न दे॒वाना॒मपि᳚ ह्नुतः सुम॒तिं न जु᳚गुक्षतः ।
श्रवो᳚ बृ॒हद्वि᳚वासतः ॥
श्रवो᳚ बृ॒हद्वि᳚वासतः ॥
पदपाठः (Word-by-word)
न । दे॒वाना᳚म् । अपि᳚ । ह्नु॒तः । सु॒॑म॒तिम् । न । जु॒घु॒क्ष॒तः॒ ।
श्रवः᳚ । बृ॒हत् । वि॒वा॒स॒तः॒ ॥
श्रवः᳚ । बृ॒हत् । वि॒वा॒स॒तः॒ ॥
सायणभाष्यम् (Sayana Commentary)
एतौ दम्पती देवानां इन्द्रादीनां न अपिह्नुतः अपलापं न कुरुतः अपह्नवोपलापः देवेभ्योहविः प्रदास्यामइति प्रतिज्ञाय पुनरदानमपलापनं ह्नुङ् अपनये । कथं नापलपन्तीत्यवसीयते तदाह सुमतिं युष्मदीयां शोभनां मतिं न जुगुक्षतः जुघुक्षतः न संवरीतुमिच्छतः संवारणमाच्छादनं न छादय- तइत्यर्थः किन्तु स्तुतिं कुरुतः । गुहूसंवरणे सनिग्रहगुहोश्चेतीट्प्रतिषेधः ढत्वषत्वभावौ संहिताकालेभष् भावोनास्ति छान्दसत्वात् । किञ्च बृहत् देवे- भ्योदीयमानत्वात् महत् श्रवः श्रवइत्यन्ननाम महदन्नं विवासतः युष्मभ्यं प्रयच्छतः विवासतिः परिचरणकर्मा दानमपिच परिचरणमेव । देवैर्दत्तम- न्नं घृतादिभिर्मिश्रीकृत्य पुनः पुनर्यजतइत्यर्थः ॥ ७ ॥