यो वां᳚ य॒ज्ञेभि॒रावृ॒तो॑धि᳚वस्त्रा व॒धूरि᳚व ।
स॒प॒र्यन्ता᳚ शु॒भे च᳚क्राते अ॒श्विना᳚ ॥
स॒प॒र्यन्ता᳚ शु॒भे च᳚क्राते अ॒श्विना᳚ ॥
पदपाठः (Word-by-word)
यः । वा॒म् । य॒ज्ञेभिः᳚ । आ॑वृ᳚तः । अधि᳚॑वस्त्रा । व॒धूः॑इ᳚व ।
स॒प॒र्यन्ता᳚ । शु॒भे । च॒क्रा॒ते॒ इति᳚ । अ॒श्विना᳚ ॥
स॒प॒र्यन्ता᳚ । शु॒भे । च॒क्रा॒ते॒ इति᳚ । अ॒श्विना᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अथ पूर्वोर्धर्चः परोक्षकृतः योमनुष्यः वां युवयोर्यज्ञेभिर्यजनैः पूजनैः यद्वा युष्मद्विषयैर्यागः आवृतः परिवृतोभवति । तत्रदृष्टान्तः-अधिवस्त्रा उपरि- निहितवस्त्रावधूः अन्येनवस्त्रेण यथाछादिता भवति तथा वृतोयदाभवति तदा सपर्यन्ता अभीष्टप्रदानेन तं परिचरन्तौ अश्विना अश्विनौ भवन्तौ तं मनुष्यं शुभे चक्राते मंगले धने कृतवन्तौ तं धनादियुक्तमकार्ष्टामित्यर्थः । योयुवाभ्यां हवींषि प्रयच्छति तं धनादियुक्तं कुरुतमित्यर्थः ॥ १३ ॥