श्रवणम्

8.3.12
श॒ग्धी नो᳚ अ॒स्य यद्ध᳚ पौ॒रमावि᳚थ॒ धिय᳚ इन्द्र॒ सिषा᳚सतः ।
श॒ग्धि यथा॒ रुश᳚मं॒ श्याव᳚कं॒ कृप॒मिन्द्र॒ प्राव॒ः स्व᳚र्णरम् ॥
▶ पदपाठः (Word-by-word)
श॒ग्धि । नः॒ । अ॒स्य । यत् । ह॒ । पौ॒रम् । आवि᳚थ । धियः᳚ । इ॒न्द्र॒ । सिसा᳚सतः ।
श॒ग्धि । यथा᳚ । रुश᳚मम् । श्याव᳚कम् । कृप᳚म् । इन्द्र᳚ । प्र । आवः᳚ । स्वः᳚॑नरम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र धियः कर्माणि स्तोत्राणि वा सिषासतः संभक्तवतः नोस्माकं सम्बन्धिनोस्य यजमानस्य तद्धनं शग्धि प्रदेहि । यद्ध येन खलु धनेन पौरं पुरुर्नामराजा तस्य पुत्रं आविथ ररक्षिथ । अपिच हे इन्द्र रुशमं श्यावकं कृपंच एतन्नामकांस्त्रीन्त्राजर्षीन् यथा येन प्रकारेण प्रावः प्रारक्षः तथा स्वर्णरं सर्वस्य हविषोनेतारं प्रापयितारं यद्वा स्वः स्वर्गं प्रति नेतव्यं इमं यजमानं शग्धि शक्तं कुरु धनादिसंपत्त्या यागानुष्ठानाय यथाशक्तोभवति तथाकुर्वित्यर्थः । इन्द्रेत्यामन्त्रितस्य पादादित्वेनाष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ॥ १२ ॥ चातुर्विंशिकेहनि माध्यन्दिने सवने ब्रह्मशस्त्रे कन्नव्यइति कद्वत्प्रगाथः सूत्रितञ्च-कन्नव्योअतसीनांकदून्वस्याकृतमिति कद्वन्तःप्रगाथा- इति अहर्गणेषु द्वितीयादिष्वहःसु तस्मिन् शस्त्रे तस्यैवायं प्रगाथः सूत्र्यतेहि-आरंभणीयाः पर्यासान् कद्वतोहरहःशस्यानीति होत्रकाद्विती- यादिष्वेवेति ।