श्रवणम्

8.65.7
यच्चि॒द्धि शश्व᳚ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् ।
तं त्वा᳚ व॒यं ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त् । हि । शश्व᳚ताम् । असि᳚ । इन्द्र᳚ । साधा᳚रणः । त्वम् ।
तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं यच्चिद्धि यस्मात्खलु शश्वतां बहूनां यजमानानां साधारणोसि । चिदितिपूरणः । हीतिप्रसिद्धौ । तं तादृशं साधारणं त्वा त्वां वयं हवा- महे आह्वयामः । इतरेभ्यः पूर्वमिति भावः ॥ ७ ॥ प्रातःसवने इदंतेसोम्यमिति होतुः प्रस्थितयाज्या । सूत्रितञ्च-इदंतेसोम्यंमधु मित्रंवयंहवामहइति ।