अष्टमं मण्डलम् - सूक्तम् 63

12 ऋचः

ऋषिः: प्रगाथः काण्वः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 8.63 - सम्पूर्णम्

1 / 12
ऋक्: 8.63.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
8.63.1
स पू॒र्व्यो म॒हानां᳚ वे॒नः क्रतु᳚भिरानजे ।
यस्य॒ द्वारा॒ मनु᳚ष्पि॒ता दे॒वेषु॒ धिय᳚ आन॒जे ॥
▶ पदपाठः (Word-by-word)
सः । पू॒र्व्यः । म॒हाना᳚म् । वे॒नः । क्रतु᳚॑भिः । आ॒न॒जे॒ ।
यस्य᳚ । द्वारा᳚ । मनुः᳚ । पि॒ता । दे॒वेषु᳚ । धियः᳚ । आ॒न॒जे ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः पूर्व्योमुख्योमहानां पूज्यानां यजमानानां क्रतुभिः कर्मभिर्निमित्तभूतैः वेनः कान्तस्तेषां हविः कामयमानः आनजे आगच्छति । यस्येन्द्रस्य द्वारा द्वाराणि प्राप्त्युपायानि धियः कर्माणि देवेष्वेतेषुमध्ये पिता सर्वेषां पालको मनुरानजे प्राप । आनजिःप्राप्तिकर्मा ॥ १ ॥

8.63.2
दि॒वो मानं॒ नोत्स᳚द॒न्त्सोम᳚पृष्ठासो॒ अद्र᳚यः ।
उ॒क्था ब्रह्म᳚ च॒ शंस्या᳚ ॥
▶ पदपाठः (Word-by-word)
दि॒वः । मान᳚म् । न । उत् । स॒द॒न् । सोम᳚॑पृष्ठासः । अद्र᳚यः ।
उ॒क्था । ब्रह्म᳚ । च॒ । शंस्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो द्युलोकस्य मानं निर्मातारमिन्द्रं नोत्सदन् नोत्सृजन्तु । के सोमपृष्ठासः सोमस्प्रष्टारः सोमाभिषवकर्तारः अद्रयोग्रावाणः । किञ्चोक्था उक्थानि शस्त्राणि ब्रह्मच ब्रह्माणि स्तोत्राणि शंस्या शंसनीयानि भवन्तीतिशेषः । यद्वा यानि स्तोत्राणि शस्त्राणि च सन्ति तानीन्द्रं नोत्सृजन्त्विति समन्वयः ॥ २ ॥

8.63.3
स वि॒द्वा{4} अङ्गि᳚रोभ्य॒ इन्द्रो॒ गा अ᳚वृणो॒दप᳚ ।
स्तु॒षे तद᳚स्य॒ पौंस्य᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । वि॒द्वान् । अङ्गि᳚रः॑भ्यः । इन्द्रः᳚ । गाः । अ॒वृ॒णो॒त् । अप᳚ ।
स्तु॒षे । तत् । अ॒स्य॒ । पौंस्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविद्वानुपायज्ञः इन्द्रोङ्गिरोभ्यः तेषामर्थाय गाः पणिभिरपहृताः पिहिता अपावृणोत् अपवारितवान् तत्तादृशमस्य पौंस्यं पुंस्त्वं सामर्थ्यं स्तुषे स्तौमि ॥ ३ ॥

8.63.4 समानपद
स प्र॒त्नथा᳚ कविवृ॒ध इन्द्रो᳚ वा॒कस्य᳚ व॒क्षणि᳚ः ।
शि॒वो अ॒र्कस्य॒ होम᳚न्यस्म॒त्रा ग॒न्त्वव᳚से ॥
▶ पदपाठः (Word-by-word)
सः । प्र॒त्न॑था᳚ । क॒वि॒॑वृ॒धः । इन्द्रः᳚ । वा॒कस्य᳚ । व॒क्षणिः᳚ ।
शि॒वः । अ॒र्कस्य᳚ । होम᳚नि । अ॒स्म॒॑त्रा । ग॒न्तु॒ । अव᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः प्रत्नथा प्रत्नवत् पूर्वस्मिन्काले यथा तद्वदिदानीमपि कविवृधः मेधाविनां स्तोतॄणां वर्धयिता वाकस्य स्तोतुः वक्षणिः वोढा शिवः सुखकरः अर्कस्य अर्कमन्नं अर्चनीयत्वादर्चनसाधनत्वाद्वा तादृशस्य सोमस्य होमनि होमे सअस्मत्रा अस्मासु निमित्तभूतेषु अवसे रक्षणाय गन्तु गच्छतु ॥ ४ ॥

