अग्ने॒ स्तोमं᳚ जुषस्व मे॒ वर्ध᳚स्वा॒नेन॒ मन्म᳚ना ।
प्रति᳚ सू॒क्तानि᳚ हर्य नः ॥
प्रति᳚ सू॒क्तानि᳚ हर्य नः ॥
पदपाठः (Word-by-word)
अग्ने᳚ । स्तोम᳚म् । जु॒ष॒स्व॒ । मे॒ । वर्ध᳚स्व । अ॒नेन᳚ । मन्म᳚ना ।
प्रति᳚ । सु॒॑उ॒क्तानि᳚ । ह॒र्य॒ । नः॒ ॥
प्रति᳚ । सु॒॑उ॒क्तानि᳚ । ह॒र्य॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने मे आङ्गिरसस्य मम स्तोमं स्तोत्रं जुषस्व सेवस्व अनेन मन्मना मननीयेन स्तोत्रेण वर्धस्व च । नोस्माकं सूक्तानि प्रतिहर्य कामय च ॥ २ ॥