्तइति यजमानप्रशंसा ॥ ३ ॥

8.31.4
अस्य᳚ प्र॒जाव᳚ती गृ॒हे॑स᳚श्चन्ती दि॒वेदि᳚वे ।
इळा᳚ धेनु॒मती᳚ दुहे ॥
▶ पदपाठः (Word-by-word)
अस्य᳚ । प्र॒जा॑व᳚ती । गृ॒हे । अस᳚श्चन्ती । दि॒वे॑दि᳚वे ।
इळा᳚ । धे॒नु॒॑मती᳚ । दु॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रजावती पुत्रादियुक्तं असश्चन्ती सश्चतिर्गतिकर्मा अगमनशीलं तादृशं धेनुमती धेनुः पयसा सर्वान् धिनोति प्रीणयतीतिधेनुर्गौः तत्सहितं इळान्नं अस्य यष्टुर्गृहे दिवेदिवे अहरहः दुहे देवैर्दुत्द्यते । यद्वा इळेति गवां देवता सा स्थिरा धेनुमती गवांपतित्वाद्धेनुभिर्धेनुमती इळा गोदेवता देवैः प्रेरि- तासती अस्य यजमानस्य गृहे दोग्धा पुत्रादिकमस्मै ददातीत्यर्थः दुहेर्लटिलोपस्तआत्मनेपदेष्वितितलोपः अत्रेज्यास्तवः ॥ ४ ॥

8.31.5
या दम्प᳚ती॒ सम᳚नसा सुनु॒त आ च॒ धाव᳚तः ।
देवा᳚सो॒ नित्य᳚या॒शिरा᳚ ॥
▶ पदपाठः (Word-by-word)
या । दम्प᳚ती॒ इति॒ दम्॑प᳚ती । स॑म᳚नसा । सु॒नु॒तः । आ । च॒ । धाव᳚तः ।
देवा᳚सः । नित्य᳚या । आ॒॑शिरा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र यजने दंपत्योः स्तुतिः हे देवासोदेवाः समनसा समनसौ कर्मणि समानमनस्कौ या यौ दम्पती यज्ञकारिणौ जायापती सुनुतः सोमाभिषवं कुरु- तः यौ दम्पती ततस्तमभिषुतं सोमं आधावतश्च दशापवित्रेण शोधयतः धावुगतिशुद्ध्योः तथा नित्यया यत्रतृतीयसवने सोमोस्ति तत्र आश्रयणद्र- व्यं गोक्षीरमस्त्येव तस्मान्नित्यसंबंधेन आशिरा आश्रयणेन गोक्षीरेण संयुतं सोमं यौ प्रयच्छतः तावन्नादीन् प्राप्नुतइति उत्तरत्रसम्बन्धः ॥ ५ ॥

8.31.6
प्रति᳚ प्राश॒व्या{4}᳚ इतः स॒म्यञ्चा᳚ ब॒र्हिरा᳚शाते ।
न ता वाजे᳚षु वायतः ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । प्रा॒श॒व्या᳚न् । इ॒तः॒ । स॒म्यञ्चा᳚ । ब॒र्हिः । आ॒शा॒ते॒ इति᳚ ।
न । ता । वाजे᳚षु । वा॒य॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ देवेभ्यो हविषां दातारौ दंपती प्राशव्यान् अशभोजने प्रपूर्वस्यास्य औणादिकोभावे उण् प्रत्ययः प्राशुर्भक्षणं तस्मै साधून् हितान्वा अन्नादी- न्प्रतीतः प्रतिगच्छतः यद्वा प्राशितव्यान् अत्रवर्णलोपः तावेव सम्यंचा सम्यंचौ समीचीनौ संगतौ बर्हिर्यज्ञं आशाते आनशाते । तत्र द्रव्यैर्व्याप्नुतः तस्मात्तौ यष्टारौ भार्यापती वाजेषु देवैर्दत्तेषु अन्नेषुन वायतःवयतिर्गत्यर्थः न गच्छतः सर्वदा अन्नसहितौ तिष्ठातामित्यर्थः ॥ ६ ॥