8.63.5
आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर᳚स्य॒ यज्य᳚वः ।
श्वा॒त्रम॒र्का अ᳚नूष॒तेन्द्र᳚ गो॒त्रस्य᳚ दा॒वने᳚ ॥
▶ पदपाठः (Word-by-word)
आत् । ऊं॒ इति᳚ । नु । ते॒ । अनु᳚ । क्रतु᳚म् । स्वाहा᳚ । वर᳚स्य । यज्य᳚वः ।
श्वा॒त्रम् । अ॒र्काः । अ॒नू॒ष॒त॒ । इन्द्र᳚ । गो॒त्रस्य᳚ । दा॒वने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदु अनन्तरमेव नु अद्य हे इन्द्र ते तव क्रतुं कर्म अनुक्रमेण अनुषतेति संबंधः । अनुक्रमेण स्तुवन्ति के स्वाहावरस्य स्वाहादेव्याः पतेरग्नेः यज्यवो- यष्टारः तदर्थमग्नौ यागं कुर्वन्तइत्यर्थः । तादृशाअर्काः अर्चयितारः स्तोतारः श्वात्रमिति क्षिमनाम अन्यदेवतास्तुतिरूपं विलंबमकृत्वातिशीघ्रमति- दीर्घं स्तुवन्तीत्यभिप्रायः । किमर्थं स्तुवन्तीत्यभिप्रायः । किमर्थं स्तुवन्तीत्युच्यते-गोत्रस्य दावने धनस्य दानाय ॥ ५ ॥

8.63.6
इन्द्रे॒ विश्वा᳚नि वी॒र्या᳚ कृ॒तानि॒ कर्त्वा᳚नि च ।
यम॒र्का अ᳚ध्व॒रं वि॒दुः ॥
▶ पदपाठः (Word-by-word)
इन्द्रे᳚ । विश्वा᳚नि । वी॒र्या᳚ । कृ॒तानि᳚ । कर्त्वा᳚नि । च॒ ।
यम् । अ॒र्काः । अ॒ध्व॒रम् । वि॒दुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मिन्निन्द्रे विश्वानि सर्वाणि वीर्या वीर्याणि सामर्थ्यानि कृतानि कर्त्वानि कर्तव्यानि च वर्तन्तइतिशेषः । यमिन्द्रं अर्काः स्तोतारः अध्वरमहिंसकं विदुर्जानन्ति तस्मिन्निन्द्रइति ॥ ६ ॥ पञ्चमेहनि मरुत्वतीये यत्पाञ्चजन्ययेतितृचः प्रतिपत् । सूत्रितंच-यत्पांचजन्ययाविशेन्द्रइत्सोमपाएकइति मरुत्वतीयस्यप्रतिपदनुचराविति ।

8.63.7
यत्पाञ्च᳚जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ᳚क्षत ।
अस्तृ᳚णाद्ब॒र्हणा᳚ वि॒पो॒३॒᳚॑र्यो मान᳚स्य॒ स क्षयः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । पाञ्च᳚॑जन्यया । वि॒शा । इन्द्रे᳚ । घोषाः᳚ । असृ᳚क्षत ।
अस्तृ᳚णात् । ब॒र्हणा᳚ । वि॒पः । अ॒र्यः । मान᳚स्य । सः । क्षयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा पांचजन्यया निषादपंचमाश्चत्वारोवर्णाः पंचजनास्तत्र भवयाविशा प्रजया इन्द्रे घोषाः स्तुतयोसृक्षत सृज्यन्ते तदानीमयमिन्द्रोऽस्तृणात् हिनस्ति शत्रून् बर्हणा स्वमहत्वे नानन्यसहायेनेत्यर्थः । तादृशः सअर्यः स्वामी इन्द्रोविपो मेधाविनः स्तोतुर्मम मानस्य पूजायाः सत्कारस्य क्षयोनिवासो भवति ॥ ७ ॥

8.63.8
इ॒यमु᳚ ते॒ अनु᳚ष्टुतिश्चकृ॒षे तानि॒ पौंस्या᳚ ।
प्राव᳚श्च॒क्रस्य᳚ वर्त॒निम् ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । ऊं॒ इति᳚ । ते॒ । अनु᳚॑स्तुतिः । च॒कृ॒षे । तानि᳚ । पौंस्या᳚ ।
प्र । आ॒वः॒ । च॒क्रस्य᳚ । व॒र्त॒निम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमिदानीं क्रियमाणा अनुष्टुतिः अनुकूलास्तुतिः ते तव स्वभूता । कुतस्तवेति तानि प्रसिद्धानि वृत्रवधादीनि पौंस्या पुंस्त्वानि यतश्चकृषे अतस्त- इत्यर्थः । हे इन्द्र चक्रस्य रथाधारस्य वर्तानिं मार्गं प्रावः प्रारक्षः । अथास्मद्यज्ञगमनाय रक्षःकृता चक्रमार्गबाधा यथानभवति तथारक्षसीत्यर्थः ॥ ८ ॥

