श्रवणम्

8.15.7
तव॒ त्यदि᳚न्द्रि॒यं बृ॒हत्तव॒ शुष्म᳚मु॒त क्रतु᳚म् ।
वज्रं᳚ शिशाति धि॒षणा॒ वरे᳚ण्यम् ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव᳚ । शुष्म᳚म् । उ॒त । क्रतु᳚म् ।
वज्र᳚म् । शि॒शा॒ति॒ । धि॒षणा᳚ । वरे᳚ण्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तव त्यत् तत्प्रसिद्धं इन्द्रियमिन्द्रस्यलिंगं बृहत्प्रभूतं वीर्यं धिषणा स्तुतिः शिशाति निःश्यति तीक्ष्णीकरोति । तथा तव त्वदीयं शुष्मं शोषकं बलं उतापिच क्रतुं प्रज्ञानं बलं कर्म वा वरेण्यं वरणीयं वज्रमायुधंच स्तुतिः तीक्ष्णीकरोति ॥ ७ ॥