8.31.7
न दे॒वाना॒मपि᳚ ह्नुतः सुम॒तिं न जु᳚गुक्षतः ।
श्रवो᳚ बृ॒हद्वि᳚वासतः ॥
▶ पदपाठः (Word-by-word)
न । दे॒वाना᳚म् । अपि᳚ । ह्नु॒तः । सु॒॑म॒तिम् । न । जु॒घु॒क्ष॒तः॒ ।
श्रवः᳚ । बृ॒हत् । वि॒वा॒स॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतौ दम्पती देवानां इन्द्रादीनां न अपिह्नुतः अपलापं न कुरुतः अपह्नवोपलापः देवेभ्योहविः प्रदास्यामइति प्रतिज्ञाय पुनरदानमपलापनं ह्नुङ् अपनये । कथं नापलपन्तीत्यवसीयते तदाह सुमतिं युष्मदीयां शोभनां मतिं न जुगुक्षतः जुघुक्षतः न संवरीतुमिच्छतः संवारणमाच्छादनं न छादय- तइत्यर्थः किन्तु स्तुतिं कुरुतः । गुहूसंवरणे सनिग्रहगुहोश्चेतीट्प्रतिषेधः ढत्वषत्वभावौ संहिताकालेभष् भावोनास्ति छान्दसत्वात् । किञ्च बृहत् देवे- भ्योदीयमानत्वात् महत् श्रवः श्रवइत्यन्ननाम महदन्नं विवासतः युष्मभ्यं प्रयच्छतः विवासतिः परिचरणकर्मा दानमपिच परिचरणमेव । देवैर्दत्तम- न्नं घृतादिभिर्मिश्रीकृत्य पुनः पुनर्यजतइत्यर्थः ॥ ७ ॥

8.31.8
पु॒त्रिणा॒ ता कु᳚मा॒रिणा॒ विश्व॒मायु॒र्व्य᳚श्नुतः ।
उ॒भा हिर᳚ण्यपेशसा ॥
▶ पदपाठः (Word-by-word)
पु॒त्रिणा᳚ । ता । कु॒मा॒रिणा᳚ । विश्व᳚म् । आयुः᳚ । वि । अ॒श्नु॒तः॒ ।
उ॒भा । हिर᳚ण्य॑पेशसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुत्रिणा पुत्रवन्तौ तत्रापि कुमारिण षोडशवर्षदेशीयपुत्रवन्तौ हिरण्यपेशसा हिरण्मयैराभरणैरलंकृतरूपौ उभा उभौ ता तौ दंपती विश्वं सर्वमायु- रायुष्यं व्यश्नुतः व्याप्नुतः यज्ञेन तयोः पुत्रादिकं धनमायुश्च संभवतीत्यर्थः ॥ ८ ॥

8.31.9
वी॒तिहो᳚त्रा कृ॒तद्व᳚सू दश॒स्यन्ता॒मृता᳚य॒ कम् ।
समूधो᳚ रोम॒शं ह᳚तो दे॒वेषु᳚ कृणुतो॒ दुवः᳚ ॥
▶ पदपाठः (Word-by-word)
वी॒ति॑हो᳚त्रा । कृ॒तद्व᳚सू॒ इति᳚ कृ॒तत्॑व᳚सू । द॒श॒स्यन्ता᳚ । अ॒मृता᳚य । कम् ।
सम् । ऊधः᳚ । रो॒म॒शम् । ह॒तः॒ । दे॒वेषु᳚ । कृ॒णु॒तः॒ । दुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वीतिहोत्रा वीतिहोत्रौ वीतिः प्रियकरो होत्रा यज्ञोययोस्तौ अनेन यज्ञेन तयोः सुखादिकं संभवति तादृशौ । यद्वा वीतिः कान्त्यर्थः होत्रेतिवाङ्माम् अस्मद्विषयों स्तुतिं दुरुतमिति पृथक् पृथक् देवैः काम्यमानस्तुती अतएव कं सुखप्रदं हवीरूपमन्नं दशस्यन्ता देवेभ्यः प्रयच्छतौ कृतद्वसू तकारोपज- नश्छान्दसः याचमानकृतधनौ पात्रेषूपयुक्तधनावित्यर्थः । एवंविधौ दंपती अमृताय अमरणाय सन्तानाभिवृद्धये रोमशं रोमवन्तं वृषणं ऊधः यो- निंच संहतः संयोजयतइति मैथुनमनूद्यते ततः सपुत्रादिकौ तौ देवेषु दुवः स्तुत्यन्नदानरुपां परिचर्यां कृणुतः कुरुतः पञ्चभिर्दन्पती अस्तूयेताम् ॥ ९ ॥