8.63.9
अ॒स्य वृष्णो॒ व्योद᳚न उ॒रु क्र᳚मिष्ट जी॒वसे᳚ ।
यवं॒ न प॒श्व आ द᳚दे ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । वृष्णः᳚ । वि॒॑ओद᳚ने । उ॒रु । क्र॒मि॒ष्ट॒ । जी॒वसे᳚ ।
यव᳚म् । न । प॒श्वः । आ । द॒दे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यव्कुष्णो वर्षितुरिन्द्रस्य व्योदने विविधेन्ने लब्धेसति जीवसे जीवनाय उरुविस्तीर्णं क्रमिष्ट पदनिधानं करोति सर्वोलोकः । अथवा इन्द्र्स्य स्वभूतेन्नेलब्धव्येवा सति पदंन्यासं करोति तथाकृत्वा यवंन पश्वः यवं पशवइव सर्वोजनः आददे स्तुतादस्मात् ॥ ९ ॥

8.63.10
तद्दधा᳚ना अव॒स्यवो᳚ यु॒ष्माभि॒र्दक्ष᳚पितरः ।
स्याम᳚ म॒रुत्व᳚तो वृ॒धे ॥
▶ पदपाठः (Word-by-word)
तत् । दधा᳚नाः । अ॒व॒स्यवः᳚ । यु॒ष्माभिः᳚ । दक्ष᳚॑पितरः ।
स्याम᳚ । म॒रुत्व᳚तः । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्स्तोत्रं दधानाः धारयन्तः अवस्यवो रक्षाकामावयं हे ऋत्विजो युष्माभिः सहिता इतिवायोज्यम् तादृशादक्षपितरः दक्षोन्नं तस्यपितरः पालकाः स्वामिनः स्याम । किमर्थं मरुत्वतोमरुद्भिः तद्वतइन्द्रस्य वृधे वर्धनाय यागाय ॥ १० ॥

8.63.11
बळृ॒त्विया᳚य॒ धाम्न॒ ऋक्व᳚भिः शूर नोनुमः ।
जेषा᳚मेन्द्र॒ त्वया᳚ यु॒जा ॥
▶ पदपाठः (Word-by-word)
बट् । ऋ॒त्विया᳚य । धाम्ने᳚ । ऋक्व᳚॑भिः । शू॒र॒ । नो॒नु॒मः॒ ।
जेषा᳚म । इ॒न्द्र॒ । त्वया᳚ । यु॒जा ॥
▶ सायणभाष्यम् (Sayana Commentary)

वट् सत्यं ऋत्वियाय ऋतौभवाय ऋतुशब्दोयागकालोपलक्षकः यागकाले प्रादुर्भूताय धाम्ने कल्याणतेजसे तुभ्यं हे सूरेन्द्र ऋक्कभिर्मन्त्रैर्नोनुमः अति- शयेन स्तुमः हे इन्द्र स्तुतेन त्वया युजा सहायभूतेन जषाम जयेम शत्रून् ॥ ११ ॥

8.63.12
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व᳚तासो वृत्र॒हत्ये॒ भर᳚हूतौ स॒जोषा᳚ः ।
यः शंस᳚ते स्तुव॒ते धायि᳚ प॒ज्र इन्द्र᳚ज्येष्ठा अ॒स्मा{4} अ᳚वन्तु दे॒वाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । रु॒द्राः । मे॒हना᳚ । पर्व᳚तासः । वृ॒त्र॒॑हत्ये᳚ । भर᳚॑हूतौ । स॒॑जोषाः᳚ ।
यः । शंस᳚ते । स्तु॒व॒ते । धायि᳚ । प॒ज्रः । इन्द्र᳚॑ज्येष्ठाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मे अस्मान् रुद्राः मेहना उदकसेचनयुक्ताः पर्वतासो मेघाश्च वृत्रहत्ये वृत्रहननसाधने भरहूतौ संग्रामाह्वाने सजोषाःअस्मत्समानप्रीतिश्च यइन्द्रः शंसते शस्त्रंपठते स्तुवते स्तोत्रं कुर्वतेच यजमानाय पज्रोबलवान्वेगवान् वा धायि गच्छति सइन्द्रश्च इमेइन्द्रज्येष्ठा देवाअस्मानवन्तु रक्षंतु । अस्मानितिपूरणः । अथवैवंयोज्यं रुद्रा रुद्रपुत्रा मेहना सेचनेनयुक्ताः पर्वता पर्वतसदृशाः पूरणवन्तः प्रीणनवन्तोवा । पर्वपुनःपृणातेः प्रीणातेर्वेति- निरुक्तम् । वृत्रहत्येभरहूतौ सजोषाः सजोषसः सहायभूता मरुतोदेवा इन्द्रज्येष्ठाः उक्तलक्षणइन्द्रश्चास्मानवन्त्विति ॥ १२ ॥

उत्त्वामन्दन्त्विति द्वादशर्चं पञ्चमं सूक्तं प्रगाथस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमैन्द्रं उत्त्वेत्यनुक्रमणिका । विनियोगोलैंगिकः ।