श्रवणम्

8.26.4
आ वां॒ वाहि᳚ष्ठो अश्विना॒ रथो᳚ यातु श्रु॒तो न᳚रा ।
उप॒ स्तोमा᳚न्तु॒रस्य᳚ दर्शथः श्रि॒ये ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । वाहि᳚ष्ठः । अ॒श्वि॒ना॒ । रथः᳚ । या॒तु॒ । श्रु॒तः । न॒रा॒ ।
उप᳚ । स्तोमा᳚न् । तु॒रस्य᳚ । द॒र्श॒थः॒ । श्रि॒ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा सर्वस्य नेतारौ अश्विना अश्विनौ वां युवयोः वाहिष्ठोवोढृतमः श्रुतोविश्रुतः सर्वत्रप्रसिद्धोरथः आयातु अस्मदीयं यज्ञं प्रत्यागच्छतु तेन रथेन युवामागत्य तुरस्य क्षिप्रं स्तोत्रं कुर्वतस्तस्य स्तोमान् त्रिवृत्पच्चदशादि स्तोमान् श्रिये तस्यैश्वर्यप्रदानाय उपदर्शथः पश्यतिर्ज्ञानकर्मा जानीतम् । दृशेर्लङि व्यत्ययेनानादेशः ॥ ४ ॥