श्रवणम्

8.26.11
वै॒य॒श्वस्य᳚ श्रुतं नरो॒तो मे᳚ अ॒स्य वे᳚दथः ।
स॒जोष᳚सा॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ॥
▶ पदपाठः (Word-by-word)
वै॒य॒श्वस्य᳚ । श्रु॒त॒म् । न॒रा॒ । उ॒तो इति᳚ । मे॒ । अ॒स्य । वे॒द॒थः॒ ।
स॒॑जोष᳚सा । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नेतारावश्विनौ वैयश्वस्य व्यश्वपुत्रस्य विश्वमनसोममाह्वानंश्रुतं शृणुतम् । उतो अपिच मे मदीयमस्य तदाह्वानं वेदथः आत्मीयतया जानीथः । अथ वरुणो मित्रः मित्रावरुणौच सजोषसा संगतौ सन्तौ अर्यमा एतन्नामकोदेवश्च मदीयमाह्वानं श्रुत्वा मह्यं धनादिकं प्रयच्छन्तु ॥ ११ ॥