श्रवणम्

8.36.7
श्या॒वाश्व᳚स्य सुन्व॒तस्तथा᳚ शृणु॒ यथाशृ᳚णो॒रत्रे॒ः कर्मा᳚णि कृण्व॒तः ।
प्र त्र॒सद᳚स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा᳚णि व॒र्धय᳚न् ॥
▶ पदपाठः (Word-by-word)
श्या॒व॑अ᳚श्वस्य । सु॒न्व॒तः । तथा᳚ । शृ॒णु॒ । यथा᳚ । अशृ᳚णोः । अत्रेः᳚ । कर्मा᳚णि । कृ॒ण्व॒तः ।
प्र । त्र॒सद᳚स्युम् । आ॒वि॒थ॒ । त्वम् । एकः᳚ । इत् । नृ॒॑सह्ये᳚ । इन्द्र᳚ । ब्रह्मा᳚णि । व॒र्धय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं सुन्वतः सोमाभिषवं कुर्वतः श्यावाश्वस्य मम स्तुतिं कर्माणि कृण्वतः कुर्वतोत्रेयंथा शृणोरश्रौषीस्तथा शृणु । अपिच त्वमेकइदेकएव नृ- षात्द्ये युद्धे ब्रह्माणि स्तोत्राणि कामैर्वर्धयम् त्रसदस्युं प्राविथ ॥ ७ ॥

प्रेदंब्रह्मेति सप्तर्चं सप्तमं सूक्तं आत्रेयस्य श्यावाश्वस्यार्षं आद्या द्वापञ्चाशदक्षरा अतिजगतं शिष्टाः षडृचः षडष्टका महापङ्तयः । इन्द्रोदेवता । तथाचानुक्रान्तम्-प्रेदंमहापाङ्तमाद्यातिजगतीति । महाव्रते निष्केवल्येएतत्सूक्तम् । तथाच सूत्रम्-प्रेदंब्रह्मेन्द्रोमदायेति ।