अपा॒दिन्द्रो॒ अपा᳚द॒ग्निर्विश्वे᳚ दे॒वा अ᳚मत्सत ।
वरु᳚ण॒ इदि॒ह क्ष᳚य॒त्तमापो᳚ अ॒भ्य᳚नूषत व॒त्सं सं॒शिश्व᳚रीरिव ॥
वरु᳚ण॒ इदि॒ह क्ष᳚य॒त्तमापो᳚ अ॒भ्य᳚नूषत व॒त्सं सं॒शिश्व᳚रीरिव ॥
पदपाठः (Word-by-word)
अपा᳚त् । इन्द्रः᳚ । अपा᳚त् । अ॒ग्निः । विश्वे᳚ । दे॒वाः । अ॒म॒त्स॒त॒ ।
वरु᳚णः । इत् । इ॒ह । क्ष॒य॒त् । तम् । आपः᳚ । अ॒भि । अ॒नू॒ष॒त॒ । व॒त्सम् । सं॒शिश्व᳚रीः॑इव ॥
वरु᳚णः । इत् । इ॒ह । क्ष॒य॒त् । तम् । आपः᳚ । अ॒भि । अ॒नू॒ष॒त॒ । व॒त्सम् । सं॒शिश्व᳚रीः॑इव ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रोपादपिबत् सोममग्निरप्यपिबत् विश्वेदेवा अप्यमत्सत तृप्ता अभवन् सोमपानेन वरुणइत् वरुणोपीहास्मिन् यागगृहे क्षयत् निवसतु सोमपानार्थं निवसन्तं तं आपोप्यभ्यनूषत उदकान्यापनशीलाः स्तुतयोवा अभ्यस्तुवन् । किमिव वत्सं स्वीयं संशिश्वरीः संशिश्वर्यः संगच्छमाना गावइव । तायथा धावत्यो हंभारवं कुर्वन्ति तद्वत् ॥ ११ ॥