श्रवणम्

8.70.14
भूरि᳚भिः समह॒ ऋषि᳚भिर्ब॒र्हिष्म᳚द्भिः स्तविष्यसे ।
यदि॒त्थमेक᳚मेक॒मिच्छर᳚ व॒त्सान्प᳚रा॒ददः᳚ ॥
▶ पदपाठः (Word-by-word)
भूरि᳚॑भिः । स॒म॒ह॒ । ऋषि᳚॑भिः । ब॒र्हिष्म᳚त्॑भिः । स्त॒वि॒ष्य॒से॒ ।
यत् । इ॒त्थम् । एक᳚म्॑एकम् । इत् । शर᳚ । व॒त्सान् । प॒रा॒॑ददः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र समह समानपूज सर्वैः पूज्येत्यर्थः भूरिभिर्बहुभिऋषिभिः अतीन्द्रियज्ञैऋत्विग्भिः बर्हिष्मद्भिः यागवद्भिःस्तविष्यसे स्तूयसे यतः यइन्द्र इत्थं एकमेकमित् एकमेकमेव बहून्वत्सान्स्तोतृभ्यः पराददः प्रयच्छसि हे शर हिंसक शत्रोः । अत्र वत्सशब्दो वत्समातॄणां गवां उपलक्षकः गाः प्रयच्छसीति ॥ १४ ॥