अष्टमं मण्डलम् - सूक्तम् 36

7 ऋचः

ऋषिः: श्यावाश्वः देवता: इंद्रः छन्दः: शक्वरी

सूक्तम् 8.36 - सम्पूर्णम्

1 / 7
ऋक्: 8.36.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
8.36.1
अ॒वि॒तासि᳚ सुन्व॒तो वृ॒क्तब᳚र्हिष॒ः पिबा॒ सोमं॒ मदा᳚य॒ कं श᳚तक्रतो ।
यं ते᳚ भा॒गमधा᳚रय॒न्विश्वा᳚ः सेहा॒नः पृत᳚ना उ॒रु ज्रय॒ः सम᳚प्सु॒जिन्म॒रुत्वा{4}᳚ इन्द्र सत्पते ॥
▶ पदपाठः (Word-by-word)
अ॒वि॒ता । अ॒सि॒ । सु॒न्व॒तः । वृ॒क्त॑ब᳚र्हिषः । पिब᳚ । सोम᳚म् । मदा᳚य । कम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
यम् । ते॒ । भा॒गम् । अधा᳚रयन् । विश्वाः᳚ । से॒हा॒नः । पृत᳚नाः । उ॒रु । ज्रयः᳚ । सम् । अ॒प्सु॒॑जित् । म॒रुत्वा᳚न् । इ॒न्द्र॒ । स॒त्॑प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो बहुकर्मन्निंद्र सुन्वतः सोमाभिषवं कुर्वतो वृक्तबर्हिषस्तीर्णबर्हिषो यजमानस्य अविता रक्षितासि भवसि मदाय मदार्थं सोमं पिब । हे सत्पते सतां पते मरुत्वान् मरुत्वन् इन्द्र ते तुभ्यं यं सोमस्य भागमधारयन् सर्वे देवा अकल्पयन् । तथाच यजुर्ब्राह्मणं-सएतं माहेन्द्रमुद्धारमुदहरत् । वृत्रंहत्वान्यदेवतास्वधीति । तं भागं विश्वाः पृतनाः शत्रूणां सर्वाः सेनाः उरु बहु ज्रयोवेगंच संसेहानः सम्यगभिभवन्नप्सुजेत च सन् पिब ॥ १ ॥

8.36.2
प्राव᳚ स्तो॒तारं᳚ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा᳚य॒ कं श᳚तक्रतो ।
यं ते᳚ भा॒गमधा᳚रय॒न्विश्वा᳚ः सेहा॒नः पृत᳚ना उ॒रु ज्रय॒ः सम᳚प्सु॒जिन्म॒रुत्वा{4}᳚ इन्द्र सत्पते ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒व॒ । स्तो॒तार᳚म् । म॒घ॒॑व॒न् । अव᳚ । त्वाम् । पिब᳚ । सोम᳚म् । मदा᳚य । कम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
यम् । ते॒ । भा॒गम् । अधा᳚रयन् । विश्वाः᳚ । से॒हा॒नः । पृत᳚नाः । उ॒रु । ज्रयः᳚ । सम् । अ॒प्सु॒॑जित् । म॒रुत्वा᳚न् । इ॒न्द्र॒ । स॒त्॑प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् स्तोतारं प्राव प्ररक्ष त्वांचाव सोमपानेन रक्ष । सिद्धमन्यत् ॥ २ ॥

8.36.3
ऊ॒र्जा दे॒वा{4} अव॒स्योज᳚सा॒ त्वां पिबा॒ सोमं॒ मदा᳚य॒ कं श᳚तक्रतो ।
यं ते᳚ भा॒गमधा᳚रय॒न्विश्वा᳚ः सेहा॒नः पृत᳚ना उ॒रु ज्रय॒ः सम᳚प्सु॒जिन्म॒रुत्वा{4}᳚ इन्द्र सत्पते ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्जा । दे॒वान् । अव᳚सि । ओज᳚सा । त्वाम् । पिब᳚ । सोम᳚म् । मदा᳚य । कम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
यम् । ते॒ । भा॒गम् । अधा᳚रयन् । विश्वाः᳚ । से॒हा॒नः । पृत᳚नाः । उ॒रु । ज्रयः᳚ । सम् । अ॒प्सु॒॑जित् । म॒रुत्वा᳚न् । इ॒न्द्र॒ । स॒त्॑प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं देवानूर्जान्नेन हविषावसि रक्षसि त्वामप्योजसा बलेनावसि । सिद्धमन्यत् ॥ ३ ॥

