श्रवणम्

8.63.12
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व᳚तासो वृत्र॒हत्ये॒ भर᳚हूतौ स॒जोषा᳚ः ।
यः शंस᳚ते स्तुव॒ते धायि᳚ प॒ज्र इन्द्र᳚ज्येष्ठा अ॒स्मा{4} अ᳚वन्तु दे॒वाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । रु॒द्राः । मे॒हना᳚ । पर्व᳚तासः । वृ॒त्र॒॑हत्ये᳚ । भर᳚॑हूतौ । स॒॑जोषाः᳚ ।
यः । शंस᳚ते । स्तु॒व॒ते । धायि᳚ । प॒ज्रः । इन्द्र᳚॑ज्येष्ठाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मे अस्मान् रुद्राः मेहना उदकसेचनयुक्ताः पर्वतासो मेघाश्च वृत्रहत्ये वृत्रहननसाधने भरहूतौ संग्रामाह्वाने सजोषाःअस्मत्समानप्रीतिश्च यइन्द्रः शंसते शस्त्रंपठते स्तुवते स्तोत्रं कुर्वतेच यजमानाय पज्रोबलवान्वेगवान् वा धायि गच्छति सइन्द्रश्च इमेइन्द्रज्येष्ठा देवाअस्मानवन्तु रक्षंतु । अस्मानितिपूरणः । अथवैवंयोज्यं रुद्रा रुद्रपुत्रा मेहना सेचनेनयुक्ताः पर्वता पर्वतसदृशाः पूरणवन्तः प्रीणनवन्तोवा । पर्वपुनःपृणातेः प्रीणातेर्वेति- निरुक्तम् । वृत्रहत्येभरहूतौ सजोषाः सजोषसः सहायभूता मरुतोदेवा इन्द्रज्येष्ठाः उक्तलक्षणइन्द्रश्चास्मानवन्त्विति ॥ १२ ॥

उत्त्वामन्दन्त्विति द्वादशर्चं पञ्चमं सूक्तं प्रगाथस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमैन्द्रं उत्त्वेत्यनुक्रमणिका । विनियोगोलैंगिकः ।