यथा॒ मनौ॒ विव᳚स्वति॒ सोमं᳚ श॒क्रापि᳚बः सु॒तम् ।
यथा᳚ त्रि॒ते छन्द᳚ इन्द्र॒ जुजो᳚षस्या॒यौ मा᳚दयसे॒ सचा᳚ ॥
यथा᳚ । मनौ᳚ । विव᳚स्वति । सोम᳚म् । श॒क्र॒ । अपि᳚बः । सु॒तम् ।
यथा᳚ । त्रि॒ते । छन्दः᳚ । इ॒न्द्र॒ । जुजो᳚षसि । आ॒यौ । मा॒द॒य॒से॒ । सचा᳚ ॥
पृष᳚ध्रे॒ मेध्ये᳚ मात॒रिश्व॒नीन्द्र᳚ सुवा॒ने अम᳚न्दथाः ।
यथा॒ सोमं॒ दश᳚शिप्रे॒ दशो᳚ण्ये॒ स्यूम᳚रश्मा॒वृजू᳚नसि ॥
पृष᳚ध्रे । मेध्ये᳚ । मा॒त॒रिश्व᳚नि । इन्द्र᳚ । सु॒वा॒ने । अम᳚न्दथाः ।
यथा᳚ । सोम᳚म् । दश᳚॑शिप्रे । दश᳚॑ओण्ये । स्यूम᳚॑रश्मौ । ऋजू᳚नसि ॥
य उ॒क्था केव᳚ला द॒धे यः सोमं᳚ धृषि॒तापि᳚बत् ।
यस्मै॒ विष्णु॒स्त्रीणि᳚ प॒दा वि᳚चक्र॒म उप᳚ मि॒त्रस्य॒ धर्म᳚भिः ॥
यः । उ॒क्था । केव᳚ला । द॒धे । यः । सोम᳚म् । धृ॒षि॒ता । अपि᳚बत् ।
यस्मै᳚ । विष्णुः᳚ । त्रीणि᳚ । प॒दा । वि॒॑च॒क्र॒मे । उप᳚ । मि॒त्रस्य᳚ । धर्म᳚॑भिः ॥
यस्य॒ त्वमि᳚न्द्र॒ स्तोमे᳚षु चा॒कनो॒ वाजे᳚ वाजिञ्छतक्रतो ।
तं त्वा᳚ व॒यं सु॒दुघा᳚मिव गो॒दुहो᳚ जुहू॒मसि᳚ श्रव॒स्यवः᳚ ॥
यस्य᳚ । त्वम् । इ॒न्द्र॒ । स्तोमे᳚षु । चा॒कनः᳚ । वाजे᳚ । वा॒जि॒न् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
तम् । त्वा॒ । व॒यम् । सु॒दुघा᳚म्॑इव । गो॒॑दुहः᳚ । जु॒हू॒मसि᳚ । श्र॒व॒स्यवः᳚ ॥
यो नो᳚ दा॒ता स नः᳚ पि॒ता म॒हा{4} उ॒ग्र ई᳚शान॒कृत् ।
अया᳚मन्नु॒ग्रो म॒घवा᳚ पुरू॒वसु॒र्गोरश्व᳚स्य॒ प्र दा᳚तु नः ॥
यः । नः॒ । दा॒ता । सः । नः॒ । पि॒ता । म॒हान् । उ॒ग्रः । ई॒शा॒न॒॑कृत् ।
अया᳚मन् । उ॒ग्रः । म॒घ॑वा᳚ । पु॒रु॒॑वसुः᳚ । गोः । अश्व᳚स्य । प्र । दा॒तु॒ । नः॒ ॥
यस्मै॒ त्वं व᳚सो दा॒नाय॒ मंह᳚से॒ स रा॒यस्पोष᳚मिन्वति ।
व॒सू॒यवो॒ वसु᳚पतिं श॒तक्र᳚तुं॒ स्तोमै॒रिन्द्रं᳚ हवामहे ॥
यस्मै᳚ । त्वम् । व॒सो॒ इति᳚ । दा॒नाय᳚ । मंह᳚से । सः । रा॒यः । पोष᳚म् । इ॒न्व॒ति॒ ।
व॒सु॒॑यवः᳚ । वसु᳚॑पतिम् । श॒त॑क्र᳚तुम् । स्तोमैः᳚ । इन्द्र᳚म् । ह॒वा॒म॒हे॒ ॥
क॒दा च॒न प्र यु᳚च्छस्यु॒भे नि पा᳚सि॒ जन्म᳚नी ।
तुरी᳚यादित्य॒ हव᳚नं त इन्द्रि॒यमा त᳚स्थाव॒मृतं᳚ दि॒वि ॥
क॒दा । च॒न । प्र । यु॒च्छ॒सि॒ । उ॒भे इति᳚ । नि । पा॒सि॒ । जन्म᳚नी॒ इति᳚ ।
तुरी᳚य । आ॒दि॒त्य॒ । हव᳚नम् । ते॒ । इ॒न्द्रि॒यम् । आ । त॒स्थौ॒ । अ॒मृत᳚म् । दि॒वि ॥
यस्मै॒ त्वं म᳚घवन्निन्द्र गिर्वण॒ः शिक्षो॒ शिक्ष᳚सि दा॒शुषे᳚ ।
अ॒स्माकं॒ गिर᳚ उ॒त सु᳚ष्टु॒तिं व᳚सो कण्व॒वच्छृ᳚णुधी॒ हव᳚म् ॥
यस्मै᳚ । त्वम् । म॒घ॒॑व॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । शिक्षो॒ इति᳚ । शिक्ष᳚सि । दा॒शुषे᳚ ।
अ॒स्माक᳚म् । गिरः᳚ । उ॒त । सु॒स्तु॒तिम् । व॒सो॒ इति᳚ । क॒ण्व॒॑वत् । शृ॒णु॒धि॒ । हव᳚म् ॥
अस्ता᳚वि॒ मन्म᳚ पू॒र्व्यं ब्रह्मेन्द्रा᳚य वोचत ।
पू॒र्वीरृ॒तस्य᳚ बृह॒तीर᳚नूषत स्तो॒तुर्मे॒धा अ᳚सृक्षत ॥
अस्ता᳚वि । मन्म᳚ । पू॒र्व्यम् । ब्रह्म᳚ । इन्द्रा᳚य । वो॒च॒त॒ ।
पू॒र्वीः । ऋ॒तस्य᳚ । बृ॒ह॒तीः । अ॒नू॒ष॒त॒ । स्तो॒तुः । मे॒धाः । अ॒सृ॒क्ष॒त॒ ॥
समिन्द्रो॒ रायो᳚ बृह॒तीर᳚धूनुत॒ सं क्षो॒णी समु॒ सूर्य᳚म् ।
सं शु॒क्रास॒ः शुच᳚य॒ः सं गवा᳚शिर॒ः सोमा॒ इन्द्र᳚ममन्दिषुः ॥
सम् । इन्द्रः᳚ । रायः᳚ । बृ॒ह॒तीः । अ॒धू॒नु॒त॒ । सम् । क्षो॒णी इति᳚ । सम् । ऊं॒ इति᳚ । सूर्य᳚म् ।
सम् । शु॒क्रासः᳚ । शुच᳚यः । सम् । गो॑आ᳚शिरः । सोमाः᳚ । इन्द्र᳚म् । अ॒म॒न्दि॒षुः॒ ॥