8.31.10
आ शर्म॒ पर्व᳚तानां वृणी॒महे᳚ न॒दीना᳚म् ।
आ विष्णो᳚ः सचा॒भुवः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । शर्म᳚ । पर्व᳚तानाम् । वृ॒णी॒महे᳚ । न॒दीना᳚म् ।
आ । विष्णोः᳚ । स॒चा॒॑भुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतदादिषु दंपत्योराशिषः यष्टारोवयं पर्वतानां स्वर्गफलपुष्पसहितलतादिभिर्यत् शर्म सुखं तत्तेषां स्थैर्यलक्षणं सुखंवा नदीनाञ्च उभयकूलवासिभि- र्मुनिभिर्मनुष्यैर्वा जपाद्यनुष्ठानेकृते यत्सुखं तासां भवति तत्सुखं एकत्रस्थित्वा सकलपदार्थभोक्तृत्वलक्षणं अनुष्ठानलक्षणं सुखमावृणीमहे । संभजा- महे सचाभुवः देवैः सहभवतः देवसहितस्य विष्णोरपि शत्रुहननलक्षणं यत्सुखं तदपि वयमावृणीमहे बाधाभावाद्धविःप्रदानेन देवैः सहवर्तामइत्य- र्थः ॥ १० ॥

8.31.11
ऐतु᳚ पू॒षा र॒यिर्भगः᳚ स्व॒स्ति स᳚र्व॒धात᳚मः ।
उ॒रुरध्वा᳚ स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ए॒तु॒ । पू॒षा । र॒यिः । भगः᳚ । स्व॒स्ति । स॒र्व॒॑धात᳚मः ।
उ॒रुः । अध्वा᳚ । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रयिर्धनानां दाता भगोभजनीयः सर्वैः सर्वधातमः सर्वेषां धारयितृतमः सर्वेषांधनादिभिः पोषयितृतमः पूषा एतन्नामकोदेवः स्वस्ति क्षेमेण ऎतु अस्मान्प्रतिगच्छतु ततः मार्गरक्षके पूषण्यागतेसति उरुः विस्तीर्णः अध्वा मार्गः स्वस्तये अस्माकमविनाशाय भवतु ॥ ११ ॥

8.31.12
अ॒रम᳚तिरन॒र्वणो॒ विश्वो᳚ दे॒वस्य॒ मन᳚सा ।
आ॒दि॒त्याना᳚मने॒ह इत् ॥
▶ पदपाठः (Word-by-word)
अ॒रम᳚तिः । अ॒न॒र्वणः᳚ । विश्वः᳚ । दे॒वस्य᳚ । मन᳚सा ।
आ॒दि॒त्याना᳚म् । अ॒ने॒हः । इत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानांमध्ये पूषणमाह अनर्वणः अर्वागन्तव्यः शत्रुभिरगन्तव्यस्य अप्रत्यृतस्य देवस्य द्योतमानस्य पूष्णः विश्वः सर्वः स्तोतृजनः मनसा श्रद्धया भ- क्त्यैव अरमतिः अलंमतिः पर्याप्तस्तुतिर्भवति । तथाहि आदित्यानामदितेः पुत्राणां देवानां दानमनेहइत् अपापमेवखलु । तस्मादन्नादिप्राप्तये स्तो- तृजनः पूषणं स्तौतीत्यर्थः ॥ १२ ॥

