श्रवणम्

8.44.7
प्र॒त्नं होता᳚र॒मीड्यं॒ जुष्ट᳚म॒ग्निं क॒विक्र᳚तुम् ।
अ॒ध्व॒राणा᳚मभि॒श्रिय᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र॒त्नम् । होता᳚रम् । ईड्य᳚म् । जुष्ट᳚म् । अ॒ग्निम् । क॒वि॑क्र᳚तुम् ।
अ॒ध्व॒राणा᳚म् । अ॒भि॒॑श्रिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रत्नं पुराणं होतारं देवानामाह्वातारं ईड्यं स्तुत्यं जुष्टं प्रीतं सेवितं वा कविक्रतुं क्रांतकर्माणं अध्वराणां यज्ञानामभिश्रियमभिश्रयितारं अग्निमिळे स्तौमि ॥ ७ ॥