जु॒षेथां᳚ य॒ज्ञं बोध᳚तं॒ हव᳚स्य मे॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव᳚ गच्छतम् ।
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ॥
स॒जोष᳚सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ॥
पदपाठः (Word-by-word)
जु॒षेथा᳚म् । य॒ज्ञम् । बोध᳚तम् । हव᳚स्य । मे॒ । विश्वा᳚ । इ॒ह । दे॒वौ॒ । सव᳚ना । अव᳚ । ग॒च्छ॒त॒म् ।
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ । इष᳚म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥
स॒॑जोष᳚सौ । उ॒षसा᳚ । सूर्ये᳚ण । च॒ । आ । इष᳚म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ देवौ यज्ञं जुषेथां सेवेथाम् । मे मम हवस्य हवं बोधतं जानीतम् । इहयज्ञे विश्वा सवना सर्वाणि सवनानि अवगच्छतं प्राप्नुतम् । इयं अन्नं आवोह्ळं प्रापयतम् ॥ ४ ॥