8.31.13
यथा᳚ नो मि॒त्रो अ᳚र्य॒मा वरु᳚ण॒ः सन्ति᳚ गो॒पाः ।
सु॒गा ऋ॒तस्य॒ पन्था᳚ः ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । नः॒ । मि॒त्रः । अ॒र्य॒मा । वरु᳚णः । सन्ति᳚ । गो॒पाः ।
सु॒॑गाः । ऋ॒तस्य᳚ । पन्थाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रः अर्यमा वरुणः एतेत्रयोदेवाः नोस्माकं गोपाः गोपायितारोयथासन्ति भवन्ति यैर्मार्गैःवयमेतैः पालयितव्याभवाम ते ऋतस्य सत्यभूतस्य प- न्थाः पन्थानः सुगाः एषां सुगमनाभवन्तु तैरागत्यास्मान् यज्ञमार्गेस्थापयन्त्वित्यर्थः ॥ १३ ॥

8.31.14
अ॒ग्निं वः᳚ पू॒र्व्यं गि॒रा दे॒वमी᳚ळे॒ वसू᳚नाम् ।
स॒प॒र्यन्त᳚ः पुरुप्रि॒यं मि॒त्रं न क्षे᳚त्र॒साध᳚सम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । वः॒ । पू॒र्व्यम् । गि॒रा । दे॒वम् । ई॒ळे॒ । वसू᳚नाम् ।
स॒प॒र्यन्तः᳚ । पु॒रु॒॑प्रि॒यम् । मि॒त्रम् । न । क्षे॒त्र॒॑साध᳚सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः वोयुष्माकं पूर्व्यं मुख्यं पुरतोगंतारंवा देवं स्वभासा दीप्यमानमग्निं वसूनां प्राप्तये गिरा स्तुतिलक्षणयावाचा ईळे अहं स्तौमि । किच्च सपर्य- न्तःयुष्मान् परिचरन्तोमनुष्याः पुरुप्रियं बहुविधप्रियं बहुनामभिमतदानेन प्रीणयितारंवा क्षेत्रसाधसं क्षियन्ति निवसन्ति कर्मकरणार्थमत्रेति क्षेत्रो- यज्ञः तस्य साधकम् । साधने दृष्टान्तः-मित्रंन यथा मित्रं सुहृत् अन्यस्यक्षेत्रं केदारादिकं साधयति तद्वत् यज्ञसाधकमग्निं वसुप्राप्तये स्तुवन्ति ॥ १४ ॥

8.31.15
म॒क्षू दे॒वव᳚तो॒ रथ॒ः शूरो᳚ वा पृ॒त्सु कासु᳚ चित् ।
दे॒वानां॒ य इन्मनो॒ यज᳚मान॒ इय᳚क्षत्य॒भीदय᳚ज्वनो भुवत् ॥
▶ पदपाठः (Word-by-word)
म॒क्षु । दे॒व॑व᳚तः । रथः᳚ । शूरः᳚ । वा॒ । पृ॒त्॑सु । कासु᳚ । चि॒त् ।
दे॒वाना᳚म् । यः । इत् । मनः᳚ । यज᳚मानः । इय᳚क्षति । अ॒भि । इत् । अय᳚ज्वनः । भु॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देववतः देवायष्टव्यतया यस्यसन्ति सदेववान् तस्य रथोदेवैर्दत्तः मक्षु शीघ्रं दुर्गमपि प्रविशति सर्वत्राप्रतिहतगतिरित्यर्थः । तत्रदृष्टान्तः-वाशब्दोत्रो- पमानवाची यथा शूरोयोद्धा कासु चित् पृत्सु पृतनासु तद्वत् योदेवानां इदवधारणे मनएवइयक्षति स्तुतिभिः पूजयितुमिच्छति यद्वा देवानां मनइ- यक्षति हविर्भिर्यष्टुमिच्छति सयजमानः अयज्वनःयागं अकुर्वतोजनान् अभिभुवत् स्वसामर्थ्येनाभिभवत्येव । इयक्षन्ति यक्षपूजायाम् यजदेवपूजा- दिषु उभयोरभ्यासस्यसम्प्रसारणं छान्दसम् । पूर्वस्य स्कोः संयोगाद्योरिति ककारलोपः ॥ १५ ॥

