दि॒वो मानं॒ नोत्स᳚द॒न्त्सोम᳚पृष्ठासो॒ अद्र᳚यः ।
उ॒क्था ब्रह्म᳚ च॒ शंस्या᳚ ॥
उ॒क्था ब्रह्म᳚ च॒ शंस्या᳚ ॥
पदपाठः (Word-by-word)
दि॒वः । मान᳚म् । न । उत् । स॒द॒न् । सोम᳚॑पृष्ठासः । अद्र᳚यः ।
उ॒क्था । ब्रह्म᳚ । च॒ । शंस्या᳚ ॥
उ॒क्था । ब्रह्म᳚ । च॒ । शंस्या᳚ ॥
सायणभाष्यम् (Sayana Commentary)
दिवो द्युलोकस्य मानं निर्मातारमिन्द्रं नोत्सदन् नोत्सृजन्तु । के सोमपृष्ठासः सोमस्प्रष्टारः सोमाभिषवकर्तारः अद्रयोग्रावाणः । किञ्चोक्था उक्थानि शस्त्राणि ब्रह्मच ब्रह्माणि स्तोत्राणि शंस्या शंसनीयानि भवन्तीतिशेषः । यद्वा यानि स्तोत्राणि शस्त्राणि च सन्ति तानीन्द्रं नोत्सृजन्त्विति समन्वयः ॥ २ ॥