स त्वं नो᳚ देव॒ मन᳚सा॒ वायो᳚ मन्दा॒नो अ᳚ग्रि॒यः ।
कृ॒धि वाजा{4}᳚ अ॒पो धियः᳚ ॥
कृ॒धि वाजा{4}᳚ अ॒पो धियः᳚ ॥
पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । दे॒व॒ । मन᳚सा । वायो॒ इति᳚ । म॒न्दा॒नः । अ॒ग्रि॒यः ।
कृ॒धि । वाजा᳚न् । अ॒पः । धियः᳚ ॥
कृ॒धि । वाजा᳚न् । अ॒पः । धियः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे देव द्योतमान यद्वा स्तोतव्यवायो अग्रियः देवानां मध्ये मुख्यः अग्रतोगन्तासि सतादृशस्त्वं मनसा मन्दानोमन्दमानः स्वयमेव मोदमानःसन् नो- स्माकं वाजान् अन्नानि अपोमेघभेदनेनोदकानिच उभयस्मिन् त्वया प्रदत्तेसति धियः अग्निहोत्रादिकर्माणिच कृधि कुरु कारयेत्यर्थः ॥ २५ ॥
अग्निरुक्थइति द्वाविंशर्चं सप्तमं सूक्तम् । अत्रानुक्रमणिका-अग्निरुक्थेद्मधिका मनुर्वैवस्वतो वैश्वदेवंह प्रगाथमिति । वुवस्वतःपुत्रोमनुरृषिः प्रथमातृ- तीयाद्ययुजोबृहत्यः द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः । इदमादीनां चतुर्णां सूक्तानां विश्वेदेवादेवता सूक्तविनियोगोलैंगिकः ।