8.36.4
ज॒नि॒ता दि॒वो ज᳚नि॒ता पृ᳚थि॒व्याः पिबा॒ सोमं॒ मदा᳚य॒ कं श᳚तक्रतो ।
यं ते᳚ भा॒गमधा᳚रय॒न्विश्वा᳚ः सेहा॒नः पृत᳚ना उ॒रु ज्रय॒ः सम᳚प्सु॒जिन्म॒रुत्वा{4}᳚ इन्द्र सत्पते ॥
▶ पदपाठः (Word-by-word)
ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः । पिब᳚ । सोम᳚म् । मदा᳚य । कम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
यम् । ते॒ । भा॒गम् । अधा᳚रयन् । विश्वाः᳚ । से॒हा॒नः । पृत᳚नाः । उ॒रु । ज्रयः᳚ । सम् । अ॒प्सु॒॑जित् । म॒रुत्वा᳚न् । इ॒न्द्र॒ । स॒त्॑प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं दिवोद्युलोकस्य जनिता जनकोसि पृथिव्याश्च णनितासि । सिद्धमन्यत् ॥ ४ ॥

8.36.5
ज॒नि॒ताश्वा᳚नां जनि॒ता गवा᳚मसि॒ पिबा॒ सोमं॒ मदा᳚य॒ कं श᳚तक्रतो ।
यं ते᳚ भा॒गमधा᳚रय॒न्विश्वा᳚ः सेहा॒नः पृत᳚ना उ॒रु ज्रय॒ः सम᳚प्सु॒जिन्म॒रुत्वा{4}᳚ इन्द्र सत्पते ॥
▶ पदपाठः (Word-by-word)
ज॒नि॒ता । अश्वा᳚नाम् । ज॒नि॒ता । गवा᳚म् । अ॒सि॒ । पिब᳚ । सोम᳚म् । मदा᳚य । कम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
यम् । ते॒ । भा॒गम् । अधा᳚रयन् । विश्वाः᳚ । से॒हा॒नः । पृत᳚नाः । उ॒रु । ज्रयः᳚ । सम् । अ॒प्सु॒॑जित् । म॒रुत्वा᳚न् । इ॒न्द्र॒ । स॒त्॑प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं अश्वानां जनिता जनकोसि गवाञ्च जनितासि । सिद्धमन्यत् ॥ ५ ॥

8.36.6
अत्री᳚णां॒ स्तोम᳚मद्रिवो म॒हस्कृ᳚धि॒ पिबा॒ सोमं॒ मदा᳚य॒ कं श᳚तक्रतो ।
यं ते᳚ भा॒गमधा᳚रय॒न्विश्वा᳚ः सेहा॒नः पृत᳚ना उ॒रु ज्रय॒ः सम᳚प्सु॒जिन्म॒रुत्वा{4}᳚ इन्द्र सत्पते ॥
▶ पदपाठः (Word-by-word)
अत्री᳚णाम् । स्तोम᳚म् । अ॒द्रि॒॑वः॒ । म॒हः । कृ॒धि॒ । पिब᳚ । सोम᳚म् । मदा᳚य । कम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
यम् । ते॒ । भा॒गम् । अधा᳚रयन् । विश्वाः᳚ । से॒हा॒नः । पृत᳚नाः । उ॒रु । ज्रयः᳚ । सम् । अ॒प्सु॒॑जित् । म॒रुत्वा᳚न् । इ॒न्द्र॒ । स॒त्॑प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवः अद्रिमन् अत्रीणां स्तोमं महस्कृधि पूजितं कुरु । सिद्धमन्यत् ॥ ६ ॥

8.36.7
श्या॒वाश्व᳚स्य सुन्व॒तस्तथा᳚ शृणु॒ यथाशृ᳚णो॒रत्रे॒ः कर्मा᳚णि कृण्व॒तः ।
प्र त्र॒सद᳚स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा᳚णि व॒र्धय᳚न् ॥
▶ पदपाठः (Word-by-word)
श्या॒व॑अ᳚श्वस्य । सु॒न्व॒तः । तथा᳚ । शृ॒णु॒ । यथा᳚ । अशृ᳚णोः । अत्रेः᳚ । कर्मा᳚णि । कृ॒ण्व॒तः ।
प्र । त्र॒सद᳚स्युम् । आ॒वि॒थ॒ । त्वम् । एकः᳚ । इत् । नृ॒॑सह्ये᳚ । इन्द्र᳚ । ब्रह्मा᳚णि । व॒र्धय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं सुन्वतः सोमाभिषवं कुर्वतः श्यावाश्वस्य मम स्तुतिं कर्माणि कृण्वतः कुर्वतोत्रेयंथा शृणोरश्रौषीस्तथा शृणु । अपिच त्वमेकइदेकएव नृ- षात्द्ये युद्धे ब्रह्माणि स्तोत्राणि कामैर्वर्धयम् त्रसदस्युं प्राविथ ॥ ७ ॥

प्रेदंब्रह्मेति सप्तर्चं सप्तमं सूक्तं आत्रेयस्य श्यावाश्वस्यार्षं आद्या द्वापञ्चाशदक्षरा अतिजगतं शिष्टाः षडृचः षडष्टका महापङ्तयः । इन्द्रोदेवता । तथाचानुक्रान्तम्-प्रेदंमहापाङ्तमाद्यातिजगतीति । महाव्रते निष्केवल्येएतत्सूक्तम् । तथाच सूत्रम्-प्रेदंब्रह्मेन्द्रोमदायेति ।