श्रवणम्

8.44.15
यो अ॒ग्निं त॒न्वो॒३॒᳚ दमे᳚ दे॒वं मर्त᳚ः सप॒र्यति᳚ ।
तस्मा॒ इद्दी᳚दय॒द्वसु᳚ ॥
▶ पदपाठः (Word-by-word)
यः । अ॒ग्निम् । त॒न्वः᳚ । दमे᳚ । दे॒वम् । मर्तः᳚ । स॒प॒र्यति᳚ ।
तस्मै᳚ । इत् । दी॒द॒य॒त् । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योमर्तोमनुष्यो दमे गृहे अग्निं देवं तन्वोधनस्यप्राप्त्यर्थमितिशेषः । भोजनं तनाइति धननामसुपाठात् । सपर्यति परिचरति तस्माइत् तस्माएव वसु धनं दीदयत् सोग्निः प्रयच्छति ॥ १५ ॥