आ यत्पत᳚न्त्ये॒न्य᳚ः सु॒दुघा॒ अन᳚पस्फुरः ।
अ॒प॒स्फुरं᳚ गृभायत॒ सोम॒मिन्द्रा᳚य॒ पात᳚वे ॥
अ॒प॒स्फुरं᳚ गृभायत॒ सोम॒मिन्द्रा᳚य॒ पात᳚वे ॥
पदपाठः (Word-by-word)
आ । यत् । पत᳚न्ति । ए॒न्यः᳚ । सु॒॑दुघाः᳚ । अन᳚प॑स्फुरः ।
अ॒प॒॑स्फुर᳚म् । गृ॒भा॒य॒त॒ । सोम᳚म् । इन्द्रा᳚य । पात᳚वे ॥
अ॒प॒॑स्फुर᳚म् । गृ॒भा॒य॒त॒ । सोम᳚म् । इन्द्रा᳚य । पात᳚वे ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदा एन्यः एतवर्णाः शुभ्रवर्णानद्यः आपतन्ति आगच्छन्ति सर्वतः प्रवहन्ति । कीदृश्यः सुदुघाः सुदोहा अनपस्फुरः अपस्फुरो अपस्फुरा अपवृद्धाः अतादृश्यः अनपस्फुरः अत्यन्तंप्रवृद्धाइत्यर्थः । यद्वा सुदुघाः प्रवृद्धा एतवर्णागावो यदा पयआद्यर्थायापतन्ति तदा अपस्फुरं अत्रापशब्दो धात्वर्थानुवादी अत्यन्तं प्रवृद्धं सोममिन्द्राय पातवे पातुं गृभायत ग्रहणंकुरुत । अथवा अनपस्फुरइत्यत्रापशब्दोनुवादी धात्वर्थस्य । तथासत्ययमर्थः-यदाएन्योनद्यः अनपस्फुरः अप्रवृद्धोदका आपतन्ति वृष्टिरल्पा यदाभवति तदा सोममिन्द्रार्थं संपादयतेति ॥ १० ॥