उ॒त स्या श्वे᳚त॒याव᳚री॒ वाहि᳚ष्ठा वां न॒दीना᳚म् ।
सिन्धु॒र्हिर᳚ण्यवर्तनिः ॥
सिन्धु॒र्हिर᳚ण्यवर्तनिः ॥
पदपाठः (Word-by-word)
उ॒त । स्या । श्वे॒त॒॑याव᳚री । वाहि᳚ष्ठा । वा॒म् । न॒दीना᳚म् ।
सिन्धुः᳚ । हिर᳚ण्य॑वर्तनिः ॥
सिन्धुः᳚ । हिर᳚ण्य॑वर्तनिः ॥
सायणभाष्यम् (Sayana Commentary)
विश्वमनाऋषिः श्वेतयावरीनाम्र्योनद्यास्तीरे अश्विनावस्तौत् अनया नद्यपि स्तुतवतीत्याहउतापिच श्वेतयावरी श्वेतजला यातीति श्वेतयावरी की- दृशी सिन्धुः स्यन्दमाना हिरण्यवर्तनिः हिरण्मयस्वीयमार्गा हिरण्मयोभयकूला स्या एषा श्वेतयावरी नामिका नदीनामन्यासां नदीनां मध्ये वां यु- वां वाहिष्ठा स्तुत्या अतिशयेनागन्त्रीभवति एषापि युवां स्तौतीत्यर्थः । यद्वा एषानदी युवयोरथस्य वाहिष्ठा वोढृतमा सती प्रियकरीभवति यस्माद- हमस्यास्तीरेयुवामस्तुवमिति ॥ १८ ॥