श्रवणम्

8.100.4
अ॒यम᳚स्मि जरित॒ः पश्य᳚ मे॒ह विश्वा᳚ जा॒तान्य॒भ्य᳚स्मि म॒ह्ना ।
ऋ॒तस्य᳚ मा प्र॒दिशो᳚ वर्धयन्त्यादर्दि॒रो भुव᳚ना दर्दरीमि ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒स्मि॒ । ज॒रि॒त॒रिति᳚ । पश्य᳚ । मा॒ । इ॒ह । विश्वा᳚ । जा॒तानि᳚ । अ॒भि । अ॒स्मि॒ । म॒ह्ना ।
ऋ॒तस्य᳚ । मा॒ । प्र॒॑दिशः᳚ । व॒र्ध॒य॒न्ति॒ । आ॒॑द॒र्दि॒रः । भुव᳚ना । द॒र्द॒री॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवं नेमस्यऋषेर्वचनमाकर्ण्य इन्द्रस्तस्य समीपमाजगाम । आगत्य चात्मानमनेन द्वृचेन स्तौति-हे जरितः स्तोतः अयमहमस्मि इह तवसमीपे स्थितं मा मां पश्य । विश्वा सर्वाणि जातानि भुवनानि मह्ना महत्त्वेन अभ्यस्मि अहमभिभवामि । किंच मा मां ऋतस्य सत्यस्य यज्ञस्य वा प्रदिशः प्रदेष्टारोविद्वांसः स्तोत्रैर्वर्धयन्ति । अपिच आदर्दिरः आदरणशीलोहं भुवना भुवनानि शत्रुभूतानि दर्दरीमि भृशं विदारयामि ॥ ४ ॥