8.31.16
न य᳚जमान रिष्यसि॒ न सु᳚न्वान॒ न दे᳚वयो ।
दे॒वानां॒ य इन्मनो॒ यज᳚मान॒ इय᳚क्षत्य॒भीदय᳚ज्वनो भुवत् ॥
▶ पदपाठः (Word-by-word)
न । य॒ज॒मा॒न॒ । रि॒ष्य॒सि॒ । न । सु॒न्वा॒न॒ । न । दे॒व॒यो॒ इति᳚ देव॑यो ।
दे॒वाना᳚म् । यः । इत् । मनः᳚ । यज᳚मानः । इय᳚क्षति । अ॒भि । इत् । अय᳚ज्वनः । भु॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यजमान योभवान् देवानां न इयक्षति सत्वं नरिष्यसि विनष्टोनभवसि किन्तु पुत्रपौत्रादिभिर्वर्धसे । हे सुन्वान सोमाभिषवंकुर्वन् यः सुन्वन् तेषां मनइयक्षति सत्वमपि नरिष्यसि । हे देवयोदेवान् कामयमान योदेवानियक्षति तादृशस्त्वमपि नरिष्यसि किन्तु धनादिभिर्वर्धसे देवानां मनोयोय- जमानोयष्टुमिच्छति सयागमकुर्वतो जनानभिभवति ॥ १६ ॥

8.31.17
नकि॒ष्टं कर्म᳚णा नश॒न्न प्र यो᳚ष॒न्न यो᳚षति ।
दे॒वानां॒ य इन्मनो॒ यज᳚मान॒ इय᳚क्षत्य॒भीदय᳚ज्वनो भुवत् ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । तम् । कर्म᳚णा । न॒श॒त् । न । प्र । यो॒ष॒त् । न । यो॒ष॒ति॒ ।
दे॒वाना᳚म् । यः । इत् । मनः᳚ । यज᳚मानः । इय᳚क्षति । अ॒भि । इत् । अय᳚ज्वनः । भु॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो यजमानो देवानां मनोयष्टुमिच्छति तं नकिर्नकश्चिदपि नशत् स्वकीयेन कर्मणा नव्याप्नोति नशतिर्व्याप्तिकर्मा । किञ्च सयष्टा न प्रयोषत् स्वस्मा- त्स्थानान्नविभक्तः पृथक् कृतोनभवति । किञ्च नयोषति पुत्रादिभिर्धनादिभिश्च नविभक्तोभवति । युमिश्रणामिश्रणयोरित्यस्य उभयत्रलेट्यडागमः । शिष्टं व्याख्यातम् ॥ १७ ॥

8.31.18
अस॒दत्र᳚ सु॒वीर्य᳚मु॒त त्यदा॒श्वश्व्य᳚म् ।
दे॒वानां॒ य इन्मनो॒ यज᳚मान॒ इय᳚क्षत्य॒भीदय᳚ज्वनो भुवत् ॥
▶ पदपाठः (Word-by-word)
अस᳚त् । अत्र᳚ । सु॒॑वीर्य᳚म् । उ॒त । त्यत् । आ॒शु॒॑अश्व्य᳚म् ।
दे॒वाना᳚म् । यः । इत् । मनः᳚ । यज᳚मानः । इय᳚क्षति । अ॒भि । इत् । अय᳚ज्वनः । भु॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानो देवानां मनोयष्टुमिच्छति अत्रास्मिन्यजमाने सुवीर्यं शोभनवीर्योपेतं पुत्रादिकमसत् भवत्येव उतापिच आश्वश्व्यं आशुगमनाश्वसंघयुक्तं त्यत् तद्धनादिकं तस्मिन्यजमाने भवति देवानां मनोयोजनः हविर्भिर्यष्टुमिच्छति यद्वा पूजयितुमिच्छति सजनः अयज्वनः सर्वान् अभिभवत्येव ॥ १८ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्य धुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक् संहिता- भाष्ये षष्ठाष्टके द्वितीयोध्यायःसमाप्तः ॥